सप्तधा
तु
कृते
गर्भे
दितिः
परमदुःखिता ।
सहस्राक्षं
दुराधर्षं
वाक्यं
सानुनयाब्रवीत् ॥ १ ॥
ममापराधाद्
गर्भोऽयं
सप्तधा
विफलीकृतः ।
नापराधोऽस्ति
देवेश
तवात्र
बलसूदन ॥ २ ॥
प्रियं
तु
कर्तुमिच्छामि
मम
गर्भविपर्यये ।
मरुतां
सप्त
सप्तानां
स्थानपाला
भवन्त्विमे ॥ ३ ॥
वातस्कन्धा
इमे
सप्त
चरन्तु
दिवि
पुत्रक ।
मारुता
इति
विख्याता
दिव्यरूपा
ममात्मजाः ॥ ४ ॥
ब्रह्मलोकं
चरत्वेक
इन्द्रलोकं
तथापरः ।
दिवि
वायुरिति
ख्यातस्तृतीयोऽपि
महायशाः ॥ ५ ॥
सञ्चरिष्यन्तु
भद्रं
ते
देवभूता
ममात्मजाः ।
त्वत्कृतेनैव
नाम्ना
च
मारुता
इति
विश्रुताः ॥ ६ ॥
तस्यास्तद्वचनं
श्रुत्वा
सहस्राक्षः
पुरन्दरः ।
उवाच
प्राञ्जलिर्वाक्यं
दितिं
बलनिषूदनः ॥ ७ ॥
सर्वमेतद्यथोक्तं
ते
भविष्यति
न
संशयः ।
विचरिष्यन्ति
भद्रं
ते
देवरूपास्तवात्मजाः ॥ ८ ॥
एवं
तौ
निश्चयं
कृत्वा
मातापुत्रौ
तपोवने ।
जग्मतुस्त्रिदिवं
राम
कृतार्थाविति
नः
श्रुतम् ॥ ९ ॥
एष
देशस्स
काकुत्स्थ
महेन्द्राध्युषितः
पुरा ।
दितिं
यत्र
तपस्सिद्धामेवं
परिचचार
सः ॥ १० ॥
इक्ष्वाकोस्तु
नरव्याघ्र
पुत्रः
परमधार्मिकः ।
अलम्बुसायामुत्पन्नो
विशाल
इति
विश्रुतः ॥ ११ ॥
तेन
चासीदिह
स्थाने
विशालेति
पुरी
कृता ।
विशालस्य
सुतो
राम
हेमचन्द्रो
महाबलः ॥ १२ ॥
सुचन्द्र
इति
विख्यातो
हेमचन्द्रादनन्तरः ।
सुचन्द्रतनयो
राम
धूम्राश्व
इति
विश्रुतः ॥ १३ ॥
धूम्राश्वतनयश्चापि
सृञ्जयः
समपद्यत ।
सृञ्जयस्य
सुतः
श्रीमान्
सहदेवः
प्रतापवान् ॥ १४ ॥
कुशाश्वः
सहदेवस्य
पुत्रः
परमधार्मिकः ।
कुशाश्वस्य
महातेजाः
सोमदत्तः
प्रतापवान् ॥ १५ ॥
सोमदत्तस्य
पुत्रस्तु
काकुत्स्थ
इति
विश्रुतः ।
तस्य
पुत्रो
महातेजाः
सम्प्रत्येष
पुरीमिमाम् ॥ १६ ॥
आवसत्यमरप्रख्यः
सुमतिर्नाम
दुर्जयः ।
इक्ष्वाकोस्तु
प्रसादेन
सर्वे
वैशालिका
नृपाः ॥ १७ ॥
दीर्घायुषो
महात्मानो
वीर्यवन्तः
सुधार्मिकाः ।
इहाद्य
रजनीं
राम
सुखं
वत्स्यामहे
वयम् ॥ १८ ॥
श्वः
प्रभाते
नरश्रेष्ठ
जनकं
द्रष्टुमर्हसि ।
सुमतिस्तु
महातेजा
विश्वामित्रमुपागतम् ॥ १९ ॥
श्रुत्वा
नरवरश्रेष्ठः
प्रत्युद्गच्छन्महायशाः ।
पूजां
च
परमां
कृत्वा
सोपाध्यायः
सबान्धवः ॥ २० ॥
प्राञ्जलिः
कुशलं
पृष्ट्वा
विश्वामित्रमथाब्रवीत् ।
धन्योऽस्म्यनुगृहीतोऽस्मि
यस्य
मे
विषयं
मुनिः ॥ २१ ॥
सम्प्राप्तो
दर्शनं
चैव
नास्ति
धन्यतरो
मया ॥ २२ ॥