स
गत्वा
सागरं
राजा
गङ्गयानुगतस्तदा ।
प्रविवेश
तलं
भूमेर्यत्र
ते
भस्मसात्कृताः ॥ १ ॥
भस्मन्यथाप्लुते
राम
गङ्गायाः
सलिलेन
वै ।
सर्वलोकप्रभुर्ब्रह्मा
राजानमिदमब्रवीत् ॥ २ ॥
तारिता
नरशार्दूल
दिवं
याताश्च
देववत् ।
षष्टिः
पुत्रसहस्राणि
सगरस्य
महात्मनः ॥ ३ ॥
सागरस्य
जलं
लोके
यावत्
स्थास्यति
पार्थिव ।
सगरस्यात्मजा
स्तावत्
स्वर्गे
स्थास्यन्ति
देववत् ॥ ४ ॥
इयं
हि
दुहिता
ज्येष्ठा
तव
गङ्गा
भविष्यति ।
त्वत्कृतेन
च
नाम्नाथ
लोके
स्थास्यति
विश्रुता ॥ ५ ॥
गङ्गा
त्रिपथगा
राजन्
दिव्या
भागीरथीति
च ।
त्रीन्
पथो
भावयन्तीति
ततस्त्रिपथगा
स्मृता ॥ ६ ॥
पितामहानां
सर्वेषां
त्वमत्र
मनुजाधिप ।
कुरुष्व
सलिलं
राजन्
प्रतिज्ञामपवर्जय ॥ ७ ॥
पूर्वकेण
हि
ते
राजंस्तेनातियशसा
तदा ।
धर्मिणां
प्रवरेणापि
नैष
प्राप्तो
मनोरथः ॥ ८ ॥
तथैवांशुमता
तात
लोकेऽप्रतिमतेजसा ।
गङ्गां
प्रार्थयता
नेतुं
प्रतिज्ञा
नापवर्जिता ॥ ९ ॥
राजर्षिणा
गुणवता
महर्षिसमतेजसा ।
मत्तुल्यतपसा
चैव
क्षत्रधर्मस्थितेन
च ॥ १० ॥
दिलीपेन
महाभाग
तव
पित्रातितेजसा ।
पुनर्न
शङ्किता
नेतुं
गङ्गां
प्रार्थयतानघ ॥ ११ ॥
सा
त्वया
समतिक्रान्ता
प्रतिज्ञा
पुरुषर्षभ ।
प्राप्तोऽसि
परमं
लोके
यशः
परमसम्मतम् ॥ १२ ॥
यच्च
गङ्गावतरणं
त्वया
कृतमरिन्दम ।
अनेन
च
भवान्
प्राप्तो
धर्मस्यायतनं
महत् ॥ १३ ॥
प्लावयस्व
त्वमात्मानं
नरोत्तम
सदोचिते ।
सलिले
पुरुषव्याघ्र
शुचिः
पुण्यफलो
भव ॥ १४ ॥
पितामहानां
सर्वेषां
कुरुष्व
सलिलक्रियाम् ।
स्वस्ति
तेऽस्तु
गमिष्यामि
स्वं
लोकं
गम्यतां
नृप ॥ १५ ॥
इत्येवमुक्त्वा
देवेशः
सर्वलोकपितामहः ।
यथागतं
तथागच्छद्देवलोकं
महायशाः ॥ १६ ॥
भगीरथोऽपि
राजर्षिः
कृत्वा
सलिलमुत्तमम् ।
यथाक्रमं
यथान्यायं
सागराणां
महायशाः ॥ १७ ॥
कृतोदकः
शुची
राजा
स्वपुरं
प्रविवेश
ह ।
समृद्धार्थो
नरश्रेष्ठ
स्वराज्यं
प्रशशास
ह ॥ १८ ॥
प्रमुमोद
च
लोकस्तं
नृपमासाद्य
राघव ।
नष्टशोकः
समृद्धार्थो
बभूव
विगतज्वरः ॥ १९ ॥
एष
ते
राम
गङ्गाया
विस्तरोऽभिहितो
मया ।
स्वस्ति
प्राप्नुहि
भद्रं
ते
सन्ध्याकालोऽतिवर्तते ॥ २० ॥
यः
श्रावयति
विप्रेषु
क्षत्रियेष्िवतरेषु
च ।
प्रीयन्ते
पितरस्तस्य
प्रीयन्ते
दैवतानि
च ॥ २१ ॥
यः
शृणोति
च
काकुत्स्थ
सर्वान्
कामानवाप्नुयात् ।
सर्वे
पापाः
प्रणश्यन्ति
आयुः
कीर्तिश्च
वर्द्धते ॥ २२ ॥