देवतानां
वचः
श्रुत्वा
भगवान्
वै
पितामहः ।
प्रत्युवाच
सुसन्त्रस्तान्
कृतान्तबलमोहितान् ॥ १ ॥
महिषी
माधवस्यैषा
स
एव
भगवान्
प्रभुः ।
कापिलं
रूपमास्थाय
धारयत्यनिशं
धराम् ॥ २ ॥
तस्य
कोपाग्निना
दग्धा
भविष्यन्ति
नृपात्मजाः ।
पृथिव्याश्चापि
निर्भेदो
दृष्ट
एव
सनातनः ॥ ३ ॥
सगरस्य
च
पुत्राणां
विनाशोऽदीर्घजीविनाम् ।
पितामहवचः
श्रुत्वा
त्रयस्त्रिंशदरिन्दम ॥ ४ ॥
देवाः
परमसंहृष्टाः
पुनर्जग्मुर्यथागतम् ।
सगरस्य
च
पुत्राणां
प्रादुरासीन्महात्मनाम् ॥ ५ ॥
पृथिव्यां
भिद्यमानायां
निर्घातसमनिःस्वनः ।
ततो
भित्त्वा
महीं
सर्वे
कृत्वा
चापि
प्रदक्षिणम् ॥ ६ ॥
सहिताः
सागराः
सर्वे
पितरं
वाक्यमब्रुवन् ।
परिक्रान्ता
मही
सर्वा
सत्त्ववन्तश्च
सूदिताः ॥ ७ ॥
देवदानवरक्षांसि
पिशाचोरगकिन्नराः ।
न
च
पश्यामहेऽश्वं
तमश्वहर्तारमेव
च ॥ ८ ॥
किं
करिष्याम
भद्रं
ते
बुद्धिरत्र
विचार्यताम् ।
तेषां
तद्वचनं
श्रुत्वा
पुत्राणां
राजसत्तमः ॥ ९ ॥
समन्युरब्रवीद्वाक्यं
सगरो
रघुनन्दन ।
भूयः
खनत
भद्रं
वो
निर्भिद्य
वसुधातलम् ॥ १० ॥
अश्वहर्तारमासाद्य
कृतार्थाश्च
निवर्तथ ।
पितुर्वचनमासाद्य
सगरस्य
महात्मनः ॥ ११ ॥
षष्टिः
पुत्रसहस्राणि
रसातलमभिद्रवन् ।
खन्यमाने
ततस्तस्मिन्
ददृशुः
पर्वतोपमम् ॥ १२ ॥
दिशागजं
विरूपाक्षं
धारयन्तं
महीतलम् ।
सपर्वतवनां
कृत्स्नां
पृथिवीं
रघुनन्दन ॥ १३ ॥
शिरसा
धारयामास
विरूपाक्षो
महागजः ।
यदा
पर्वणि
काकुत्स्थ
विश्रमार्थं
महागजः ॥ १४ ॥
खेदाच्चालयते
शीर्षं
भूमिकम्पस्तदा
भवेत् ।
तं
ते
प्रदक्षिणं
कृत्वा
दिशापालं
महागजम् ॥ १५ ॥
मानयन्तो
हि
ते
राम
जग्मुर्भित्त्वा
रसातलम् ।
ततः
पूर्वां
दिशं
भित्त्वा
दक्षिणां
बिभिदुः
पुनः ॥ १६ ॥
दक्षिणस्यामपि
दिशि
ददृशुस्ते
महागजम् ।
महापद्मं
महात्मानं
सुमहत्पर्वतोपमम् ॥ १७ ॥
शिरसा
धारयन्तं
ते
विस्मयं
जग्मुरुत्तमम् ।
ततः
प्रदक्षिणं
कृत्वा
सगरस्य
महात्मनः ॥ १८ ॥
षष्टिः
पुत्रसहस्राणि
पश्चिमां
बिभिदुर्दिशम् ।
पश्चिमायामपि
दिशि
महान्तमचलोपमम् ॥ १९ ॥
दिशागजं
सौमनसं
ददृशुस्ते
महाबलाः ।
तं
ते
प्रदक्षिणं
कृत्वा
पृष्ट्वाचापि
निरामयम् ॥ २० ॥
खनन्तः
समुपक्रान्ता
दिशं
हैमवतीं
ततः ।
उत्तरस्यां
रघुश्रेष्ठ
ददृशुर्हिमपाण्डरम् ॥ २१ ॥
भद्रं
भद्रेण
वपुषा
धारयन्तं
महीमिमाम् ।
समालभ्य
ततः
सर्वे
कृत्वा
चैनं
प्रदक्षिणम् ॥ २२ ॥
षष्टिः
पुत्रसहस्राणि
बिभिदुर्वसुधातलम् ।
ततः
प्रागुत्तरां
गत्वा
सागराः
प्रथितां
दिशम् ॥ २३ ॥
रोषादभ्यखनन्
सर्वे
पृथिवीं
सगरात्मजाः ।
ते
तु
सर्वे
महात्मानो
भीमवेगा
महाबलाः ॥ २४ ॥
ददृशुः
कपिलं
तत्र
वासुदेवं
सनातनम् ।
हयं
च
तस्य
देवस्य
चरन्तमविदूरतः ॥ २५ ॥
प्रहर्षमतुलं
प्राप्ताः
सर्वे
ते
रघुनन्दन ।
खनित्रलाङ्गलधरा
नानावृक्षशिलाधराः ॥ २६ ॥
अभ्यधावन्त
सङ्क्रुद्धास्तिष्ठ
तिष्ठेति
चाब्रुवन् ।
अस्माकं
त्वं
हि
तुरगं
यज्ञीयं
हृतवानसि ॥ २७ ॥
दुर्मेधस्त्वं
हि
सम्प्राप्तान्
विद्धि
नः
सगरात्मजान् ।
श्रुत्वा
तु
वचनं
तेषां
कपिलो
रघुनन्दन ॥ २८ ॥
रोषेण
महताऽऽविष्टो
हुङ्कारमकरोत्तदा ।
ततस्तेनाप्रमेयेन
कपिलेन
महात्मना ॥ २९ ॥
भस्मराशीकृताः
सर्वे
काकुत्स्थ
सगरात्मजाः ॥ ३० ॥