विश्वामित्रवचः
श्रुत्वा
कथान्ते
रघुनन्दनः ।
उवाच
परमप्रीतो
मुनिं
दीप्तमिवानलम् ॥ १ ॥
श्रोतुमिच्छामि
भद्रं
ते
विस्तरेण
कथामिमाम् ।
पूर्वको
मे
कथं
ब्रह्मन्
यज्ञं
वै
समुपाहरत् ॥ २ ॥
तस्य
तद्
वचनं
श्रुत्वा
कौतूहलसमन्वितः ।
विश्वामित्रस्तु
काकुत्स्थमुवाच
प्रहसन्निव ॥ ३ ॥
श्रूयतां
विस्तरो
राम
सगरस्य
महात्मनः ।
शङ्करश्वशुरो
नाम
हिमवानचलोत्तमः ॥ ४ ॥
विन्ध्यपर्वतमासाद्य
निरीक्षेते
परस्परम् ।
तयोर्मध्ये
प्रवृत्तोऽभूद्यज्ञः
स
पुरुषोत्तम ॥ ५ ॥
स
हि
देशो
नरव्याघ्र
प्रशस्तो
यज्ञकर्मणि ।
तस्याश्वचर्यां
काकुत्स्थ
दृढधन्वा
महारथः ॥ ६ ॥
अंशुमानकरोत्तात
सगरस्य
मते
स्थितः ।
तस्य
पर्वणि
तं
यज्ञं
यजमानस्य
वासवः ॥ ७ ॥
राक्षसीं
तनुमास्थाय
यज्ञीयाश्वमपाहरत् ।
ह्रियमाणो
तु
काकुत्स्थ
तस्मिन्नश्वे
महात्मनः ॥ ८ ॥
उपाध्यायगणाः
सर्वे
यजमानमथाब्रुवन् ।
अयं
पर्वणि
वेगेन
यज्ञीयाश्वोऽपनीयते ॥ ९ ॥
हर्तारं
जहि
काकुत्स्थ
हयश्चैवोपनीयताम् ।
यज्ञच्छिद्रं
भवत्येतत्सर्वेषामशिवाय
नः ॥ १० ॥
तत्तथा
क्रियतां
राजन्
यथाऽच्छिद्रः
क्रतुर्भवेत् ।
उपाध्यायवचः
श्रुत्वा
तस्मिन्
सदसि
पार्थिवः ॥ ११ ॥
षष्टिं
पुत्रसहस्राणि
वाक्यमेतदुवाच
ह ।
गतिं
पुत्रा
न
पश्यामि
रक्षसां
पुरुषर्षभाः ॥ १२ ॥
मन्त्रपूतैर्महाभागैरास्थितो
हि
महाक्रतुः ।
तद्गच्छत
विचिन्वध्वं
पुत्रका
भद्रमस्तु
वः ॥ १३ ॥
समुद्रमालिनीं
सर्वां
पृथिवीमनुगच्छत ।
एकैकं
योजनं
पुत्रा
विस्तारमभिगच्छत ॥ १४ ॥
यावत्तुरगसन्दर्शस्तावत्
खनत
मेदिनीम् ।
तं
चैव
हयहर्तारं
मार्गमाणा
ममाज्ञया ॥ १५ ॥
दीक्षितः
पौत्रसहितः
सोपाध्यायगणो
ह्यहम् ।
इह
स्थास्यामि
भद्रं
वो
यावत्तुरगदर्शनम् ॥ १६ ॥
इत्युक्ता
हृष्टमनसो
राजपुत्रा
महाबलाः ।
जग्मुर्मुहीतलं
राम
पितुर्वचनयन्त्रिताः ॥ १७ ॥
योजनायामविस्तारमेकैको
धरणीतलम् ।
बिभिदुः
पुरुषव्याघ्र
वज्रस्पर्शसमैर्नखैः ॥ १८ ॥
शूलैरशनिकल्पैश्च
हलैश्चापि
सुदारुणैः ।
भिद्यमाना
वसुमती
ननाद
रघुनन्दन ॥ १९ ॥
नागानां
वध्यमानानामसुराणां
च
राघव ।
राक्षसानां
च
दुर्द्धर्षः
सत्त्वानां
निनदोऽभवत् ॥ २० ॥
योजनानां
सहस्राणि
षष्टिं
तु
रघुनन्दन ।
बिभिदुर्धरणीं
वीरा
रसातलमनुत्तमम् ॥ २१ ॥
एवं
पर्वतसम्बाधं
जम्बूद्वीपं
नृपात्मजाः ।
खनन्तो
नृपशार्दूल
सर्वतः
परिचक्रमुः ॥ २२ ॥
ततो
देवाः
सगन्धर्वाः
सासुरास्सहपन्नगाः ।
सम्भ्रान्तमनसः
सर्वे
पितामहमुपागमन् ॥ २३ ॥
ते
प्रसाद्य
महात्मानं
विषण्णवदनास्तदा ।
ऊचुः
परमसन्त्रस्ताः
पितामहमिदं
वचः ॥ २४ ॥
भगवन्
पृथिवी
सर्वा
खन्यते
सगरात्मजैः ।
बहवश्च
महात्मानो
हन्यन्ते
तलवासिनः ॥ २५ ॥
अयं
यज्ञहरोऽस्माकमनेनाश्वोऽपनीयते ।
इति
ते
सर्वभूतानि
निघ्नन्ति
सगरात्मजाः ॥ २६ ॥