विश्वामित्रो
महात्माथ
प्रस्थितान्
प्रेक्ष्य
तानृषीन् ।
अब्रवीन्नरशार्दूलस्सर्वांस्तान्
वनवासिनः ॥ १ ॥
महान्
विघ्नः
प्रवृत्तोऽयं
दक्षिणामास्थितो
दिशम् ।
दिशमन्यां
प्रपत्स्यामस्तत्र
तप्स्यामहे
तपः ॥ २ ॥
पश्चिमायां
विशालायां
पुष्करेषु
महात्मनः ।
सुखं
तपश्चरिष्यामो
वरं
तद्धि
तपोवनम् ॥ ३ ॥
एवमुक्त्वा
महातेजाः
पुष्करेषु
महामुनिः ।
तप
उग्रं
दुराधर्षं
तेपे
मूलफलाशनः ॥ ४ ॥
एतस्मिन्नेव
काले
तु
अयोध्याधिपतिर्नृपः ।
अम्बरीष
इति
ख्यातो
यष्टुं
समुपचक्रमे ॥ ५ ॥
तस्य
वै
यजमानस्य
पशुमिन्द्रो
जहार
ह ।
प्रणष्टे
तु
पशौ
विप्रो
राजानमिदमब्रवीत् ॥ ६ ॥
पशुरद्य
हृतो
राजन्
प्रणष्टस्तव
दुर्नयात् ।
अरक्षितारं
राजानं
घ्नन्ति
दोषा
नरेश्वर ॥ ७ ॥
प्रायश्चित्तं
महद्ध्येतन्नरं
वा
पुरुषर्षभ ।
आनयस्व
पशुं
शीघ्रं
यावत्
कर्म
प्रवर्तते ॥ ८ ॥
उपाध्यायवचः
श्रुत्वा
स
राजा
पुरुषर्षभ ।
अन्वियेष
महाबुद्धिः
पशुं
गोभिः
सहस्रशः ॥ ९ ॥
देशान्
जनपदांस्तांस्तान्
नगराणि
वनानि
च ।
आश्रमाणि
च
पुण्यानि
मार्गमाणो
महीपतिः ॥ १० ॥
स
पुत्रसहितं
तात
सभार्यं
रघुनन्दन ।
भृगुतुन्दे
समासीनमृचीकं
सन्ददर्श
ह ॥ ११ ॥
तम्
उवाच
महातेजाः
प्रणंय
अभिप्रसाद्य
च ।
ब्रह्मर्षिं
तपसा
दीप्तं
राजर्षिरमितप्रभः ॥ १२ ॥
पृष्ट्वा
सर्वत्र
कुशलमृचीकं
तमिदं
वचः ।
गवां
शतसहस्रेण
विक्रीणीषे
सुतं
यदि ॥ १३ ॥
पशोरर्थे
महाभाग
कृतकृत्योऽस्मि
भार्गव ।
सर्वे
परिसृता
देशा
याज्ञीयं
न
लभे
पशुम् ॥ १४ ॥
दातुमर्हसि
मूल्येन
सुतमेकमितो
मम ।
एवमुक्तो
महातेजा
ऋचीकस्त्वब्रवीद्वचः ॥ १५ ॥
नाहं
ज्येष्ठं
नरश्रेष्ठ
विक्रीणीयां
कथञ्चन ।
ऋचीकस्य
वचः
श्रुत्वा
तेषां
माता
महात्मनाम् ॥ १६ ॥
उवाच
नरशार्दूलमम्बरीषं
तपस्विनी ।
अविक्रेयं
सुतं
ज्येष्ठम्
भगवान्
आह
भार्गवः ॥ १७ ॥
ममापि
दयितं
विद्धि
कनिष्ठं
शुनकं
नृप ।
तस्मात्कनीयसं
पुत्रं
न
दास्ये
तव
पार्थिव ॥ १८ ॥
प्रायेण
हि
नरश्रेष्ठ
ज्येष्ठाः
पितृषु
वल्लभाः ।
मातॄणां
च
कनीयांसस्तस्माद्रक्षे
कनीयसम् ॥ १९ ॥
उक्तवाक्ये
मुनौ
तस्मिन्
मुनिपत्न्यां
तथैव
च ।
शुनःशेषः
स्वयं
राम
मध्यमो
वाक्यमब्रवीत् ॥ २० ॥
पिता
ज्येष्ठमविक्रेयं
माता
चाह
कनीयसम् ।
विक्रीतं
मध्यमं
मन्ये
राजन्
पुत्रं
नयस्व
माम् ॥ २१ ॥
गवां
शतसहस्रेण
शुनःशेपं
नरेश्वरः ।
हिरण्यस्य
सुवर्णस्य
कोटिभी
रत्नराशिभिः ॥ २२ ॥
गृहीत्वा
परमप्रीतो
जगाम
रघुनन्दन ।
अम्बरीषस्तु
राजर्षी
रथमारोप्य
सत्वरः ॥ २३ ॥
शुनःशेपं
महातेजा
जगामाशुमहायशाः ॥ २४ ॥