तस्य
तद्वचनं
श्रुत्वा
विश्वामित्रस्य
धीमतः ।
हृष्टरोमा
महातेजाः
शतानन्दो
महातपाः ॥ १ ॥
गौतमस्य
सुतो
ज्येष्ठस्तपसा
द्योतितप्रभः ।
रामसन्दर्शनादेव
परं
विस्मयमागतः ॥ २ ॥
स
तौ
निषण्णौ
सम्प्रेक्ष्य
सुखासीनौ
नृपात्मजौ ।
शतानन्दो
मुनिश्रेष्ठं
विश्वामित्रमथाब्रवीत् ॥ ३ ॥
अपि
ते
मुनिशार्दूल
मम
माता
यशस्विनी ।
दर्शिता
राजपुत्राय
तपोदीर्घमुपागता ॥ ४ ॥
अपि
रामे
महातेजा
मम
माता
यशस्विनी ।
वन्यैरुपाहरत्पूजां
पूजार्हे
सर्वदेहिनाम् ॥ ५ ॥
अपि
रामाय
कथितं
यथावृत्तं
पुरातनम् ।
मम
मातुर्महातेजो
दैवेन
दुरनुष्ठितम् ॥ ६ ॥
अपि
कौशिक
भद्रं
ते
गुरुणा
मम
सङ्गता ।
माता
मम
मुनिश्रेष्ठ
रामसन्दर्शनादितः ॥ ७ ॥
अपि
मे
गुरुणा
रामः
पूजितः
कुशिकात्मज ।
इहागतो
महातेजाः
पूजां
प्राप्तो
महात्मनः ॥ ८ ॥
अपि
शान्तेन
मनसा
गुरुर्मे
कुशिकात्मज ।
इहागतेन
रामेण
प्रयतेनाभिवादितः ॥ ९ ॥
तच्छ्रुत्वा
वचनं
तस्य
विश्वामित्रो
महामुनिः ।
प्रत्युवाच
शतानन्दं
वाक्यज्ञो
वाक्यकोविदम् ॥ १० ॥
नातिक्रान्तं
मुनिश्रेष्ठ
यत्कर्तव्यं
कृतं
मया ।
सङ्गता
मुनिना
पत्नी
भार्गवेणेव
रेणुका ॥ ११ ॥
तच्छ्रुत्वा
वचनं
तस्य
विश्वामित्रस्य
धीमतः ।
शतानन्दो
महातेजा
रामं
वचनमब्रवीत् ॥ १२ ॥
स्वागतं
ते
नरश्रेष्ठ
दिष्ट्या
प्राप्तोऽसि
राघव ।
विश्वामित्रं
पुरस्कृत्य
महर्षिमपराजितम् ॥ १३ ॥
अचिन्त्यकर्मा
तपसा
ब्रह्मर्षिरतुलप्रभः ।
विश्वामित्रो
महातेजा
वेत्स्येनं
परमां
गतिम् ॥ १४ ॥
नास्ति
धन्यतरो
राम
त्वत्तोऽन्यो
भुवि
कश्चन ।
गोप्ता
कुशिकपुत्रस्ते
येन
तप्तं
महत्तपः ॥ १५ ॥
श्रूयतामभिधास्यामि
कौशिकस्य
महात्मनः ।
यथा
बलं
यथा
वृत्तं
तन्मे
निगदतः
शृणु ॥ १६ ॥
राजाभूदेष
धर्मात्मा
दीर्घकालमरिन्दमः ।
धर्मज्ञः
कृतविद्यश्च
प्रजानां
च
हिते
रतः ॥ १७ ॥
प्रजापतिसुतस्त्वासीत्
कुशो
नाम
महीपतिः ।
कुशस्य
पुत्रो
बलवान्
कुशनाभः
सुधार्मिकः ॥ १८ ॥
कुशनाभसुतस्त्वासीद्गाधिरित्येव
विश्रुतः ।
गाधेः
पुत्रो
महातेजा
विश्वामित्रो
महामुनिः ॥ १९ ॥
विश्वामित्रो
महातेजाः
पालयामास
मेदिनीम् ।
बहुवर्षसहस्राणि
राजा
राज्यमकारयत् ॥ २० ॥
कदाचित्तु
महातेजा
योजयित्वा
वरूथिनीम् ।
अक्षौहिणीपरिवृतः
परिचक्राम
मेदिनीम् ॥ २१ ॥
नगराणि
च
राष्ट्राणि
सरितश्च
तथा
गिरीन् ।
आश्रमान्
क्रमशो
राम
विचरन्नाजगाम
ह ॥ २२ ॥
वसिष्ठस्याश्रमपदं
नानावृक्षसुमाकुलम् ।
नानामृगगणाकीर्णं
सिद्धचारणसेवितम् ॥ २३ ॥
देवदानवगन्धर्वैः
किन्नरैरुपशोभितम् ।
प्रशान्तहरिणाकीर्णं
द्विजसङ्घनिषेवितम् ॥ २४ ॥
ब्रह्मर्षिगणसङ्कीर्णं
देवर्षिगणसेवितम् ।
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥ २५ ॥
सततं
सङ्कुलं
श्रीमद्ब्रह्मकल्पैर्
महात्मभिः ।
अब्भक्षैर्वायुभक्षैश्च
शीर्णपर्णाशनैस्तथा ॥ २६ ॥
फलमूलाशनैर्दान्तैर्जितरोषैर्जितेन्द्रियैः ।
ऋषिभिर्वालखिल्यैश्च
जपहोमपरायणैः ॥ २७ ॥
अन्यैर्वैखानसैश्चैव
समन्तादुपशोभितम् ।
वसिष्ठस्याश्रमपदं
ब्रह्मलोकमिवापरम् ॥ २८ ॥
ददर्श
जयतां
श्रेष्ठो
विश्वामित्रो
महाबलः ॥ २९ ॥