अफलस्तु
ततः
शक्रो
देवानग्निपुरोधसः ।
अब्रवीत्
त्रस्तवदनः
सर्षिसङ्घान्
सचारणान् ॥ १ ॥
कुर्वता
तपसो
विघ्नं
गौतमस्य
महात्मनः ।
क्रोधमुत्पाद्य
हि
मया
सुरकार्यमिदं
कृतम् ॥ २ ॥
अफलोऽस्मि
कृतस्तेन
क्रोधात्
सा
च
निराकृता ।
शापमोक्षेण
महता
तपोऽस्यापहृतं
मया ॥ ३ ॥
तस्मात्सुरवराः
सर्वे
सर्षिसङ्घाः
सचारणाः ।
सुरसाह्यकरं
सर्वे
सफलं
कर्तुमर्हथ ॥ ४ ॥
शतक्रतोर्वचः
श्रुत्वा
देवाः
साग्निपुरोगमाः ।
पितृदेवानुपेत्याहुः
सर्वे
सह
मरुद्गणैः ॥ ५ ॥
अयं
मेषः
सवृषणः
शक्रो
ह्यवृषणः
कृतः ।
मेषस्य
वृषणौ
गृह्य
शक्रायाशु
प्रयच्छथ ॥ ६ ॥
अफलस्तु
कृतो
मेषः
परां
तुष्टिं
प्रदास्यति ।
भवतां
हर्षणार्थे
च
ये
च
दास्यन्ति
मानवाः ॥ ७ ॥
अक्षयम्
हि
फलन्
तेषाम्
यूयम्
दास्यथ
पुष्कलम् ।
अग्नेस्तु
वचनं
श्रुत्वा
पितृदेवाः
समागताः ॥ ८ ॥
उत्पाट्य
मेषवृषणौ
सहस्राक्षे
न्यवेशयन् ।
तदाप्रभृति
काकुत्स्थ
पितृदेवाः
समागताः ॥ ९ ॥
अफलान्
भुञ्जते
मेषान्
फलैस्तेषामयोजयन् ।
इन्द्रस्तु
मेषवृषणस्तदाप्रभृति
राघव ॥ १० ॥
गौतमस्य
प्रभावेन
तपसश्च
महात्मनः ।
तदागच्छ
महातेज
आश्रमं
पुण्यकर्मणः ॥ ११ ॥
तारयैनां
महाभागामहल्यां
देवरूपिणीम् ।
विश्वामित्रवचः
श्रुत्वा
राघवः
सहलक्ष्मणः ॥ १२ ॥
विश्वामित्रं
पुरस्कृत्य
तमाश्रममथाविशत् ।
ददर्श
च
महाभागां
तपसा
द्योतितप्रभाम् ॥ १३ ॥
लोकैरपि
समागम्य
दुर्निरीक्ष्यां
सुरासुरैः ।
प्रयत्नान्
निर्मिताम्
धात्रा
दिव्याम्
मायामयीम्
इव ॥ १४ ॥
धूमेनाभिपरीताङ्गीन्
दीप्ताम्
अग्निशिखाम्
इव ।
सतुषारावृतां
साभ्रां
पूर्णचन्द्रप्रभामिव ॥ १५ ॥
मध्येऽम्भसो
दुराधर्षां
दीप्तां
सूर्यप्रभामिव ।
सा
हि
गौतम
वाक्येन
दुर्निरीक्ष्या
बभूव
ह ॥ १६ ॥
त्रयाणामपि
लोकानां
यावद्रामस्य
दर्शनम् ।
शापस्यान्तमुपागम्य
तेषां
दर्शनमागता ॥ १७ ॥
राघवौ
त्वतिथी
तस्याः
पादौ
जगृहतुस्तदा ।
स्मरन्ती
गौतमवचः
प्रतिजग्राह
सा
च
तौ ॥ १८ ॥
पाद्यमर्घ्यं
तथा
ऽऽतिथ्यं
चकार
सुसमाहिता ।
प्रतिजग्राह
काकुत्स्थो
विधिदृष्टेन
कर्मणा ॥ १९ ॥
पुष्पवृष्टिर्महत्यासीद्देवदुन्दुभिः
निःस्वनैः ।
गन्धर्वाप्सरसां
चापि
महानासीत्समागमः ॥ २० ॥
साधु
साध्विति
देवास्तामहल्यां
समपूजयन् ।
तपोबलविशुद्धाङ्गीं
गौतमस्य
वशानुगाम् ॥ २१ ॥
गौतमो
हि
महातेजा
अहल्यासहितः
सुखी ।
रामं
सम्पूज्य
विधिवत्
तपस्तेपे
महातपाः ॥ २२ ॥
रामोऽपि
परमां
पूजां
गौतमस्य
महामुनेः ।
सकाशाद्विधिवत्
प्राप्य
जगाम
मिथिलां
ततः ॥ २३ ॥