उपास्य
रात्रिशेषं
तु
शोणाकूले
महर्षिभिः ।
निशायां
सुप्रभातायां
विश्वामित्रोऽभ्यभाषत ॥ १ ॥
सुप्रभाता
निशा
राम
पूर्वा
सन्ध्या
प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ
भद्रं
ते
गमनायाभिरोचय ॥ २ ॥
तच्छ्रुत्वा
वचनं
तस्य
कृत्वा
पौर्वाह्णिकीं
क्रियाम् ।
गमनं
रोचयामास
वाक्यं
चेदमुवाच
ह ॥ ३ ॥
अयं
शोणः
शुभजलो
गाधः
पुलिनमण्डितः ।
कतरेण
पथा
ब्रह्मन्
सन्तरिष्यामहे
वयम् ॥ ४ ॥
एवमुक्तस्तु
रामेण
विश्वामित्रोऽब्रवीदिदम् ।
एष
पन्था
मयोद्दिष्टो
येन
यान्ति
महर्षयः ॥ ५ ॥
एवमुक्ता
महर्षयो
विश्वामित्रेण
धीमता ।
पश्यन्तस्ते
प्रयाता
वै
वनानि
विविधानि
च ॥ ६ ॥
ते
गत्वा
दूरमध्वानं
गतेऽर्द्धदिवसे
तदा ।
जाह्नवीं
सरितां
श्रेष्ठां
ददृशुर्मुनिसेविताम् ॥ ७ ॥
तां
दृष्ट्वा
पुण्यसलिलां
हंससारससेविताम् ।
बभूवुर्मुनयः
सर्वे
मुदिताः
सहराघवाः ॥ ८ ॥
तस्यास्तीरे
ततश्चक्रुस्त
आवासपरिग्रहम् ।
ततः
स्नात्वा
यथान्यायं
सन्तर्प्य
पितृदेवताः ॥ ९ ॥
हुत्वा
चैवाग्निहोत्राणि
प्राश्य
चामृतवद्धविः ।
विविशुर्जाह्नवीतीरे
शुचौ
मुदितमानसाः ॥ १० ॥
विश्वामित्रं
महात्मानं
परिवार्य
समन्ततः ।
अथ
तत्र
तदा
रामो
विश्वामित्रमथाब्रवीत् ॥ ११ ॥
भगवन्
श्रोतुमिच्छामि
गङ्गां
त्रिपथगां
नदीम् ।
त्रैलोक्यं
कथमाक्रम्य
गता
नदनदीपतिम् ॥ १२ ॥
चोदितो
रामवाक्येन
विश्वामित्रो
महामुनिः ।
वृद्धिं
जन्म
च
गङ्गाया
वक्तुमेवोपचक्रमे ॥ १३ ॥
शैलेन्द्रो
हिमवान्नाम
धातूनामाकरो
महान् ।
तस्य
कन्याद्वयं
राम
रूपेणाप्रतिमं
भुवि ॥ १४ ॥
नाम्ना
मनोरमा
नाम
पत्नी
हिमवतः
प्रिया ।
तस्यां
गङ्गेयमभवज्ज्येष्ठा
हिमवतः
सुता ॥ १५ ॥
उमा
नाम
द्वितीयाभून्नाम्ना
तस्यैव
राघव ।
अथ
ज्येष्ठां
सुराः
सर्वे
देवतार्थचिकीर्षया ॥ १६ ॥
शैलेन्द्रं
वरयामासुर्गङ्गां
त्रिपथगां
नदीम् ।
ददौ
धर्मेण
हिमवांस्तनयां
लोकपावनीम् ॥ १७ ॥
स्वच्छन्दपथगां
गङ्गां
त्रैलोक्यहितकाम्यया ।
प्रतिगृह्य
त्रिलोकार्थं
त्रिलोकहितकारिणः ॥ १८ ॥
गङ्गामादाय
तेऽगच्छन्
कृतार्थेनान्तरात्मना ।
या
चान्या
शैलदुहिता
कन्याऽऽसीद्रघुनन्दन ॥ १९ ॥
उग्रं
सा
व्रतमास्थाय
तपस्तेपे
तपोधना ।
उग्रेण
तपसा
युक्तां
ददौ
शैलवरः
सुताम् ॥ २० ॥
रुद्रायाप्रतिरूपाय
उमां
लोकनमस्कृताम् ।
एते
ते
शैलराजस्य
सुते
लोकनमस्कृते ॥ २१ ॥
गङ्गा
च
सरितां
श्रेष्ठा
उमा
देवी
च
राघव ।
एतत्ते
सर्वमाख्यातं
यथा
त्रिपथगा
नदी ॥ २२ ॥
खं
गता
प्रथमं
तात
गतिं
गतिमतां
वर ।
सैषा
सुरनदी
रम्या
शैलेन्द्रस्य
सुता
तदा ॥ २३ ॥
सुरलोकं
समारूढा
विपापा
जलवाहिनी ॥ २४ ॥