ततः
प्रभाते
विमले
कृतकर्मा
नराधिपः ।
विश्वामित्रं
महात्मानमाजुहाव
सराघवम् ॥ १ ॥
तमर्चयित्वा
धर्मात्मा
शास्त्रदृष्टेन
कर्मणा ।
राघवौ
च
महात्मानौ
तदा
वाक्यमुवाच
ह ॥ २ ॥
भगवन्
स्वागतं
तेऽस्तु
किं
करोमि
तवानघ ।
भवानाज्ञापयतु
मामाज्ञाप्यो
भवता
ह्यहम् ॥ ३ ॥
एवमुक्तस्तु
धर्मात्मा
जनकेन
महात्मना ।
प्रत्युवाच
मुनिर्वीरं
वाक्यं
वाक्यविशारदः ॥ ४ ॥
पुत्रौ
दशरथस्येमौ
क्षत्रियौ
लोकविश्रुतौ ।
द्रष्टुकामौ
धनुःश्रेष्ठं
यदेतत्त्वयि
तिष्ठति ॥ ५ ॥
एतद्दर्शय
भद्रं
ते
कृतकामौ
नृपात्मजौ ।
दर्शनादस्य
धनुषो
यथेष्टं
प्रतियास्यतः ॥ ६ ॥
एवमुक्तस्तु
जनकः
प्रत्युवाच
महामुनिम् ।
श्रूयतामस्य
धनुषो
यदर्थमिह
तिष्ठति ॥ ७ ॥
देवरात
इति
ख्यातो
निमेष्षष्ठो
महीपतिः ।
न्यासोऽयं
तस्य
भगवन्
हस्ते
दत्तो
महात्मना ॥ ८ ॥
दक्षयज्ञवधे
पूर्वं
धनुरायम्य
वीर्यवान् ।
रुद्रस्तु
त्रिदशान्
रोषात्
सलीलमिदमब्रवीत् ॥ ९ ॥
यस्माद्भागार्थिनो
भागान्नाकल्पयत
मे
सुराः ।
वराङ्गाणि
महार्हाणि
धनुषा
शातयामि
वः ॥ १० ॥
ततो
विमनसः
सर्वे
देवा
वै
मुनिपुङ्गव ।
प्रसादयन्ति
देवेशं
तेषां
प्रीतोऽभवद्भवः ॥ ११ ॥
प्रीतियुक्तस्
तु
सर्वेषान्
ददौ
तेषाम्
महात्मनाम् ।
तदेतद्देवदेवस्य
धनूरत्नं
महात्मनः ॥ १२ ॥
न्यासभूतं
तदा
न्यस्तमस्माकं
पूर्वके
विभो ।
अथ
मे
कृषतः
क्षेत्रं
लाङ्गलादुत्थिता
मया ॥ १३ ॥
क्षेत्रं
शोधयता
लब्धा
नाम्ना
सीतेति
विश्रुता ।
भूतलादुत्थिता
सा
तु
व्यवर्द्धत
ममात्मजा ॥ १४ ॥
वीर्यशुल्केति
मे
कन्या
स्थापितेयमयोनिजा ।
भूतला
दुत्थितां
तां
तु
वर्द्धमानां
ममात्मजाम् ॥ १५ ॥
वरयामासुरागम्य
राजानो
मुनिपुङ्गव ।
तेषां
वरयतां
कन्यां
सर्वेषां
पृथिवीक्षिताम् ॥ १६ ॥
वीर्यशुल्केति
भगवन्
न
ददामि
सुतामहम् ।
ततः
सर्वे
नृपतयः
समेत्य
मुनिपुङ्गव ॥ १७ ॥
मिथिलामभ्युपागम्य
वीर्यजिज्ञासवस्तदा ।
तेषां
जिज्ञासमानानां
वीर्यं
धनुरुपाहृतम् ॥ १८ ॥
न
शेकुर्ग्रहणे
तस्य
धनुषस्तोलनेऽपि
वा ।
तेषां
वीर्यवतां
वीर्यमल्पं
ज्ञात्वा
महामुने ॥ १९ ॥
प्रत्याख्याता
नृपतयस्तन्निबोध
तपोधन ।
ततः
परमकोपेन
राजानो
नृपपुङ्गव ॥ २० ॥
न्यरुन्धन्
मिथिलां
सर्वे
वीर्यसन्देहमागताः ।
आत्मानमवधूतं
ते
विज्ञाय
नृपपुङ्गवाः ॥ २१ ॥
रोषेण
महताविष्टाः
पीडयन्
मिथिलां
पुरीम् ।
ततः
संवत्सरे
पूर्णे
क्षयं
यातानि
सर्वशः ॥ २२ ॥
साधनानि
मुनिश्रेष्ठ
ततोऽहं
भृशदुःखितः ।
ततो
देवगणान्
सर्वान्
तपसाऽहं
प्रसादयम् ॥ २३ ॥
ददुश्च
परमप्रीताश्चतुरङ्गबलं
सुराः ।
ततो
भग्ना
नृपतयो
हन्यमाना
दिशो
ययुः ॥ २४ ॥
अवीर्या
वीर्यसन्दिग्धाः
सामात्याः
पापकर्मणः ।
तदेतन्मुनिशार्दूल
धनुः
परमभास्वरम् ॥ २५ ॥
रामलक्ष्मणयोश्चापि
दर्शयिष्यामि
सुव्रत ।
यद्यस्य
धनुषो
रामः
कुर्यादारोपणं
मुने ॥ २६ ॥
सुतामयोनिजां
सीतां
दद्यां
दाशरथेरहम् ॥ २७ ॥