ततस्त्रिशङ्कोर्वचनं
श्रुत्वा
क्रोधसमन्वितम् ।
ऋषिपुत्रशतं
राम
राजानमिदमब्रवीत् ॥ १ ॥
प्रत्याख्यातो
हि
दुर्बुद्धे
गुरुणा
सत्यवादिना ।
तं
कथं
समतिक्रम्य
शाखान्तरमुपेयिवान् ॥ २ ॥
इक्ष्वाकूणां
हि
सर्वेषां
पुरोधाः
परमो
गुरुः ।
न
चातिक्रमितुं
शक्यं
वचनं
सत्यवादिनः ॥ ३ ॥
अशक्यमिति
चोवाच
वसिष्ठो
भगवानृषिः ।
तं
वयं
वै
समाहर्तुं
क्रतुं
शक्ताः
कथं
तव ॥ ४ ॥
बालिशस्त्वं
नरश्रेष्ठ
गम्यतां
स्वपुरं
पुनः ।
याजने
भगवान्
शक्तस्त्रैलोक्यस्यापि
पार्थिव ॥ ५ ॥
अवमानं
च
तत्कर्तुं
तस्य
शक्ष्यामहे
कथम् ।
तेषां
तद्वचनं
श्रुत्वा
क्रोधपर्याकुलाक्षरम् ॥ ६ ॥
स
राजा
पुनरेवैतानिदं
वचनमब्रवीत् ।
प्रत्याख्यातोऽस्मि
गुरुणा
गुरुपुत्रैस्तथैव
च ॥ ७ ॥
अन्यां
गतिं
गमिष्यामि
स्वस्ति
वोऽस्तु
तपोधनाः ।
ऋषिपुत्रास्तु
तच्छ्रुत्वा
वाक्यं
घोराभिसंहितम् ॥ ८ ॥
शेपुः
परमसङ्क्रुद्धाश्चण्डालत्वं
गमिष्यसि ।
एवमुक्त्वा
महात्मानो
विविशुस्ते
स्वमाश्रमम् ॥ ९ ॥
अथ
रात्र्यां
व्यतीतायां
राजा
चण्डालताङ्
गतः ।
नीलवस्त्रधरो
नीलः
परुषो
ध्वस्तमूर्द्धजः ॥ १० ॥
चित्यमाल्यानुलेपश्च
आयसाभरणोऽभवत् ।
तं
दृष्ट्वा
मन्त्रिणः
सर्वे
त्यज्य
चण्डालरूपिणम् ॥ ११ ॥
प्राद्रवन्
सहिता
राम
पौरा
येऽस्यानुगामिनः ।
एको
हि
राजा
काकुत्स्थ
जगाम
परमात्मवान् ॥ १२ ॥
दह्यमानो
दिवारात्रं
विश्वामित्रं
तपोधनम् ।
विश्वामित्रस्तु
तं
दृष्ट्वा
राजानं
विफलीकृतम् ॥ १३ ॥
चण्डालरूपिणं
राम
मुनिः
कारुण्यमागतः ।
कारुण्यात्
स
महातेजा
वाक्यं
परमधार्मिकः ॥ १४ ॥
इदं
जगाद
भद्रं
ते
राजानं
घोररूपिणम् ।
किमागमनकार्यं
ते
राजपुत्र
महाबल ॥ १५ ॥
अयोध्याधिपते
वीर
शापाच्चण्डालतां
गतः ।
अथ
तद्वाक्यमाज्ञाय
राजा
चण्डालतां
गतः ॥ १६ ॥
अब्रवीत्प्राञ्जलिर्वाक्यं
वाक्यज्ञो
वाक्यकोविदम् ।
प्रत्याख्यातोऽस्मि
गुरुणा
गुरुपुत्रैस्तथैव
च ॥ १७ ॥
अनवाप्यैव
तं
कामं
मया
प्राप्तो
विपर्ययः ।
सशरीरो
दिवं
यायामिति
मे
सौम्य
दर्शनम् ॥ १८ ॥
मया
चेष्टं
क्रतुशतं
तच्च
नावाप्यते
फलम् ।
अनृतं
नोक्तपूर्वं
मे
न
च
वक्ष्ये
कदाचन ॥ १९ ॥
कृच्छ्रेष्वपि
गतः
सौम्य
क्षत्रधर्मेण
ते
शपे ।
यज्ञैर्बहुविधैरिष्टं
प्रजा
धर्मेण
पालिताः ॥ २० ॥
गुरवश्च
महात्मानः
शीलवृत्तेन
तोषिताः ।
धर्मे
प्रयतमानस्य
यज्ञं
चाहर्तुमिच्छतः ॥ २१ ॥
परितोषं
न
गच्छन्ति
गुरवो
मुनिपुङ्गव ।
दैवमेव
परं
मन्ये
पौरुषं
तु
निरर्थकम् ॥ २२ ॥
दैवेनाक्रम्यते
सर्वं
दैवं
हि
परमा
गतिः ।
तस्य
मे
परमार्तस्य
प्रसादमभिकाङ्क्षतः ॥ २३ ॥
कर्तुमर्हसि
भद्रं
ते
दैवोपहतकर्मणः ।
नान्यां
गतिं
गमिष्यामि
नान्यः
शरणमस्ति
मे ॥ २४ ॥
दैवं
पुरुषकारेण
निवर्तयितुमर्हसि ॥ २५ ॥