पुत्रांश्चिरगतान्
ज्ञात्वा
सगरो
रघुनन्दन ।
नप्तारमब्रवीद्राजा
दीप्यमानं
स्वतेजसा ॥ १ ॥
शूरश्च
कृतविद्यश्च
पूर्वैस्तुल्योऽसि
तेजसा ।
पितॄणां
गतिमन्विच्छ
येन
चाश्वोऽपवाहितः ॥ २ ॥
अन्तर्भौमानि
सत्त्वानि
वीर्यवन्ति
महान्ति
च ।
तेषां
त्वं
प्रतिघातार्थं
सासिं
गृह्णीष्व
कार्मुकम् ॥ ३ ॥
अभिवाद्याभिवाद्यांस्त्वं
हत्वा
विघ्नकरानपि ।
सिद्धार्थस्सन्निवर्तस्व
मम
यज्ञस्य
पारगः ॥ ४ ॥
एवमुक्तोंऽशुमान्
सम्यक्
सगरेण
महात्मना ।
धनुरादाय
खङ्गं
च
जगाम
लघुविक्रमः ॥ ५ ॥
स
खातं
पितृभिर्मार्गमन्तर्भौमं
महात्मभिः ।
प्रापद्यत
नरश्रेष्ठस्तेन
राज्ञाऽभिचोदितः ॥ ६ ॥
दैत्यदानवरक्षोभिः
पिशाचपतगोरगैः ।
पूज्यमानं
महातेजा
दिशागजमपश्यत ॥ ७ ॥
स
तं
प्रदक्षिणं
कृत्वा
पृष्ट्वा
चैव
निरामयम् ।
पितॄन्
स
परिपप्रच्छ
वाजिहर्तारमेव
च ॥ ८ ॥
दिशागजस्तु
तच्छ्रुत्वा
प्रत्याहांशुमतो
वचः ।
आसमञ्ज
कृतार्थस्त्वं
सहाश्वः
शीघ्रमेष्यसि ॥ ९ ॥
तस्य
तद्वचनं
श्रुत्वा
सर्वानेव
दिशागजान् ।
यथाक्रमं
यथान्यायं
प्रष्टुं
समुपचक्रमे ॥ १० ॥
तैश्च
सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः ।
पूजितः
सहयश्चैव
गन्तासीत्यभिचोदितः ॥ ११ ॥
तेषां
तद्वचनं
श्रुत्वा
जगाम
लघुविक्रमः ।
भस्मराशीकृता
यत्र
पितरस्तस्य
सागराः ॥ १२ ॥
स
दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा ।
चुक्रोश
परमार्तस्तु
वधात्तेषां
सुदुःखितः ॥ १३ ॥
यज्ञीयं
च
हयं
तत्र
चरन्तमविदूरतः ।
ददर्श
पुरुषव्याघ्रो
दुःखशोकसमन्वितः ॥ १४ ॥
स
तेषां
राजपुत्राणां
कर्तुकामो
जलक्रियाम् ।
सलिलार्थी
महातेजा
न
चापश्यज्जलाशयम् ॥ १५ ॥
विसार्य
निपुणां
दृष्टिं
ततोऽपश्यत्
खगाधिपम् ।
पितॄणां
मातुलं
राम
सुपर्णमनिलोपमम् ॥ १६ ॥
स
चैवमब्रवीद्वाक्यं
वैनतेयो
महाबलः ।
मा
शुचः
पुरुषव्याघ्र
वधोऽयं
लोकसम्मतः ॥ १७ ॥
कपिलेनाप्रमेयेन
दग्धा
हीमे
महाबलाः ।
सलिलं
नार्हसि
प्राज्ञ
दातुमेषां
हि
लौकिकम् ॥ १८ ॥
गङ्गा
हिमवतो
ज्येष्ठा
दुहिता
पुरुषर्षभ ।
तस्यां
कुरु
महाबोहो
पितॄणां
तु
जलक्रियाम् ॥ १९ ॥
तया
क्लिन्नमिदं
भस्म
गङ्गया
लोककान्तया ।
षष्टिं
पुत्रसहस्राणि
स्वर्गलोकं
नयिष्यति ॥ २० ॥
गच्छ
चाश्वं
महाभाग
तं
गृह्य
पुरुषर्षभ ।
यज्ञं
पैतामहं
वीर
संवर्तयितुमर्हसि ॥ २१ ॥
सुपर्णवचनं
श्रुत्वा
सोंऽशुमानति
वीर्यवान् ।
त्वरितं
हयमादाय
पुनरायान्महायशाः ॥ २२ ॥
ततो
राजानमासाद्य
दीक्षितं
रघुनन्दन ।
न्यवेदयद्यथावृत्तं
सुपर्णवचनं
तथा ॥ २३ ॥
तच्छ्रुत्वा
घोरसङ्काशं
वाक्यमंशुमतो
नृपः ।
यज्ञं
निर्वर्तयामास
यथाकल्पं
यथाविधि ॥ २४ ॥
स्वपुरं
चागमच्छ्रीमानिष्टयज्ञो
महीपतिः ।
गङ्गायाश्चागमे
राजा
निश्चयं
नाध्यगच्छत ॥ २५ ॥
अकृत्वा
निश्चयं
राजा
कालेन
महता
महान् ।
त्रिंशद्वर्षसहस्राणि
राज्यं
कृत्वा
दिवं
गतः ॥ २६ ॥