जनकस्य
वचः
श्रुत्वा
विश्वामित्रो
महामुनिः ।
धनुर्दर्शय
रामाय
इति
होवाच
पार्थिवम् ॥ १ ॥
ततः
स
राजा
जनकः
सामन्तान्
व्यादिदेश
ह ।
धनुरानीयतां
दिव्यं
गन्धमाल्यविभूषितम् ॥ २ ॥
जनकेन
समादिष्टाः
सचिवाः
प्राविशन्
पुरीम् ।
तद्धनुः
पुरतः
कृत्वा
निर्जग्मुः
पार्थिवाज्ञया ॥ ३ ॥
नृणां
शतानि
पञ्चाशद्व्यायतानां
महात्मनाम् ।
मञ्जूषामष्टचक्रां
तां
समूहुस्ते
कथञ्चन ॥ ४ ॥
तामादाय
तु
मञ्जूषामायसीं
यत्र
तद्धनुः ।
सुरोपमं
ते
जनकमूचुर्नृपतिमन्त्रिणः ॥ ५ ॥
इदं
धनुर्वरं
राजन्
पूजितं
सर्वराजभिः ।
मिथिलाधिप
राजेन्द्र
दर्शनीयं
यदिच्छसि ॥ ६ ॥
तेषां
नृपो
वचः
श्रुत्वा
कृताञ्जलिरभाषत ।
विश्वामित्रं
महात्मानं
तौ
चोभौ
राजलक्ष्मणौ ॥ ७ ॥
इदं
धनुर्वरं
ब्रह्मन्
जनकैरभिपूजितम् ।
राजभिश्च
महावीर्यैरशक्तैः
पूरितुं
पुरा ॥ ८ ॥
नैतत्
सुरगणाः
सर्वे
नासुरा
न
च
राक्षसाः ।
गन्धर्वयक्षप्रवराः
सकिन्नरमहोरगाः ॥ ९ ॥
क्व
गतिर्मानुषाणां
च
धनुषोऽस्य
प्रपूरणे ।
आरोपणे
समायोगे
वेपने
तोलनेऽपि
वा ॥ १० ॥
तदेतद्धनुषां
श्रेष्ठमानीतं
मुनिपुङ्गव ।
दर्शयैतन्महाभाग
अनयो
राजपुत्रयोः ॥ ११ ॥
विश्वामित्रः
स
धर्मात्मा
श्रुत्वा
जनकभाषितम् ।
वत्स
राम
धनुः
पश्य
इति
राघवमब्रवीत् ॥ १२ ॥
महर्षेर्वचनाद्रामो
यत्र
तिष्ठति
तद्धनुः ।
मञ्जूषां
तामपावृत्य
दृष्ट्वा
धनुरथाब्रवीत् ॥ १३ ॥
इदं
धनुर्वरं
ब्रह्मन्
संस्पृशामीह
पाणिना ।
यत्नवांश्च
भविष्यामि
तोलने
पूरणेऽपि
वा ॥ १४ ॥
बाढमित्यब्रवीद्राजा
मुनिश्च
समभाषत ।
लीलया
स
धनुर्मध्ये
जग्राह
वचनान्मुनेः ॥ १५ ॥
पश्यतां
नृसहस्राणां
बहूनां
रघुनन्दनः ।
आरोपयत्
स
धर्मात्मा
सलीलम्
इव
तद्
धनुः ॥ १६ ॥
आरोपयित्वा
धर्मात्मा
पूरयामास
तद्धनुः ।
तद्बभञ्ज
धनुर्मध्ये
नरश्रेष्ठो
महायशाः ॥ १७ ॥
तस्य
शब्दो
महानासीन्निर्घातसमनिस्वनः ।
भूमिकम्पश्च
सुमहान्
पर्वतस्येव
दीर्यतः ॥ १८ ॥
निपेतुश्च
नराः
सर्वे
तेन
शब्देन
मोहिताः ।
वर्जयित्वा
मुनविरं
राजानं
तौ
च
राघवौ ॥ १९ ॥
प्रत्याश्वस्ते
जने
तस्मिन्
राजा
विगतसाध्वसः ।
उवाच
प्राञ्जलिर्वाक्यं
वाक्यज्ञो
मुनिपुङ्गवम् ॥ २० ॥
भगवन्
दृष्टवीर्यो
मे
रामो
दशरथात्मजः ।
अत्यद्भुतमचिन्त्यं
च
न
तर्कितमिदं
मया ॥ २१ ॥
जनकानां
कुले
कीर्तिमाहरिष्यति
मे
सुता ।
सीता
भर्तारमासाद्य
रामं
दशरथात्मजम् ॥ २२ ॥
मम
सत्या
प्रतिज्ञा
च
वीर्यशुल्केति
कौशिक ।
सीता
प्राणैर्बहुमता
देया
रामाय
मे
सुता ॥ २३ ॥
भवतोऽनुमते
ब्रह्मन्
शीघ्रं
गच्छन्तु
मन्त्रिणः ।
मम
कौशिक
भद्रं
ते
अयोध्यां
त्वरिता
रथैः ॥ २४ ॥
राजानं
प्रश्रितैर्वाक्यैरानयन्तु
पुरं
मम ।
प्रदानं
वीर्यशुल्कायाः
कथयन्तु
च
सर्वशः ॥ २५ ॥
मुनिगुप्तौ
च
काकुत्स्थौ
कथयन्तु
नृपाय
वै ।
प्रीयमाणं
तु
राजानमानयन्तु
सुशीघ्रगाः ॥ २६ ॥
कौशिकश्
च
तथेत्य्
आह
राजा
चाभाष्य
मन्त्रिणः ।
अयोध्यां
प्रेषयामास
धर्मात्मा
कृतशासनान् ॥ २७ ॥
यथावृत्तं
समाख्यातुमानेतुं
च
नृपं
तदा ॥ २८ ॥