ततो
रात्र्यां
व्यतीतायां
सोपाध्यायः
सबान्धवः ।
राजा
दशरथो
हृष्टः
सुमन्त्रमिदमब्रवीत् ॥ १ ॥
अद्य
सर्वे
धनाध्यक्षा
धनमादाय
पुष्कलम् ।
व्रजन्त्वग्रे
सुविहिता
नानारत्नसमन्विताः ॥ २ ॥
चतुरङ्गं
बलं
चापि
शीघ्रं
निर्यातु
सर्वशः ।
ममाज्ञासमकालं
च
यानयुग्यमनुत्तमम् ॥ ३ ॥
वसिष्ठो
वामदेवश्च
जाबालिरथ
काश्यपः ।
मार्कण्डेयः
सुदीर्घायुर्ऋषिः
कात्यायनस्तथा ॥ ४ ॥
एते
द्विजाः
प्रयान्त्वग्रे
स्यन्दनं
योजयस्व
मे ।
यथा
कालात्ययो
न
स्याद्दूता
हि
त्वरयन्ति
माम् ॥ ५ ॥
वचनात्तु
नरेन्द्रस्य
सा
सेना
चतुरङ्गिणी ।
राजानमृषिभिः
सार्द्धं
व्रजन्तं
पृष्ठतोऽन्वगात् ॥ ६ ॥
गत्वा
चतुरहं
मार्गं
विदेहानभ्युपेयिवान् ।
राजा
तु
जनकः
श्रीमान्
श्रुत्वा
पूजामकल्पयत् ॥ ७ ॥
जनको
मुदितो
राजा
हर्षं
च
परमं
ययौ ।
उवाच
च
नरश्रेष्ठो
नरश्रेष्ठं
मुदान्वितः ॥ ८ ॥
स्वागतं
ते
महाराज
दिष्ट्या
प्राप्तोऽसि
राघव ।
पुत्रयोरुभयोः
प्रीतिं
लप्स्यसे
वीर्यनिर्जिताम् ॥ ९ ॥
दिष्ट्या
प्राप्तो
महातेजा
वसिष्ठो
भगवानृषिः ।
सह
सर्वैर्द्विजश्रेष्ठैर्देवैरिव
शतक्रतुः ॥ १० ॥
दिष्ट्या
मे
निर्जिता
विघ्ना
दिष्ट्या
मे
पूजितं
कुलम् ।
राघवैः
सह
सम्बन्धाद्वीर्यश्रेष्ठैर्महात्मभिः ॥ ११ ॥
श्वः
प्रभाते
नरेन्द्रेन्द्र
निर्वर्तयितुमर्हसि ।
यज्ञस्यान्ते
नरश्रेष्ठ
विवाहमृषिसम्मतम् ॥ १२ ॥
तस्य
तद्वचनं
श्रुत्या
ऋषिमध्ये
नराधिपः ।
वाक्यं
वाक्यविदां
श्रेष्ठः
प्रत्युवाच
महीपतिम् ॥ १३ ॥
प्रतिग्रहो
दातृवशः
श्रुतमेतन्मया
पुरा ।
यथा
वक्ष्यसि
धर्मज्ञ
तत्करिष्यामहे
वयम् ॥ १४ ॥
धर्मिष्ठं
च
यशस्यं
च
वचनं
सत्यवादिनः ।
श्रुत्वा
विदेहाधिपतिः
परं
विस्मयमागतः ॥ १५ ॥
ततः
सर्वे
मुनिगणाः
परस्परसमागमे ।
हर्षेण
महता
युक्तास्तां
निशामवसन्
सुखम् ॥ १६ ॥
राजा
च
राघवौ
पुत्रौ
निशाम्य
परिहर्षितः ।
उवास
परमप्रीतो
जनकेनाभिपूजितः ॥ १७ ॥
जनकोऽपि
महातेजाः
क्रियां
धर्मेण
तत्त्ववित् ।
यज्ञस्य
च
सुताभ्यां
च
कृत्वारात्रिमुवास
ह ॥ १८ ॥