जनकेन
समादिष्टा
दूतास्ते
क्लान्तवाहनाः ।
त्रिरात्रमुषिता
मार्गे
तेऽयोध्यां
प्राविशन्
पुरीम् ॥ १ ॥
ते
राजवचनाद्दूता
राजवेश्म
प्रवेशिताः ।
ददृशुर्देवसङ्काशं
वृद्धं
दशरथं
नृपम् ॥ २ ॥
बद्धाञ्जलिपुटाः
सर्वे
दूताविगतसाध्वसाः ।
राजानं
प्रयता
वाक्यमब्रुवन्
मधुराक्षरम् ॥ ३ ॥
मैथिलो
जनको
राजा
साग्निहोत्रपुरस्कृतम् ।
कुशलं
चाव्ययं
चैव
सोपाध्यायपुरोहितम् ॥ ४ ॥
मुहुर्मुहुर्मधुरया
स्नेहसंयुक्तया
गिरा ।
जनकस्त्वां
महाराजा
पृच्छते
सपुरःसरम् ॥ ५ ॥
पृष्ट्वा
कुशलमव्यग्रं
वैदेहो
मिथिलाधिपः ।
कौशिकानुमते
वाक्यं
भवन्तमिदमब्रवीत् ॥ ६ ॥
पूर्वं
प्रतिज्ञा
विदिता
वीर्यशुल्का
ममात्मजा ।
राजानश्च
कृतामर्षा
निर्वीर्या
विमुखीकृताः ॥ ७ ॥
सेयं
मम
सुता
राजन्
विश्वामित्रपुरस्सरैः ।
यदृच्छयागतैर्वीरैर्निर्जिता
तव
पुत्रकैः ॥ ८ ॥
तच्च
राजन्
धनुर्दिव्यं
मध्ये
भग्नं
महात्मना ।
रामेण
हि
महाराज
महत्यां
जनसंसदि ॥ ९ ॥
अस्मै
देया
मया
सीता
वीर्यशुल्का
महात्मने ।
प्रतिज्ञां
कर्तुमिच्छामि
तदनुज्ञातुमर्हसि ॥ १० ॥
सोपाध्यायो
महाराज
पुरोहितपुरस्सरः ।
शीघ्रमागच्छ
भद्रं
ते
द्रष्टुमर्हसि
राघवौ ॥ ११ ॥
प्रीतिं
च
मम
राजेन्द्र
निर्वर्तयितुमर्हसि ।
पुत्रयोरुभयोरेव
प्रीतिं
त्वमपि
लप्स्यसे ॥ १२ ॥
एवं
विदेहाधिपतिर्मधुरं
वाक्यमब्रवीत् ।
विश्वामित्राभ्यनुज्ञातः
शतानन्दमते
स्थितः ॥ १३ ॥
दूतवाक्यं
तु
तच्छ्रुत्वा
राजा
परमहर्षितः ।
वसिष्ठं
वामदेवं
च
मन्त्रिणोऽन्यांश्च
सोऽब्रवीत् ॥ १४ ॥
गुप्तः
कुशिकपुत्रेण
कौसल्यानन्दवर्द्धनः ।
लक्ष्मणेन
सह
भ्रात्रा
विदेहेषु
वसत्यसौ ॥ १५ ॥
दृष्टवीर्यस्तु
काकुत्स्थो
जनकेन
महात्मना ।
सम्प्रदानं
सुतायास्तु
राघवे
कर्त्तुमिच्छति ॥ १६ ॥
यदि
वो
रोचते
वृत्तं
जनकस्य
महात्मनः ।
पुरीं
गच्छामहे
शीघ्रं
माभूत्कालस्य
पर्ययः ॥ १७ ॥
मन्त्रिणो
बाढमित्याहुः
सह
सर्वैर्महर्षिभिः ।
सुप्रीतश्चाब्रवीद्राजा
श्वो
यात्रेति
स
मन्त्रिणः ॥ १८ ॥
मन्त्रिणस्तां
नरेन्द्रस्य
रात्रिं
परमसत्कृताः ।
ऊषुस्ते
मुदिताः
सर्वे
गुणैः
सर्वैस्समन्विताः ॥ १९ ॥