देवदेवे
गते
तस्मिन्
सोऽङ्गुष्ठाग्रनिपीडिताम् ।
कृत्वा
वसुमतीं
राम
संवत्सरमुपासत ॥ १ ॥
अथ
संवत्सरे
पूर्णे
सर्वलोकनमस्कृतः ।
उमापतिः
पशुपती
राजानमिदमब्रवीत् ॥ २ ॥
प्रीतस्तेऽहं
नरश्रेष्ठ
करिष्यामि
तव
प्रियम् ।
शिरसा
धारयिष्यामि
शैलराजसुतामहम् ॥ ३ ॥
तदा
साऽतिमहद्रूपं
कृत्वा
वेगं
च
दुस्सहम् ।
आकाशादपतद्राम
शिवे
शिवशिरस्युत ॥ ४ ॥
अचिन्तयच्च
सा
देवी
गङ्गा
परमदुर्द्धरा ।
विशाम्यहं
हि
पातालं
स्रोतसा
गृह्य
शङ्करम् ॥ ५ ॥
तस्या
वलेपनं
ज्ञात्वा
क्रुद्धस्तु
भगवान्
हरः ।
तिरोभावयितुं
बुद्धिं
चक्रे
त्रिणयनस्तदा ॥ ६ ॥
सा
तस्मिन्
पतिता
पुण्या
पुण्ये
रुद्रस्य
मूर्द्धनि ।
हिमवत्प्रतिमे
राम
जटामण्डलगह्वरे ॥ ७ ॥
सा
कथञ्चिन्महीं
गन्तुं
नाशक्नोद्यत्नमास्थिता ।
नैव
निर्गमनं
लेभे
जटामण्डलमोहिता ॥ ८ ॥
तत्रैवाबम्भ्रमद्देवी
संवत्सरगणान्
बहून् ।
तामपश्यन्
पुनस्तत्र
तपः
परममास्थितः ॥ ९ ॥
अनेन
तोषितश्चाभूदत्यर्थं
रघुनन्दन ।
विससर्ज
ततो
गङ्गां
हरो
बिन्दुसरः
प्रति ॥ १० ॥
तस्यां
विसृज्यमानायां
सप्त
स्रोतांसि
जज्ञिरे ।
ह्लादिनी
पावनी
चैव
नलिनी
च
तथाऽपरा ॥ ११ ॥
तिस्रः
प्राचीं
दिशं
जग्मुर्गङ्गाश्शिवजलाश्शुभाः ।
सुचक्षुश्चैव
सीता
च
सिन्धुश्चैव
महानदी ॥ १२ ॥
तिस्रस्त्वेता
दिशं
जग्मुः
प्रतीचीं
तु
शुभोदकाः ।
सप्तमी
चान्वगात्तासां
भगीरथमथो
नृपम् ॥ १३ ॥
भगीरथोऽपि
राजर्षिर्दिव्यं
स्यन्दनमास्थितः ।
प्रायादग्रे
महातेजा
गङ्गा
तं
चाप्यनुव्रजत् ॥ १४ ॥
गगनाच्छङ्करशिरस्ततो
धरणिमाश्रिता ।
व्यसर्पत
जलं
तत्र
तीव्रशब्दपुरस्कृतम् ॥ १५ ॥
मत्स्यकच्छपसङ्घैश्च
शिंशुमारगणैस्तदा ।
पतद्भिः
पतितैश्चान्यैर्व्यरोचत
वसुन्धरा ॥ १६ ॥
ततो
देवर्षिगन्धर्वा
यक्षाः
सिद्धगणास्तदा ।
व्यलोकयन्त
ते
तत्र
गगनाद्गां
गतां
तथा ॥ १७ ॥
विमानैर्नगराकारैर्हयैर्गजवरैस्तदा ।
पारिप्लवगतैश्चापि
देवतास्तत्र
विष्ठिताः ॥ १८ ॥
तदद्भुततमं
लोके
गङ्गापतनमुत्तमम् ।
दिदृक्षवो
देवगणाः
समीयुरमितौजसः ॥ १९ ॥
सम्पतद्भिः
सुरगणैस्तेषां
चाभरणौजसा ।
शतादित्यमिवाभाति
गगनं
गततोयदम् ॥ २० ॥
शिंशुमारोरगगणैर्मीनैरपि
च
चञ्चलैः ।
विद्युद्भिरिव
विक्षिप्तमाकाशमभवत्तदा ॥ २१ ॥
पाण्डरैः
सलिलोत्पीडैः
कीर्यमाणैः
सहस्रधा ।
शारदाभ्रैरिवाकीर्णं
गगनं
हंससम्प्लवैः ॥ २२ ॥
क्वचिद्द्रुततरं
याति
कुटिलं
क्वचिदायतम् ।
विनतं
क्वचिदुद्भूतं
क्वचिद्याति
शनैः
शनैः ॥ २३ ॥
सलिलेनैव
सलिलं
क्वचिदभ्याहतं
पुनः ।
मुहुरूर्द्ध्वमुखं
गत्वा
पपात
वसुधातलम् ॥ २४ ॥
तच्छङ्करशिरोभ्रष्टं
भ्रष्टं
भूमितले
पुनः ।
व्यरोचत
तदा
तोयं
निर्मलं
गतकल्मषम् ॥ २५ ॥
तत्र
देवर्षिगन्धर्वा
वसुधातलवासिनः ।
भवाङ्गपतितं
तोयं
पवित्रमिति
पस्पृशुः ॥ २६ ॥
शापात्प्रपतिता
ये
च
गगनाद्वसुधातलम् ।
कृत्वा
तत्राभिषेकं
ते
बभूवुर्गतकल्मषाः ॥ २७ ॥
धूतपापाः
पुनस्तेन
तोयेनाथ
सुभास्वता ।
पुनराकाशमाविश्य
स्वान्
लोकान्
प्रतिपेदिरे ॥ २८ ॥
मुमुदे
मुदितो
लोकस्तेन
तोयेन
भास्वता ।
कृताभिषेको
गङ्गायां
बभूव
विगतक्लमः ॥ २९ ॥
भगीरथोऽपि
राजर्षिर्दिव्यं
स्यन्दनमास्थितः ।
प्रायादग्रे
महातेजास्तं
गङ्गा
पृष्टतोऽन्वगात् ॥ ३० ॥
देवाः
सर्षिगणाः
सर्वे
दैत्यदानवराक्षसाः ।
गन्धर्वयक्षप्रवराः
सकिन्नरमहोरगाः ॥ ३१ ॥
सर्वाश्चाप्सरसो
राम
भगीरथरथानुगाम् ।
गङ्गामन्वगमन्
प्रीताः
सर्वे
जलचराश्च
ये ॥ ३२ ॥
यतो
भगीरथो
राजा
ततो
गङ्गा
यशस्विनी ।
जगाम
सरितां
श्रेष्ठा
सर्वपापविनाशिनी ॥ ३३ ॥
ततो
हि
यजमानस्य
जह्नोरद्भुतकर्मणः ।
गङ्गा
सम्प्लावयामास
यज्ञवाटं
महात्मनः ॥ ३४ ॥
तस्या
वलेपनं
ज्ञात्वा
क्रुद्धो
जह्नुश्च
राघव ।
अपिबच्च
जलं
सर्वं
गङ्गायाः
परमाद्भुतम् ॥ ३५ ॥
अपिबत्
तु
जलम्
सर्वम्
गङ्गयाः
परम
अद्भुतम् ।
ततो
देवाः
सगङ्घर्वऋषयश्च
सु
विस्मिताः ॥ ३६ ॥
पूजयन्ति
महात्मानं
जह्नुं
पुरुषसत्तमम् ।
गङ्गां
चापि
नयन्ति
स्म
दुहितृत्वे
महात्मनः ॥ ३७ ॥
ततस्तुष्टो
महातेजाः
श्रोत्राभ्यामसृजत्
पुनः ।
तस्माज्जह्नुसुता
गङ्गा
प्रोच्यते
जाह्नवीति
च ॥ ३८ ॥
सागरं
चापि
सम्प्राप्ता
सा
सरित्प्रवरा
तदा ।
रसातलमुपागच्छत्
सिद्ध्यर्थं
तस्य
कर्मणः ॥ ३९ ॥
भगीरथोऽपि
राजर्षिर्गङ्गामादाय
यत्नतः ।
पितामहान्
भस्मकृतानपश्यद्दीनचेतनः ॥ ४० ॥
अथ
तद्भस्मनां
राशिं
गङ्गासलिलमुत्तमम् ।
प्लावयद्धूतपाप्मानः
स्वर्गं
प्राप्ता
रघूत्तम ॥ ४१ ॥