उक्तवाक्ये
मुनौ
तस्मिन्नुभौ
राघवलक्ष्मणौ ।
अभिनन्द्य
कथां
वीरावूचतुर्मुनिपुङ्गवम् ॥ १ ॥
दुहितुः
शैलराजस्य
ज्येष्ठाया
वक्तुमर्हसि ।
विस्तरं
विस्तरज्ञोऽसि
दिव्यमानुषसम्भवम् ॥ २ ॥
त्रीन्
पथो
हेतुना
केन
प्लावयेल्लोकपावनी ।
कथं
गङ्गा
त्रिपथगा
विश्रुता
सरिदुत्तमा ॥ ३ ॥
त्रिषु
लोकेषु
धर्मज्ञ
कर्मभिः
कैः
समन्विता ।
निखिलेन
कथां
सर्वामृषिमध्ये
न्यवेदयत् ॥ ४ ॥
पुरा
राम
कृतोद्वाहो
नीलकण्ठो
महातपाः ।
दृष्ट्वा
च
स्पृहया
देवीं
मैथुनायोपचक्रमे ॥ ५ ॥
शितिकण्ठस्य
देवस्य
दिव्यं
वर्ष
शतङ्
गतम् ।
न
चापि
तनयो
राम
तस्यामासीत्परन्तप ॥ ६ ॥
ततो
देवाः
समुद्विग्नाः
पितामहपुरोगमाः ।
यदिहोत्पद्यते
भूतं
कस्तत्प्रतिसहिष्यते ॥ ७ ॥
अभिगम्य
सुराः
सर्वे
प्रणिपत्येदमब्रुवन् ।
देवदेव
महादेव
लोकस्यास्य
हिते
रत ॥ ८ ॥
सुराणां
प्रणिपातेन
प्रसादं
कर्तुमर्हसि ।
न
लोका
धारयिष्यन्ति
तव
तेजः
सुरोत्तम ॥ ९ ॥
ब्राह्मेण
तपसा
युक्तो
देव्या
सह
तपश्चर ।
त्रैलोक्यहितकामार्थं
तेजस्तेजसि
धारय ॥ १० ॥
देवतानां
वचः
श्रुत्वा
सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत्
सर्वान्
पुनश्चेदमुवाच
ह ॥ ११ ॥
धारयिष्याम्यहं
तेजस्तेजस्येव
सहोमया ।
त्रिदशाः
पृथिवी
चैव
निर्वाणम्
अधिगच्छतु ॥ १२ ॥
यदिदं
क्षुभितं
स्थानान्
मम
तेजो
ह्यनुत्तमम् ।
धारयिष्यति
कस्तन्मे
ब्रुवन्तु
सुरसत्तमाः ॥ १३ ॥
एवमुक्तास्ततो
देवाः
प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः
क्षुभितं
ह्येतत्तद्धरा
धारयिष्यति ॥ १४ ॥
एवमुक्तः
सुरपतिः
प्रमुमोच
महीतले ।
तेजसा
पृथिवी
येन
व्याप्ता
सगिरिकानना ॥ १५ ॥
ततो
देवाः
पुनरिदमूचुश्चाथ
हुताशनम् ।
प्रविश
त्वं
महातेजो
रौद्रं
वायुसमन्वितः ॥ १६ ॥
दिव्यं
शरवणं
चैव
पावकादित्यसन्निभम् ।
यत्र
जातो
महातेजाः
कार्तिकेयोऽग्निसम्भवः ॥ १७ ॥
अथोमां
च
शिवं
चैव
देवाः
सर्पिगणास्तदा ।
पूजयामासुरत्यर्थं
सुप्रीतमनसस्ततः ॥ १८ ॥
अथ
शैलसुता
राम
त्रिदशानिदमब्रवीत् ।
समन्युरशपत्सर्वान्
क्रोधसंरक्तलोचना ॥ १९ ॥
यस्मान्निवारिता
चैव
सङ्गतिः
पुत्रकाम्यया ।
अपत्यं
स्वेषु
दारेषु
तस्मान्नोत्पादयिष्यथ ॥ २० ॥
अद्यप्रभृति
युष्माकमप्रजाः
सन्तु
पत्नयः ।
एवमुक्त्वा
सुरान्
सर्वान्
शशाप
पृथिवीमपि ॥ २१ ॥
न
च
पुत्र
कृताम्
प्रीतिम्
मत्
क्रोध
कलुषीकृता ।
प्राप्स्यसि
त्वं
सुदुर्मेधे
मम
पुत्रमनिच्छती ॥ २२ ॥
तान्
सर्वान्
व्रीडितान्
दृष्ट्वा
सुरान्
सुरपतिस्तदा ।
गमनायोपचक्राम
दिशं
वरुणपालिताम् ॥ २३ ॥
स
गत्वा
तप
आतिष्ठत्
पार्श्वे
तस्योत्तरे
गिरेः ।
हिमवत्प्रभवे
शृङ्गे
सह
देव्या
महेश्वरः ॥ २४ ॥
एष
ते
विस्तरो
राम
शैलपुत्र्या
निवेदितः ।
गङ्गायाः
प्रभवं
चैव
शृणु
मे
सहलक्ष्मणः ॥ २५ ॥