स
दृष्ट्वा
परमप्रीतो
विश्वामित्रो
महाबलः ।
प्रणतो
विनयाद्वीरो
वसिष्ठं
जपतां
वरम् ॥ १ ॥
स्वागतं
तव
चेत्युक्तो
वसिष्ठेन
महात्मना ।
आसनं
चास्य
भगवान्
वसिष्ठो
व्यादिदेश
ह ॥ २ ॥
उपविष्टाय
च
तदा
विश्वामित्राय
धीमते ।
यथान्यायं
मुनिवरः
फलमूलमुपाहरत् ॥ ३ ॥
प्रतिगृह्य
च
तां
पूजां
वसिष्ठाद्राजसत्तमः ।
तपोग्निहोत्रशिष्येषु
कुशलं
पर्य्यपृच्छत ॥ ४ ॥
विश्वामित्रो
महातेजा
वनस्पतिगणे
तथा ।
सर्वत्र
कुशलं
चाह
वसिष्ठो
राजसत्तमम् ॥ ५ ॥
सुखोपविष्टं
राजानं
विश्वामित्रं
महातपाः ।
पप्रच्छ
जपतां
श्रेष्ठो
वसिष्ठो
ब्रह्मणः
सुतः ॥ ६ ॥
कच्चित्ते
कुशलं
राजन्
कच्चिद्धर्मेण
रञ्जयन् ।
प्रजाः
पालयसे
वीर
राजवृत्तेन
धार्मिक ॥ ७ ॥
कच्चित्ते
सम्भृता
भृत्याः
कच्चित्तिष्ठन्ति
शासने ।
कच्चित्ते
विजिताः
सर्वे
रिपवो
रिपुसूदन ॥ ८ ॥
कच्चिद्बलेषु
कोशेषु
मित्रेषु
च
परन्तप ।
कुशलं
ते
नरव्याघ्र
पुत्रपौत्रे
तवानघ ॥ ९ ॥
सर्वत्र
कुशलं
राजा
वसिष्ठं
प्रत्युदाहरत् ।
विश्वामित्रो
महातेजा
वसिष्ठं
विनयान्वितः ॥ १० ॥
कृत्वोभौ
सुचिरं
कालं
धर्मिष्ठौ
ताः
कथाश्शुभाः ।
मुदा
परमया
युक्तौ
प्रीयेतां
तौ
परस्परम् ॥ ११ ॥
ततो
वसिष्ठो
भगवान्
कथान्ते
रघुनन्दन ।
विश्वामित्रमिदं
वाक्यमुवाच
प्रहसन्निव ॥ १२ ॥
आतिथ्यं
कर्तुमिच्छामि
बलस्यास्य
महाबल ।
तव
चैवाप्रमेयस्य
यथार्हं
सम्प्रतीच्छ
मे ॥ १३ ॥
सत्क्रियां
हि
भवानेतां
प्रतीच्छतु
मयोद्यताम् ।
राजा
त्वमतिथिश्रेष्ठः
पूजनीयः
प्रयत्नतः ॥ १४ ॥
एवमुक्तो
वसिष्ठेन
विश्वामित्रो
महामतिः ।
कृतमित्यब्रवीद्राजा
प्रियवाक्येन
मे
त्वया ॥ १५ ॥
फलमूलेन
भगवन्
विद्यते
यत्तवाश्रमे ।
पाद्येनाचमनीयेन
भगवद्दर्शनेन
च ॥ १६ ॥
सर्वथा
च
महाप्राज्ञ
पूजार्हेण
सुपूजितः ।
गमिष्यामि
नमस्तेऽस्तु
मैत्रेणेक्षस्व
चक्षुषा ॥ १७ ॥
एवं
ब्रुवन्तं
राजानं
वसिष्ठः
पुनरेव
हि ।
न्यमन्त्रयत
धर्मात्मा
पुनः
पुनरुदारधीः ॥ १८ ॥
बाढमित्येव
गाधेयो
वसिष्ठं
प्रत्युवाच
ह ।
यथाप्रियं
भगवतस्तथास्तु
मुनिसत्तम ॥ १९ ॥
एवमुक्तो
महातेजा
वसिष्ठो
जपतां
वरः ।
आजुहाव
ततः
प्रीतः
कल्माषीं
धूतकल्मषः ॥ २० ॥
सबलस्यास्य
राजर्षेः
कर्तुं
व्यवसितोऽस्म्यहम् ।
भोजनेन
महार्हेण
सत्कारं
संविधत्स्व
मे ॥ २१ ॥
यस्य
यस्य
यथाकामं
षड्रसेष्वभिपूजितम् ।
तत्सर्वं
कामधुक्
क्षिप्रमभिवर्ष
कृते
मम ॥ २२ ॥
रसेनान्नेन
पानेन
लेह्यचोष्येण
संयुतम् ।
अन्नानां
निचयं
सर्वं
सृजस्व
शबले
त्वर ॥ २३ ॥