विश्वामित्रवचः
श्रुत्वा
राघवः
सहलक्ष्मणः ।
विस्मयं
परमं
गत्वा
विश्वामित्रमथाब्रवीत् ॥ १ ॥
अत्यद्भुतमिदं
ब्रह्मन्
कथितं
परमं
त्वया ।
गङ्गावतरणं
पुण्यं
सागरस्यापि
पूरणम् ॥ २ ॥
क्षणभूतेव
नौ
रात्रिः
संवृत्तेयं
महातपः ।
इमां
चिन्तयतस्सर्वां
निखिलेन
कथां
तव ॥ ३ ॥
तस्य
सा
शर्वरी
सर्वा
सह
सौमित्रिणा
तदा ।
जगाम
चिन्तयानस्य
विश्वामित्रकथां
शुभाम् ॥ ४ ॥
ततः
प्रभाते
विमले
विश्वामित्रं
महामुनिम् ।
उवाच
राघवो
वाक्यं
कृताहिनकमरिन्दमः ॥ ५ ॥
गता
भगवती
रात्रिः
श्रोतव्यं
परमं
श्रुतम् ।
तरामस्
तरितां
श्रेष्ठां
पुण्यां
त्रिपथगां
नदीम् ॥ ६ ॥
नौरेषा
हि
सुखास्तीर्णा
ऋषीणां
पुण्यकर्मणाम् ।
भगवन्तमिह
प्राप्तं
ज्ञात्वा
त्वरितमागता ॥ ७ ॥
तस्य
तद्वचनं
श्रुत्वा
राघवस्य
महात्मनः ।
सन्तारं
कारयामास
सर्षिसङ्घः
सराघवः ॥ ८ ॥
उत्तरं
तीरमासाद्य
सम्पूज्यर्षिगणं
तदा ।
गङ्गाकूले
निविष्टास्ते
विशालां
ददृशुः
पुरीम् ॥ ९ ॥
ततो
मुनिवरस्तूर्णं
जगाम
सहराघवः ।
विशालां
नगरीं
रम्यां
दिव्यां
स्वर्गोपमां
तदा ॥ १० ॥
अथ
रामो
महाप्राज्ञो
विश्वामित्रं
महामुनिम् ।
पप्रच्छ
प्राञ्जलिर्भूत्वा
विशालामुत्तमां
पुरीम् ॥ ११ ॥
कतमो
राजवंशोऽयं
विशालायां
महामुने ।
श्रोतुमिच्छामि
भद्रं
ते
परं
कौतूहलं
हि
मे ॥ १२ ॥
तस्य
तद्वचनं
श्रुत्वा
रामस्य
मुनिपुङ्गवः ।
आख्यातुं
तत्समारेभे
विशालस्य
पुरातनम् ॥ १३ ॥
श्रूयतां
राम
शक्रस्य
कथां
कथयतः
शुभाम् ।
अस्मिन्
देशे
तु
यद्वृत्तं
तदपि
शृणु
राघव ॥ १४ ॥
पूर्वं
कृतयुगे
राम
दितेः
पुत्रा
महाबलाः ।
अदितेश्च
महाभाग
वीर्यवन्तः
सुधार्मिकाः ॥ १५ ॥
ततस्तेषां
नरश्रेष्ठ
बुद्धिरासीन्महात्मनाम् ।
अमरा
अजराश्चैव
कथं
स्याम
निरामयाः ॥ १६ ॥
तेषां
चिन्तयतां
राम
बुद्धिरासीन्महात्मनाम् ।
क्षीरोदमथनं
कृत्वा
रसं
प्राप्स्याम
तत्र
वै ॥ १७ ॥
ततो
निश्चित्य
मथनं
योक्त्रं
कृत्वा
च
वासुकिम् ।
मन्थानं
मन्दरं
कृत्वा
ममन्थुरमितौजसः ॥ १८ ॥
वमन्तो
ऽति
विषन्
तत्र
ददंशुर्
दशनैः
शिलाः ।
उत्पपाताग्निसङ्काशं
हालाहलमहाविषम् ॥ १९ ॥
ततो
दग्धं
जगत्सर्वं
सदेवासुरमानुषम् ।
अथ
देवा
महादेवम्
शङ्करम्
शरणार्थिनः ॥ २० ॥
जग्मुः
पशुपतिम्
रुद्रम्
त्राहि
त्राहीति
तुष्टुवुः ।
एवम्
उक्तस्
ततो
देवैर्
देवेश्वरः
प्रभुः ॥ २१ ॥
प्रादुर्
आसीत्
ततो
ऽत्रैव
शङ्खचक्रधरो
हरिः ।
उवाचैनं
स्मितङ्
कृत्वा
रुद्रम्
शूलधरम्
हरिः ॥ २२ ॥
दैवतैर्
मथ्यमानस्
तु
तत्
पूर्वं
समुपस्थितम् ।
तत्
त्वदीयं
सुरश्रेष्ठः
सुराणाम्
अग्रतो
हि
यत् ॥ २३ ॥
अग्र
पूजामिह
स्थित्वा
गृहाणेदम्
विषम्
प्रभो ।
इत्य्
उक्त्वा
च
सुरश्रेष्ठस्
तत्रैवान्तरधीयत ॥ २४ ॥
देवतानाम्
भयन्
दृष्ट्वा
श्रुत्वा
वाक्यम्
तु
शारङ्गिणः ।
हालाहलम्
विषङ्
घोरं
सञ्जग्राहामृतोपमम् ॥ २५ ॥
देवान्
विसृज्य
देवेशो
जगाम
भगवान्
हरः ।
ततो
देवासुराः
सर्वे
ममन्थू
रघुनन्दन ॥ २६ ॥
प्रविवेशाथ
पातालम्
मन्थानः
पर्वतोत्तमः ।
ततो
देवाः
स
गन्धर्वाः
तुष्टुवुः
मधुसूदनम् ॥ २७ ॥
त्वङ्
गतिः
सर्व
भूतानाम्
विशेषेण
दिवौकसाम् ।
पालयास्मान्
महाबाहो
गिरिम्
उद्धर्तुम्
अर्हसि ॥ २८ ॥
इति
श्रुत्वा
हृषीकेशः
कामठम्
रूपम्
आस्थितः ।
पर्वतम्
पृष्ठतः
कृत्वा
शिश्ये
तत्रोदधौ
हरिः ॥ २९ ॥
पर्वताग्रन्
तु
लोकात्मा
हस्तेन
आक्रम्य
केशवः ।
देवानाम्
मध्यतः
स्थित्वा
ममन्थ
पुरुषोत्तमः ॥ ३० ॥
अथ
वर्षसहस्रेण
आयुर्वेदमयः
पुमान् ।
उदतिष्ठत्
सुधर्मात्मा
सदण्डः
सकमण्डलुः ॥ ३१ ॥
पूर्वं
धन्वन्तरिर्नाम
अप्सराश्च
सुवर्चसः ।
अप्सु
निर्मथनादेव
रसस्तस्माद्वरस्त्रियः ॥ ३२ ॥
उत्पेतुर्मनुजश्रेष्ठ
तस्मादप्सरसोऽभवन् ।
षष्टिः
कोट्योऽभवंस्तासामप्सराणां
सुवर्चसाम् ॥ ३३ ॥
असङ्ख्येयास्तु
काकुत्स्थ
यास्तासां
परिचारिकाः ।
न
ताः
स्म
प्रतिगृह्णन्ति
सर्वे
ते
देवदानवाः ॥ ३४ ॥
अप्रतिग्रहणादेव
तेन
साधारणाः
स्मृताः ।
वरुणस्य
ततः
कन्या
वारुणी
रघुनन्दन ॥ ३५ ॥
उत्पपात
महाभागा
मार्गमाणा
परिग्रहम् ।
दितेः
पुत्रा
न
तां
राम
जगृहुर्वरुणात्मजाम् ॥ ३६ ॥
अदितेस्तु
सुता
वीर
जगृहुस्तामनिन्दिताम् ।
असुरास्तेन
दैतेयाः
सुरास्तेनादितेः
सुताः ॥ ३७ ॥
हृष्टाः
प्रमुदिताश्चासन्
वारुणीग्रहणात्सुराः ।
उच्चैश्श्रवा
हयश्रेष्ठो
मणिरत्नं
च
कौस्तुभम् ॥ ३८ ॥
उदतिष्ठन्नरश्रेष्ठ
तथैवामृतमुत्तमम् ।
अथ
तस्य
कृते
राम
महानासीत्कुलक्षयः ॥ ३९ ॥
अदितेस्तु
ततः
पुत्रा
दितेः
पुत्रानसूदयन् ।
एकतोऽभ्यागमन्
सर्वे
ह्यसुरा
राक्षसैस्सह ॥ ४० ॥
युद्धमासीन्महाघोरं
वीर
त्रैलोक्यमोहनम् ।
यदा
क्षयं
गतं
सर्वं
तदा
विष्णुर्महाबलः ॥ ४१ ॥
अमृतं
सोऽहरत्तूर्णं
मायामास्थाय
मोहिनीम् ।
ये
गताभिमुखं
विष्णुमक्षयं
पुरुषोत्तमम् ॥ ४२ ॥
सम्पिष्टास्ते
तदा
युद्धे
विष्णुना
प्रभविष्णुना ।
अदितेरात्मजा
वीरा
दितेः
पुत्रान्निजघिनरे ॥ ४३ ॥
तस्मिन्
युद्धे
महाघोरे
दैतेयादित्ययोर्भृशम् ।
निहत्य
दितिपुत्रांश्च
राज्यं
प्राप्य
पुरन्दरः ॥ ४४ ॥
शशास
मुदितो
लोकान्
सर्षिसङ्घान्
सचारणान् ॥ ४५ ॥