ततः
प्रागुत्तरां
गत्वा
रामः
सौमित्रिणा
सह ।
विश्वामित्रं
पुरस्कृत्य
यज्ञवाटमुपागमत् ॥ १ ॥
रामस्तु
मुनिशार्दूलमुवाच
सहलक्ष्मणः ।
साध्वी
यज्ञसमृद्धिर्हि
जनकस्य
महात्मनः ॥ २ ॥
बहूनीह
सहस्राणि
नानादेशनिवासिनाम् ।
ब्राह्मणानां
महाभाग
वेदाध्ययनशालिनाम् ॥ ३ ॥
ऋषिवाटाश्च
दृश्यन्ते
शकटीशतसङ्कुलाः ।
देशो
विधीयतां
ब्रह्मन्
यत्र
वत्स्यामहे
वयम् ॥ ४ ॥
रामस्य
वचनं
श्रुत्वा
विश्वामित्रो
महामुनिः ।
निवेशमकरोद्देशे
विविक्ते
सलिलायुते ॥ ५ ॥
शतानन्दं
पुरस्कृत्य
पुरोहितमनिन्दितम् ।
ऋत्विजोऽपि
महात्मानस्त्वर्घ्यमादाय
सत्वरम् ॥ ६ ॥
प्रयुत्ज्जगाम
सहसा
विनयेन
समन्वितः ।
विश्वामित्राय
धर्मेण
ददुर्मन्त्रपुरस्कृतम् ॥ ७ ॥
प्रतिगृह्य
तु
तां
पूजां
जनकस्य
महात्मनः ।
पप्रच्छ
कुशलं
राज्ञो
यज्ञस्य
च
निरामयम् ॥ ८ ॥
स
तांश्चापि
मुनीन्
पृष्ट्वा
सोपाध्यायपुरोधसः ।
यथान्यायं
ततः
सर्वैः
समागच्छत्
प्रहृष्टवत् ॥ ९ ॥
अथ
राजा
मुनिश्रेष्ठं
कृताञ्जलिरभाषत ।
आसने
भगवन्नास्तां
सहैभिर्मुनिसत्तमैः ॥ १० ॥
जनकस्य
वचः
श्रुत्वा
निषसाद
महामुनिः ।
पुरोधा
ऋत्विजश्चैव
राजा
च
सह
मन्त्रिभिः ॥ ११ ॥
आसनेषु
यथान्यायमुपविष्टान्
समन्ततः ।
दृष्ट्वा
स
नृपतिस्तत्र
विश्वामित्रमथाब्रवीत् ॥ १२ ॥
अद्य
यज्ञसमृद्धिर्मे
सफला
दैवतैः
कृता ।
अद्य
यज्ञफलं
प्राप्तं
भगवद्दर्शनान्मया ॥ १३ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि
यस्य
मे
मुनिपुङ्गव ।
यज्ञोपसदनं
ब्रह्मन्
प्राप्तोऽसि
मुनिभिः
सह ॥ १४ ॥
द्वादशाहं
तु
ब्रह्मर्षे
शेषमाहुर्मनीषिणः ।
ततो
भागार्थिनो
देवान्
द्रष्टुमर्हसि
कौशिक ॥ १५ ॥
इत्युक्त्वा
मुनिशार्दूलं
प्रहृष्टवदनस्तदा ।
पुनस्तं
परिपप्रच्छ
प्राञ्जलिः
प्रणतो
नृपः ॥ १६ ॥
इमौ
कुमारौ
भद्रं
ते
देवतुल्यपराक्रमौ ।
गजसिंहगती
वीरौ
शार्दूलवृषभोपमौ ॥ १७ ॥
पद्मपत्रविशालाक्षौ
खड्गतूणीधनुर्द्धरौ ।
अश्विनाविव
रूपेण
समुपस्थितयौवनौ ॥ १८ ॥
यदृच्छयैव
गां
प्राप्तौ
देवलोकादिवामरौ ।
कथं
पद्भ्यामिह
प्राप्तौ
किमर्थं
कस्य
वा
मुने ॥ १९ ॥
वरायुधधरौ
वीरौ
कस्य
पुत्रौ
महामुने ।
भूषयन्ताविमं
देशं
चन्द्रसूर्याविवाम्बरम् ॥ २० ॥
परस्परस्य
सदृशौ
प्रमाणेङ्गितचेष्टितैः ।
काकपक्षधरौ
वीरौ
श्रोतुमिच्छामि
तत्त्वतः ॥ २१ ॥
तस्य
तद्वचनं
श्रुत्वा
जनकस्य
महात्मनः ।
न्यवेदयन्महात्मानौ
पुत्रौ
दशरथस्य
तौ ॥ २२ ॥
सिद्धाश्रमनिवासं
च
राक्षसानां
वधं
तथा ।
तच्चागमनमव्यग्रं
विशालायाश्च
दर्शनम् ॥ २३ ॥
अहल्यादर्शनं
चैव
गौतमेन
समागमम् ।
महाधनुषि
जिज्ञासां
कर्तुमागमनं
तथा ॥ २४ ॥
एतत्सर्वं
महातेजा
जनकाय
महात्मने ।
निवेद्य
विररामाथ
विश्वामित्रो
महामुनिः ॥ २५ ॥