शुनःशेपं
नरश्रेष्ठगृहीत्वा
तु
महायशाः ।
व्यश्राम्यत्
पुष्करे
राजा
मध्याह्ने
रघुनन्दन ॥ १ ॥
तस्य
विश्रममाणस्य
शुनःशेपो
महायशाः ।
पुष्करक्षेत्रमागम्य
विश्वामित्रं
ददर्श
ह ॥ २ ॥
तप्यन्तमृषिभिः
सार्द्धं
मातुलं
परमातुरः ।
विवर्णवदनो
दीनस्तृष्णया
च
श्रमेण
च ॥ ३ ॥
पपाताङ्के
मुनेराशु
वाक्यं
चेदमुवाच
ह ।
न
मेऽस्ति
माता
न
पिता
ज्ञातयो
बान्धवाः
कुतः ॥ ४ ॥
त्रातुमर्हसि
मां
सौम्य
धर्मेण
मुनिपुङ्गव ।
त्राता
त्वं
हि
मुनिश्रेष्ठ
सर्वेषां
त्वं
हि
भावनः ॥ ५ ॥
राजा
च
कृतकार्यः
स्यादहं
दीर्घायुरव्ययः ।
स्वर्गलोकमुपाश्नीयां
तपस्तप्त्वा
ह्यनुत्तमम् ॥ ६ ॥
त्वं
मे
नाथो
ह्यनाथस्य
भव
भव्येन
चेतसा ।
पितेव
पुत्रं
धर्मात्मंस्त्रातुमर्हसि
किल्बिषात् ॥ ७ ॥
तस्य
तद्वचनं
श्रुत्वा
विश्वामित्रो
महातपाः ।
सान्त्वयित्वा
बहुविधं
पुत्रानिदमुवाच
ह ॥ ८ ॥
यत्कृते
पितरः
पुत्रान्
जनयन्ति
शुभार्थिनः ।
परलोकहितार्थाय
तस्य
कालोऽयमागतः ॥ ९ ॥
अयं
मुनिसुतो
बालो
मत्तश्शरणमिच्छति ।
अस्य
जीवितमात्रेण
प्रियं
कुरुत
पुत्रकाः ॥ १० ॥
सर्वे
सुकृतकर्माणः
सर्वे
धर्मपरायणाः ।
पशुभूता
नरेन्द्रस्य
तृप्तिमग्नेः
प्रयच्छत ॥ ११ ॥
नाथवांश्च
शुनःशेपो
यज्ञश्चाविघ्नितो
भवेत् ।
देवतास्तर्पिताश्च
स्युर्ममचापि
कृतं
वचः ॥ १२ ॥
मुनेस्तु
वचनं
श्रुत्वा
मधुष्यन्दादयः
सुताः ।
साभिमानं
नरश्रेष्ठ
सलीलमिदमब्रुवन् ॥ १३ ॥
कथमात्मसुतान्
हित्वा
त्रायसेऽन्यसुतं
विभो ।
अकार्यमिव
पश्यामः
श्वमांसमिव
भोजने ॥ १४ ॥
तेषां
तद्वचनं
श्रुत्वा
पुत्राणां
मुनिपुङ्गवः ।
क्रोधसंरक्तनयनो
व्याहर्तुमुपचक्रमे ॥ १५ ॥
निस्साध्वसमिदं
प्रोक्तं
धर्मादपि
विगर्हितम् ।
अतिक्रम्य
तु
मद्वाक्यं
दारुणं
रोमहर्षणम् ॥ १६ ॥
श्वमांसभोजिनः
सर्वे
वासिष्ठा
इव
जातिषु ।
पूर्णं
वर्षसहस्रं
तु
पृथिव्यामनुवत्स्यथ ॥ १७ ॥
कृत्वा
शापसमायुक्तान्
पुत्रान्
मुनिवरस्तथा ।
शुनःशेपमुवाचार्तं
कृत्वा
रक्षां
निरामयम् ॥ १८ ॥
पवित्रपाशैरासक्तो
रक्तमाल्यानुलेपनः ।
वैष्णवं
यूपमासाद्य
वाग्भिरग्निमुदाहर ॥ १९ ॥
इमे
तु
गाथे
द्वे
दिव्ये
गायेथा
मुनिपुत्रक ।
अम्बरीषस्य
यज्ञेऽस्मिंस्ततः
सिद्धिमवाप्स्यसि ॥ २० ॥
शुनःशेपो
गृहीत्वा
ते
द्वे
गाथे
सुसमाहितः ।
त्वरया
राजसिंहं
तमम्बरीषमुवाच
ह ॥ २१ ॥
राजसिंह
महासत्त्व
शीघ्रं
गच्छावहे
सदः ।
निर्वर्तयस्व
राजेन्द्र
दीक्षां
च
समुपाविश ॥ २२ ॥
तद्वाक्यमृषिपुत्रस्य
श्रुत्वा
हर्षसमुत्सुकः ।
जगाम
नृपतिः
शीघ्रं
यज्ञवाटमतन्द्रितः ॥ २३ ॥
सदस्यानुमते
राजा
पवित्रकृतलक्षणम् ।
पशुं
रक्ताम्बरं
कृत्वा
यूपे
तं
समबन्धयत् ॥ २४ ॥
स
बद्धो
वाग्भिरग्र्याभिरभितुष्टाव
वै
सुरौ ।
इन्द्रमिन्द्रानुजं
चैव
यथावन्मुनिपुत्रकः ॥ २५ ॥
ततः
प्रीतः
सहस्राक्षो
रहस्यस्तुतितर्पितः ।
दीर्घमायुस्तदा
प्रादाच्छुनःशेपाय
राघव ॥ २६ ॥
स
च
राजा
नरश्रेष्ठ
यज्ञस्य
च
समाप्तवान् ।
फलं
बहुगुणं
राम
सहस्राक्षप्रसादजम् ॥ २७ ॥
विश्वामित्रोऽपि
धर्मात्मा
भूयस्तेपे
महातपाः ।
पुष्करेषु
नरश्रेष्ठ
दशवर्षशतानि
च ॥ २८ ॥