सुरकार्यमिदं
रम्भे
कर्तव्यं
सुमहत्त्वया ।
लोभनं
कौशिकस्येह
काममोहसमन्वितम् ॥ १ ॥
तथोक्ता
साप्सरा
राम
सहस्राक्षेण
धीमता ।
व्रीडिता
प्राञ्जलिर्भूत्वा
प्रत्युवाच
सुरेश्वरम् ॥ २ ॥
अयं
सुरपते
घोरो
विश्वामित्रो
महामुनिः ।
क्रोधमुत्सृजते
घोरं
मयि
देव
न
संशयः ॥ ३ ॥
ततो
हि
मे
भयन्
देव
प्रसादङ्
कर्तुम्
अर्हसि ।
एवमुक्तस्तया
राम
रम्भया
भीतया
तदा ॥ ४ ॥
तामुवाच
सहस्राक्षो
वेपमानां
कृताञ्जलिम् ।
मा
भैषि
रम्भे
भद्रं
ते
कुरुष्व
मम
शासनम् ॥ ५ ॥
कोकिलो
हृदयग्राही
माधवे
रुचिरद्रुमे ।
अहं
कन्दर्पसहितः
स्थास्यामि
तव
पार्श्वतः ॥ ६ ॥
त्वं
हि
रूपं
बहुगुणं
कृत्वा
परमभास्वरम् ।
तमृषिं
कौशिकं
रम्भे
भेदयस्व
तपस्विनम् ॥ ७ ॥
सा
श्रुत्वा
वचनं
तस्य
कृत्वा
रूपमनुत्तमम् ।
लोभयामास
ललिता
विश्वामित्रं
शुचिस्मिता ॥ ८ ॥
कोकिलस्य
तु
शुश्राव
वल्गु
व्याहरतः
स्वनम् ।
सम्प्रहृष्टेन
मनसा
तत
एनामुदैक्षत ॥ ९ ॥
अथ
तस्य
च
शब्देन
गीतेनाप्रतिमेन
च ।
दर्शनेन
च
रम्भाया
मुनिः
सन्देहमागतः ॥ १० ॥
सहस्राक्षस्य
तत्कर्म
विज्ञाय
मुनिपुङ्गवः ।
रम्भां
क्रोधसमाविष्टः
शशाप
कुशिकात्मजः ॥ ११ ॥
यन्मां
लोभयसे
रम्भे
कामक्रोधजयैषिणम् ।
दशवर्षसहस्राणि
शैली
स्थास्यसि
दुर्भगे ॥ १२ ॥
ब्राह्मणः
सुमहातेजास्तपोबलसमन्वितः ।
उद्धरिष्यति
रम्भे
त्वां
मत्क्रोधकलुषीकृताम् ॥ १३ ॥
एवमुक्त्वा
महातेजा
विश्वामित्रो
महामुनिः ।
अशक्नुवन्
धारयितुं
क्रोधं
सन्तापमागतः ॥ १४ ॥
तस्य
शापेन
महता
रम्भा
शैली
तदाभवत् ।
वचः
श्रुत्वा
च
कन्दर्पो
महर्षेः
स
च
निर्गतः ॥ १५ ॥
कोपेन
सुमहातेजास्तपोपहरणे
कृते ।
इन्द्रियैरजितै
राम
न
लेभे
शान्तिमात्मनः ॥ १६ ॥
बभूवास्य
मनश्चिन्ता
तपोपहरणे
कृते ।
नैव
क्रोधं
गमिष्यामि
न
च
वक्ष्ये
कथञ्चन ॥ १७ ॥
अथवा
नोच्छ्वसिष्यामि
संवत्सरशतान्यपि ।
अहम्
हि
शोषयिष्यामि
आत्मानं
विजितेन्द्रियः ॥ १८ ॥
तावद्यावद्धि
मे
प्राप्तं
ब्राह्मण्यं
तपसार्जितम् ।
अनुच्छ्वसन्नभुञ्जानस्तिष्ठेयं
शाश्वतीः
समाः ॥ १९ ॥
न
हि
मे
तप्यमानस्य
क्षयं
यास्यन्ति
मूर्तयः ।
एवं
वर्षसहस्रस्य
दीक्षां
स
मुनिपुङ्गवः ॥ २० ॥
चकाराप्रतिमां
लोके
प्रतिज्ञां
रघुनन्दन ॥ २१ ॥