पूर्णे
वर्षसहस्रे
तु
व्रतस्नातं
महामुनिम् ।
अभ्यागच्छन्
सुराः
सर्वे
तपःफलचिकीर्षवः ॥ १ ॥
अब्रवीत्
सुमहातेजा
ब्रह्मा
सुरुचिरं
वचः ।
ऋषिस्त्वमसि
भद्रं
ते
स्वार्जितैः
कर्मभिः
शुभैः ॥ २ ॥
तमेवमुक्त्वा
देवेशस्त्रिदिवं
पुनरभ्यगात् ।
विश्वामित्रो
महातेजा
भूयस्तेपे
महत्तपः ॥ ३ ॥
ततः
कालेन
महता
मेनका
परमाप्सराः ।
पुष्करेषु
नरश्रेष्ठस्नातुं
समुपचक्रमे ॥ ४ ॥
तां
ददर्श
महातेजा
मेनकां
कुशिकात्मजः ।
रूपेणाप्रतिमां
तत्र
विद्युतं
जलदे
यथा ॥ ५ ॥
दृष्ट्वा
कन्दर्पवशगो
मुनिस्तामिदमब्रवीत् ।
अप्सरः
स्वागतं
तेऽस्तु
वस
चेह
ममाश्रमे ॥ ६ ॥
अनुगृह्णीष्व
भद्रं
ते
मदनेन
सुमोहितम् ।
इत्युक्ता
सा
वरारोहा
तत्र
वासमथाकरोत् ॥ ७ ॥
तपसो
हि
महाविघ्नो
विश्वामित्रम्
उपागतम् ।
तस्यां
वसन्त्यां
वर्षाणि
पञ्चपञ्च
च
राघव ॥ ८ ॥
विश्वामित्राश्रमे
राम
सुखेन
व्यतिचक्रमुः ।
अथ
काले
गते
तस्मिन्
विश्वामित्रो
महामुनिः ॥ ९ ॥
सव्रीड
इव
संवृत्तश्चिन्ताशोकपरायणः ।
बुद्धिर्मुनेः
समुत्पन्ना
सामर्षा
रघुनन्दन ॥ १० ॥
सर्वं
सुराणां
कर्मैतत्तपोपहरणं
महत् ।
अहोरात्रापदेशेन
गताः
संवत्सरा
दश ॥ ११ ॥
काममोहाभिभूतस्य
विघ्नोऽयं
प्रत्युपस्थितः ।
विनिश्वसन्
मुनिवरः
पश्चात्तापेन
दुःखितः ॥ १२ ॥
भीतामप्सरसं
दृष्ट्वा
वेपन्तीं
प्राञ्जलिं
स्थिताम् ।
मेनकां
मधुरैर्वाक्यैर्विसृज्य
कुशिकात्मजः ॥ १३ ॥
उत्तरं
पर्वतं
राम
विश्वामित्रो
जगाम
ह ।
स
कृत्वा
नैष्ठिकीं
बुद्धिं
जेतुकामो
महायशाः ॥ १४ ॥
कौशिकीतीरमासाद्य
तपस्तेपे
सुदारुणम् ।
तस्य
वर्षसहस्रं
तु
घोरं
तप
उपासतः ॥ १५ ॥
उत्तरे
पर्वते
राम
देवतानामभूद्भयम् ।
आमन्त्रयन्
समागम्य
सर्वे
सर्षिगणाः
सुराः ॥ १६ ॥
महर्षिशब्दं
लभतां
साध्वयं
कुशिकात्मजः ।
देवतानां
वचः
श्रुत्वा
सर्वलोकपितामहः ॥ १७ ॥
अब्रवीन्मधुरं
वाक्यं
विश्वामित्रं
तपोधनम् ।
महर्षे
स्वागतं
वत्स
तपसोग्रेण
तोषितः ॥ १८ ॥
महत्त्वमृषिमुख्यत्वं
ददामि
तव
कौशिक ।
ब्रह्मणस्स
वचः
श्रुत्वा
सर्वलोकेश्वरस्य
ह ॥ १९ ॥
प्राञ्जलिः
प्रणतो
भूत्वा
सर्वलोकपितामहम् ।
प्रत्युवाच
ततो
वाचं
विश्वामित्रो
महामुनिः ॥ २० ॥
महर्षिशब्दमतुलं
स्वार्जितैः
कर्मभिः
शुभैः ।
यदि
मे
भगवानाह
ततोऽहं
विजितेन्द्रियः ॥ २१ ॥
तमुवाच
ततो
ब्रह्मा
न
तावत्त्वं
जितेन्द्रियः ।
यतस्व
मुनिशार्दूल
इत्युक्त्वा
त्रिदिवं
गतः ॥ २२ ॥
विप्रस्थितेषु
देवेषु
विश्वामित्रो
महामुनिः ।
ऊर्द्ध्वबाहुर्निरालम्बो
वायुभक्षस्तपश्चरन् ॥ २३ ॥
घर्मे
पञ्चतपा
भूत्वा
वर्षास्वाकाशसंश्रयः ।
शिशिरे
सलिलस्थायी
रात्र्यहानि
तपोधनः ॥ २४ ॥
एवं
वर्षसहस्रं
हि
तपो
घोरमुपागमत् ।
तस्मिन्
सन्तप्यमाने
तु
विश्वामित्रे
महामुनौ ॥ २५ ॥
सम्भ्रमः
सुमहानासीत्
सुराणां
वासवस्य
च ।
रम्भामप्सरसं
शक्रस्सह
सर्वैर्मरुद्गणैः ॥ २६ ॥
उवाचात्महितं
वाक्यमहितं
कौशिकस्य
च ॥ २७ ॥