तां
कथां
कौशिको
रामे
निवेद्य
कुशिकात्मजः ।
पुनरेवापरं
वाक्यं
काकुत्स्थमिदमब्रवीत् ॥ १ ॥
अयोध्याधिपतिः
शूरः
पूर्वमासीन्नराधिपः ।
सगरो
नाम
धर्मात्मा
प्रजाकामः
स
चाप्रजः ॥ २ ॥
वैदर्भदुहिता
राम
केशिनी
नाम
नामतः ।
ज्येष्ठा
सगरपत्नी
सा
धर्मिष्ठा
सत्यवादिनी ॥ ३ ॥
अरिष्टनेमिदुहिता
रूपेणाप्रतिमा
भुवि ।
द्वितीया
सगरस्यासीत्
पत्नी
सुमतिसञ्ज्ञिता ॥ ४ ॥
ताभ्यां
सह
तथा
राजा
पत्नीभ्यां
तप्तवांस्तपः ।
हिमवन्तं
समासाद्य
भृगुप्रस्रवणे
गिरौ ॥ ५ ॥
अथ
वर्षशते
पूर्णे
तपसाराधितो
मुनिः ।
सगराय
वरं
प्रादाद्भृगुः
सत्यवतां
वरः ॥ ६ ॥
अपत्यलाभः
सुमहान्
भविष्यति
तवानघ ।
कीर्तिं
चाप्रतिमां
लोके
प्राप्स्यसे
पुरुषर्षभ ॥ ७ ॥
एका
जनयिता
तात
पुत्रं
वंशकरं
तव ।
षष्टिं
पुत्रसहस्राणि
अपरा
जनयिष्यति ॥ ८ ॥
भाषमाणं
महात्मानं
राजपुत्र्यौ
प्रसाद्य
तम् ।
ऊचतुः
परमप्रीते
कृताञ्जलिपुटे
तदा ॥ ९ ॥
एकः
कस्यास्सुतो
ब्रह्मन्
का
बहून्
जनयिष्यति ।
श्रोतुमिच्छावहे
ब्रह्मन्
सत्यमस्तु
वचस्तव ॥ १० ॥
तयोस्तद्वचनं
श्रुत्वा
भृगुः
परमधार्मिकः ।
उवाच
परमां
वाणीं
स्वच्छन्दोऽत्र
विधीयताम् ॥ ११ ॥
एको
वंशकरो
वाऽस्तु
बहवो
वा
महाबलाः ।
कीर्तिमन्तो
महोत्साहाः
का
वा
कं
वरमिच्छति ॥ १२ ॥
मुनेस्तु
वचनं
श्रुत्वा
कैशिनी
रघुनन्दन ।
पुत्रं
वंशकरं
राम
जग्राह
नृपसन्निधौ ॥ १३ ॥
षष्टिं
पुत्रसहस्राणि
सुपर्णभगिनी
तदा ।
महोत्साहान्
कीर्तिमतो
जग्राह
सुमतिः
सुतान् ॥ १४ ॥
प्रदक्षिणमृषिं
कृत्वा
शिरसाभिप्रणम्य
च ।
जगाम
स्वपुरं
राजा
सभार्यो
रघुनन्दन ॥ १५ ॥
अथ
काले
गते
तस्मिन्
ज्येष्ठा
पुत्रं
व्यजायत ।
असमञ्ज
इति
ख्यातं
केशिनी
सगरात्मजम् ॥ १६ ॥
सुमतिस्तु
नरव्याघ्र
गर्भतुम्बं
व्यजायत ।
षष्टिः
पुत्राः
सहस्राणि
तुम्बभेदाद्विनिःसृताः ॥ १७ ॥
घृतपूर्णेषु
कुम्भेषु
धात्र्यस्तान्
समवर्द्धयन् ।
कालेन
महता
सर्वे
यौवनं
प्रतिपेदिरे ॥ १८ ॥
अथ
दीर्घेण
कालेन
रूपयौवनशालिनः ।
षष्टिः
पुत्रसहस्राणि
सगरस्याभवंस्तदा ॥ १९ ॥
बालान्
गृहीत्वा
तु
जले
सरय्वा
रघुनन्दन ।
प्रक्षिप्य
प्रहसन्नित्यं
मज्जतस्तान्
समीक्ष्य
वै ॥ २० ॥
एवं
पापसमाचारः
सज्जनप्रतिबाधकः ।
पौराणामहिते
युक्तः
पुत्रो
निर्वासितः
पुरात् ॥ २१ ॥
तस्य
पुत्रोंऽशुमान्नाम
असमञ्जस्य
वीर्यवान् ।
सम्मतः
सर्वलोकस्य
सर्वस्यापि
प्रियंवदः ॥ २२ ॥
ततः
कालेन
महता
मतिः
समभिजायत ।
सगरस्य
नरश्रेष्ठ
यजेयमिति
निश्चिता ॥ २३ ॥
स
कृत्वा
निश्चयं
राम
सोपाध्यायगणस्तदा ।
यज्ञकर्मणि
वेदज्ञो
यष्टुं
समुपचक्रमे ॥ २४ ॥