हतेषु
तेषु
पुत्रेषु
दितिः
परमदुःखिता ।
मारीचं
काश्यपं
राम
भर्त्तारमिदमब्रवीत् ॥ १ ॥
हतपुत्रास्मि
भगवंस्तव
पुत्रैर्महाबलैः ।
शक्रहन्तारमिच्छामि
पुत्रं
दीर्घतपोर्जितम् ॥ २ ॥
साहं
तपश्चरिष्यामि
गर्भं
मे
दातुमर्हसि ।
ईश्वरं
शक्रहन्तारं
त्वमनुज्ञातुमर्हसि ॥ ३ ॥
तस्यास्तद्वचनं
श्रुत्वा
मारीचः
काश्यपस्तदा ।
प्रत्युवाच
महातेजा
दितिं
परमदुःखिताम् ॥ ४ ॥
एवं
भवतु
भद्रं
ते
शुचिर्भव
तपोधने ।
जनयिष्यसि
पुत्रं
त्वं
शक्रहन्तारमाहवे ॥ ५ ॥
पूर्णे
वर्षसहस्रे
तु
शुचिर्यदि
भविष्यसि ।
पुत्रं
त्रैलोक्यभर्तारं
मत्तस्त्वं
जनयिष्यसि ॥ ६ ॥
एवमुक्त्वा
महातेजाः
पाणिना
स
ममार्ज
ताम् ।
समालभ्य
ततः
स्वस्तीत्युक्त्वा
स
तपसे
ययौ ॥ ७ ॥
गते
तस्मिन्नरश्रेष्ठ
दितिः
परमहर्षिता ।
कुशप्लवनमासाद्य
तपस्तेपे
सुदारुणम् ॥ ८ ॥
तपस्तस्यां
हि
कुर्वन्त्यां
परिचर्यां
चकार
ह ।
सहस्राक्षो
नरश्रेष्ठ
परया
गुणसम्पदा ॥ ९ ॥
अग्निं
कुशान्
काष्ठमपः
फलं
मूलं
तथैव
च ।
न्यवेदयत्
सहस्राक्षो
यच्चान्यदपि
काङ्क्षितम् ॥ १० ॥
गात्रसंवहनैश्चैव
श्रमापनयनैस्तथा ।
शक्रः
सर्वेषु
कालेषु
दितिं
परिचचार
ह ॥ ११ ॥
अथ
वर्षसहस्रे
तु
दशोने
रघुनन्दन ।
दितिः
परमसम्प्रीता
सहस्राक्षमथाब्रवीत् ॥ १२ ॥
तपश्चरन्त्या
वर्षाणि
दश
वीर्यवतां
वर ।
अवशिष्टानि
भद्रं
ते
भ्रातरं
द्रक्ष्यसे
ततः ॥ १३ ॥
तमहं
त्वत्कृते
पुत्रं
समाधास्ये
जयोत्सुकम् ।
त्रैलोक्यविजयं
पुत्रं
सह
भोक्ष्यसि
विज्वरः ॥ १४ ॥
याचितेन
सुरश्रेष्ठ
पित्रा
तव
महात्मना ।
वरो
वर्षसहस्रान्ते
मम
दत्तः
सुतं
प्रति ॥ १५ ॥
एवमुक्त्वा
दितिः
शक्रं
प्राप्ते
मध्यं
दिवाकरे ।
निद्रयापहृता
देवी
पादौ
कृत्वाथ
शीर्षतः ॥ १६ ॥
दृष्ट्वा
तामशुचिं
शक्रः
पादतः
कृतमूर्द्धजाम् ।
शिरःस्थाने
कृतौ
पादौ
जहास
च
मुमोद
च ॥ १७ ॥
तस्याः
शरीरविवरं
विवेश
च
पुरन्दरः ।
गर्भं
च
सप्तधा
राम
बिभेद
परमात्मवान् ॥ १८ ॥
भिद्यमानस्ततो
गर्भो
वज्रेण
शतपर्वणा ।
रुरोद
सुस्वरं
राम
ततो
दितिरबुध्यत ॥ १९ ॥
मा
रुदो
मा
रुदश्चेति
गर्भं
शक्रोऽभ्यभाषत ।
बिभेद
च
महातेजा
रुदन्तमपि
वासवः ॥ २० ॥
न
हन्तव्यो
न
हन्तव्य
इत्येवं
दितिरब्रवीत् ।
निष्पपात
ततः
शक्रो
मातुर्वचनगौरवात् ॥ २१ ॥
प्राञ्जलिर्वज्रसहितो
दितिं
शक्रोऽभ्यभाषत ।
अशुचिर्देवि
सुप्तासि
पादयोः
कृतमूर्द्धजा ॥ २२ ॥
तदन्तरमहं
लब्ध्वा
शक्रहन्तारमाहवे ।
अभिदं
सप्तधा
देवि
तन्मे
त्वं
क्षन्तुमर्हसि ॥ २३ ॥