अथ
हैमवतीं
राम
दिशं
त्यक्त्वा
महामुनिः ।
पूर्वां
दिशमनुप्राप्य
तपस्तेपे
सुदारुणम् ॥ १ ॥
मौनं
वर्षसहस्रस्य
कृत्वा
व्रतमनुत्तमम् ।
चकाराप्रतिमं
राम
तपः
परमदुष्करम् ॥ २ ॥
पूर्णे
वर्षसहस्रे
तु
काष्ठभूतं
महामुनिम् ।
विघ्नैर्बहुभि
राधूतं
क्रोधो
नान्तरमाविशत् ॥ ३ ॥
स
कृत्वा
निश्चयं
राम
तप
आतिष्ठदव्ययम् ।
भोक्तुमारब्धवानन्नं
तस्मिन्
काले
रघूत्तम ॥ ४ ॥
इन्द्रो
द्विजातिर्भूत्वा
तं
सिद्धमन्नमयाचत ।
निःशेषितेऽन्ने
भगवानभुक्त्वैव
महातपाः ॥ ५ ॥
न
किञ्चिदवदद्विप्रं
मौनव्रतमुपस्थितः ।
अथ
वर्षसहस्रं
वै
नोच्छ्वसन्
मुनिपुङ्गवः ॥ ६ ॥
तस्यानुच्छ्वसमानस्य
मूर्ध्नि
धूमो
व्यजायत ।
त्रैलोक्यं
येन
सम्भ्रान्तमादीपितमिवाभवत् ॥ ७ ॥
मोहितास्तेजसा
तस्य
तपसा
मन्दरश्मयः ।
कश्मलोपहताः
सर्वे
पितामहमथाब्रुवन् ॥ ८ ॥
लोभितः
क्रोधितश्चैव
तपसा
चाभिवर्द्धते ।
न
ह्यस्य
वृजिनं
किञ्चिद्दृश्यते
सूक्ष्ममप्यथ ॥ ९ ॥
न
दीयते
यदि
त्वस्य
मनसा
यदभीप्सितम् ।
विनाशयति
त्रैलोक्यं
तपसा
सचराचरम् ॥ १० ॥
व्याकुलाश्च
दिशः
सर्वा
न
च
किञ्चित्प्रकाशते ।
सागराः
क्षुभिताः
सर्वे
विशीर्यन्ते
च
पर्वताः ॥ ११ ॥
प्रकम्पते
च
पृथिवी
वायुर्वाति
भृशाकुलः ।
ब्रह्मन्न
प्रतिजानीमो
नास्तिको
जायते
जनः ॥ १२ ॥
सम्मूढमिव
त्रैलोक्यं
सम्प्रक्षुभितमानसम् ।
भास्करो
निष्प्रभश्चैव
महर्षेस्तस्य
तेजसा ॥ १३ ॥
बुद्धिं
न
कुरुते
यावन्नाशेदेव
महामुनिः ।
तावत्प्रसाद्यो
भगवानग्निरूपो
महाद्युतिः ॥ १४ ॥
कालाग्निना
यथा
पूर्वं
त्रैलाक्यं
दह्यतेऽखिलम् ।
देवराज्यं
चिकीर्षेत
दीयतामस्य
यन्मतम् ॥ १५ ॥
विश्वामित्रं
महात्मानं
वाक्यं
मधुरमब्रुवन् ।
ब्रह्मर्षे
स्वागतं
तेऽस्तु
तपसा
स्म
सुतोषिताः ॥ १६ ॥
दीर्घमायुश्च
ते
ब्रह्मन्
ददामि
समरुद्गणः ।
स्वस्ति
प्राप्नुहि
भद्रं
ते
गच्छ
सौम्य
यथासुखम् ॥ १७ ॥
पितामहवचः
श्रुत्वा
सर्वेषां
च
दिवौकसाम् ।
कृत्वा
प्रणामं
मुदितो
व्याजहार
महामुनिः ॥ १८ ॥
ब्राह्मण्यं
यदि
मे
प्राप्तं
दीर्घमायुस्तथैव
च ।
ओङ्कारश्च
वषट्कारो
वेदाश्च
वरयन्तु
माम् ॥ १९ ॥
ब्रह्मपुत्रो
वसिष्ठो
मामेवं
वदतु
देवताः ।
यद्ययं
परमः
कामः
कृतो
यान्तु
सुरर्षभाः ॥ २० ॥
ततः
प्रसादितो
देवैर्वसिष्ठो
जपतां
वरः ।
सख्यं
चकार
ब्रह्मर्षिरेवमस्त्विति
चाब्रवीत् ॥ २१ ॥
ब्रह्मर्षिस्त्वं
न
सन्देहः
सर्वं
सम्पत्स्यते
तव ।
इत्युक्त्वा
देवताश्चापि
सर्वा
जग्मुर्यथागतम् ॥ २२ ॥
पूजयामास
ब्रह्मर्षिम्
वसिष्ठम्
जपताम्
वरम् ।
कृत
कामो
महीम्
सर्वाम्
चचार
तपसि
स्थितः ॥ २३ ॥
एवम्
तु
अनेन
ब्राह्मण्यम्
प्राप्तम्
राम
महात्मना ।
एष
राम
मुनिश्रेष्ठ
एष
विग्रहवांस्तपः ॥ २४ ॥
एष
धर्मपरो
नित्यं
वीर्यस्यैष
परायणम् ।
एवमुक्त्वा
महातेजा
विरराम
द्विजोत्तमः ॥ २५ ॥
शतानन्दवचः
श्रुत्वा
रामलक्ष्मणसन्निधौ ।
जनकः
प्राञ्जलिर्वाक्यमुवाच
कुशिकात्मजम् ॥ २६ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि
यस्य
मे
मुनिपुङ्गव ।
यज्ञं
काकुत्स्थसहितः
प्राप्तवानसि
धार्मिक ॥ २७ ॥
पावितोऽहं
त्वया
ब्रह्मन्
दर्शनेन
महामुने ।
गुणा
बहुविधाः
प्राप्तास्तव
सन्दर्शनान्मया ॥ २८ ॥
विस्तरेण
च
ते
ब्रह्मन्
कीर्त्यमानं
महत्तपः ।
श्रुतं
मया
महातेजो
रामेण
च
महात्मना ॥ २९ ॥
सदस्यैः
प्राप्य
च
सदः
श्रुतास्ते
बहवो
गुणाः ।
अप्रमेयं
तपस्तुभ्यमप्रमेयं
च
ते
बलम् ॥ ३० ॥
अप्रमेया
गुणाश्चैव
नित्यं
ते
कुशिकात्मज ।
तृप्तिराश्चर्यभूतानां
कथानां
नास्ति
मे
विभो ॥ ३१ ॥
कर्मकालो
मुनिश्रेष्ठ
लम्बते
रविमण्डलम् ।
श्वःप्रभाते
महातेजो
द्रष्टुमर्हसि
मां
पुनः ॥ ३२ ॥
स्वागतं
तपतां
श्रेष्ठ
मामनुज्ञातुमर्हसि ।
एवमुक्तो
मुनिवरः
प्रशस्य
पुरुषर्षभम् ॥ ३३ ॥
विससर्जाशु
जनकं
प्रीतं
प्रीतमनास्तदा ।
एवमुक्त्वा
मुनिश्रेष्ठं
वैदेहो
मिथिलाधिपः ॥ ३४ ॥
प्रदक्षिणं
चकाराशु
सोपाध्यायः
सबान्धवः ।
विश्वामित्रोऽपि
धर्मात्मा
सरामः
सहलक्ष्मणः ॥ ३५ ॥
स्ववाटमभिचक्राम
पूज्यमानो
महर्षिभिः ॥ ३६ ॥