ततः
सन्तप्तहृदयः
स्मरन्
निग्रहमात्मनः ।
विनिःश्वस्य
विनिःश्वस्य
कृतवैरो
महात्मना ॥ १ ॥
स
दक्षिणां
दिशं
गत्वा
महिष्या
सह
राघव ।
तताप
परमं
घोरं
विश्वामित्रो
महत्तपः ॥ २ ॥
फलमूलाशनो
दान्तैश्
चचार
महत्तपः ।
अथास्य
जज्ञिरे
पुत्राः
सत्यधर्मपरायणाः ॥ ३ ॥
हविष्यन्दो
मधुष्यन्दो
दृढनेत्रो
महारथः ।
पूर्णे
वर्षसहस्रे
तु
ब्रह्मा
लोकपितामहः ॥ ४ ॥
अब्रवीन्मधुरं
वाक्यं
विश्वामित्रं
तपोधनम् ।
जिता
राजर्षिलोकास्ते
तपसा
कुशिकात्मज ॥ ५ ॥
अनेन
तपसा
त्वां
तु
राजर्षिरिति
विद्महे ।
एवमुक्त्वा
महातेजा
जगाम
सह
दैवतैः ॥ ६ ॥
त्रिविष्टपं
ब्रह्मलोकं
लोकानां
परमेश्वरः ।
विश्वामित्रोपि
तच्छ्रुत्वा
ह्रिया
किञ्चिदवाङ्मुखः ॥ ७ ॥
दुःखेन
महताविष्टः
समन्युरिदमब्रवीत् ।
तपश्च
सुमहत्तप्तं
राजर्षिरिति
मां
विदुः ॥ ८ ॥
देवाः
सर्षिगणाः
सर्वे
नास्ति
मन्ये
तपःफलम् ।
एवं
निश्चित्य
मनसा
भूय
एव
महातपाः ॥ ९ ॥
तपश्चकार
काकुत्स्थ
परमं
परमात्मवान् ।
एतस्मिन्नेव
काले
तु
सत्यवादी
जितेन्द्रियः ॥ १० ॥
त्रिशङ्कुरिति
विख्यात
इक्ष्वाकुकुलवर्द्धनः ।
तस्य
बुद्धिः
समुत्पन्ना
यजेयमिति
राघव ॥ ११ ॥
गच्छेयं
सशरीरेण
देवानां
परमां
गतिम् ।
स
वसिष्ठं
समाहूय
कथयामास
चिन्तितम् ॥ १२ ॥
अशक्यमिति
चाप्युक्तो
वसिष्ठेन
महात्मना ।
प्रत्याख्यातो
वसिष्ठेन
स
ययौ
दक्षिणां
दिशम् ॥ १३ ॥
ततस्तत्कर्मसिद्ध्यर्थं
पुत्रांस्तस्य
गतो
नृपः ।
वासिष्ठा
दीर्घतपसस्
तपो
यत्र
हि
तेपिरे ॥ १४ ॥
त्रिशङ्कुः
सुमहातेजाः
शतं
परमभास्वरम् ।
वसिष्ठपुत्रान्
ददृशे
तप्यमानान्
यशस्विनः ॥ १५ ॥
सोऽभिगम्य
महात्मानः
सर्वान्
एव
गुरोः
सुतान् ।
अभिवाद्यानुपूर्व्येण
ह्रिया
किञ्चिदवाङ्मुखः ॥ १६ ॥
अब्रवीत्सुमहात्मानः
सर्वानेव
कृताञ्जलिः ।
शरणं
वः
प्रपद्येऽहं
शरण्यान्
शरणागतः ॥ १७ ॥
प्रत्याख्यातोऽस्मि
भद्रं
वो
वसिष्ठेन
महात्मना ।
यष्टुकामो
महायज्ञं
तदनुज्ञातुमर्हथ ॥ १८ ॥
गुरुपुत्रानहं
सर्वान्नमस्कृत्य
प्रसादये ।
शिरसा
प्रणतो
याचे
ब्राह्मणान्
तपसि
स्थितान् ॥ १९ ॥
ते
मां
भवन्तः
सिद्ध्यर्थं
याजयन्तु
समाहिताः ।
सशरीरो
यथाहं
हि
देवलोकमवाप्नुयाम् ॥ २० ॥
प्रत्याख्यातो
वसिष्ठेन
गतिमन्यां
तपोधनाः ।
गुरुपुत्रानृते
सर्वान्नाहं
पश्यामि
काञ्चन ॥ २१ ॥
इक्ष्वाकूणां
हि
सर्वेषां
पुरोधाः
परमा
गतिः ।
तस्मादनन्तरं
सर्वे
भवन्तो
दैवतं
मम ॥ २२ ॥