ततः
प्रभाते
जनकः
कृतकर्मा
महर्षिभिः ।
उवाच
वाक्यं
वाक्यज्ञः
शतानन्दं
पुरोहितम् ॥ १ ॥
भ्राता
मम
महातेजा
यवीयानतिधार्मिकः ।
कुशध्वज
इति
ख्यातः
पुरीमध्यवसच्छुभाम् ॥ २ ॥
वार्याफलकपर्यन्तां
पिबन्निक्षुमतीं
नदीम् ।
साङ्काश्यां
पुण्यसङ्काशां
विमानमिव
पुष्पकम् ॥ ३ ॥
तमहं
द्रष्टुमिच्छामि
यज्ञगोप्ता
स
मे
मतः ।
प्रीतिं
सोऽपि
महातेजा
इमां
भोक्ता
मया
सह ॥ ४ ॥
शासनात्तु
नरेन्द्रस्य
प्रययुः
शीघ्रवाजिभिः ।
समानेतुं
नरव्याघ्रं
विष्णुमिन्द्राज्ञया
यथा ॥ ५ ॥
आज्ञयाथ
नरेन्द्रस्य
आजगाम
कुशध्वजः ।
स
ददर्श
महात्मानं
जनकं
धर्मवत्सलम् ॥ ६ ॥
सोऽभिवाद्य
शतानन्दं
राजानं
चापि
धार्मिकम् ।
राजार्हं
परमं
दिव्यमासनं
चाध्यरोहत ॥ ७ ॥
उपविष्टाबुभौ
तौ
तु
भ्रातरावतितेजसौ ।
प्रेषयामासतुर्वीरौ
मन्त्रिश्रेष्ठं
सुदामनम् ॥ ८ ॥
गच्छ
मन्त्रिपते
शीघ्रमैक्ष्वाकममितप्रभम् ।
आत्मजैः
सह
दुर्द्धर्षमानयस्व
समन्त्रिणम् ॥ ९ ॥
औपकार्य्यं
स
गत्वा
तु
रघूणां
कुलवर्द्धनम् ।
ददर्श
शिरसा
चैनमभिवाद्येदमब्रवीत् ॥ १० ॥
अयोध्याधिपते
वीर
वैदेहो
मिथिलाधिपः ।
स
त्वां
द्रष्टुं
व्यवसितः
सोपाध्यायपुरोहितम् ॥ ११ ॥
मन्त्रिश्रेष्ठवचः
श्रुत्वा
राजा
सर्षिगणस्तदा ।
सबन्धुरगमत्तत्र
जनको
यत्र
वर्तते ॥ १२ ॥
स
राजा
मन्त्रिसहितः
सोपाध्यायः
सबान्धवः ।
वाक्यं
वाक्यविदां
श्रेष्ठो
वैदेहमिदमब्रवीत् ॥ १३ ॥
विदितं
ते
महाराज
इक्ष्वाकुकुलदैवतम् ।
वक्ता
सर्वेषु
कृत्येषु
वसिष्ठो
भगवानृषिः ॥ १४ ॥
विश्वामित्राभ्यनुज्ञातः
सह
सर्वैर्महर्षिभिः ।
एष
वक्ष्यति
धर्मात्मा
वसिष्ठो
मे
यथाक्रमम् ॥ १५ ॥
तूष्णीम्भूते
दशरथे
वसिष्ठो
भगवानृषिः ।
उवाच
वाक्यं
वाक्यज्ञो
वैदेहं
सपुरोधसम् ॥ १६ ॥
अव्यक्तप्रभवो
ब्रह्मा
शाश्वतो
नित्य
अव्ययः ।
तस्मान्मरीचिः
सञ्जज्ञे
मरीचेः
काश्यपः
सुतः ॥ १७ ॥
विवस्वान्
काश्यपाज्जज्ञे
मनुर्वैवस्वतः
स्मृतः ।
मनुः
प्रजापतिः
पूर्वमिक्ष्वाकुस्तु
मनोः
सुतः ॥ १८ ॥
तमिक्ष्वाकुमयोध्यायां
राजानं
विद्धि
पूर्वकम् ।
इक्ष्वाकोस्तु
सुतः
श्रीमान्
कुक्षिरित्येव
विश्रुतः ॥ १९ ॥
कुक्षेरथात्मजः
श्रीमान्
विकुक्षिरुदपद्यत ।
विकुक्षेस्तु
महातेजा
बाणः
पुत्रः
प्रतापवान् ॥ २० ॥
बाणस्य
तु
महातेजा
अनरण्यः
प्रतापवान् ।
अनरण्यात्पृथुर्जज्ञे
त्रिशङ्कुस्तु
पृथोः
सुतः ॥ २१ ॥
त्रिशङ्कोरभवत्
पुत्रो
धुन्धुमारो
महायशाः ।
यौवनाश्वसुतस्त्वासीन्मान्धाता
पृथिवीपतिः ॥ २२ ॥
मान्धातुस्तु
सुतः
श्रीमान्
सुसन्धिरुदपद्यत ।
सुसन्धेरपि
पुत्रौ
द्वौ
ध्रुवसन्धिः
प्रसेनजित् ॥ २३ ॥
यशस्वी
ध्रुवसन्धेस्तु
भरतो
नाम
नामतः ।
भरतात्तु
महातेजा
असितो
नाम
जातवान् ॥ २४ ॥
यस्यैते
प्रतिराजान
उदपद्यन्त
शत्रवः ।
हैहयास्तालजङ्घाश्च
शूराश्च
शशिबिन्दवः ॥ २५ ॥
तांस्तु
स
प्रतियुद्ध्यन्
वै
युद्धे
राजा
प्रवासितः ।
हिमवन्तमुपागम्य
भृगुप्रस्रवणेऽवसत् ॥ २६ ॥
असितोऽल्पबलो
राजा
मन्त्रिभिः
सहितस्तदा ।
द्वे
चास्य
भार्ये
गर्भिण्यौ
बभूवतुरिति
श्रुतम् ॥ २७ ॥
एका
गर्भविनाशाय
सपत्न्यै
सगरं
ददौ ।
ततः
शैलवरं
रम्यं
बभूवाभिरतो
मुनिः ॥ २८ ॥
भार्गवश्च्यवनो
नाम
हिमवन्तमुपाश्रितः ।
तत्रैका
तु
महाभागा
भार्गवं
देववर्चसम् ॥ २९ ॥
ववन्दे
पद्मपत्राक्षी
काङ्क्षन्तीं
सुतमात्मनः ।
तमृषिं
साभ्युपागम्य
कालिन्दी
चाभ्यवादयत् ॥ ३० ॥
स
तामभ्यवदद्विप्रः
पुत्रेप्सुं
पुत्रजन्मनि ।
महावीर्यो
महातेजा
अचिरात्
सञ्जनिष्यति ॥ ३१ ॥
गरेण
सहितः
श्रीमान्
मा
शुचः
कमलेक्षणे ।
च्यवनं
तु
नमस्कृत्य
राजपुत्री
पतिव्रता ॥ ३२ ॥
पतिशोकातुरा
तस्मात्
पुत्रं
देवी
व्यजायत ।
सपत्न्या
तु
गरस्तस्यै
दत्तो
गर्भजिघांसया ॥ ३३ ॥
सह
तेन
गरेणैव
जातः
स
सगरोऽभवत् ।
सगरस्यासमञ्जस्तु
असमञ्जात्तथांशुमान् ॥ ३४ ॥
दिलीपोंऽशुमतः
पुत्रो
दिलीपस्य
भगीरथः ।
भगीरथात्ककुत्स्थश्च
ककुत्स्थस्य
रघुस्सुतः ॥ ३५ ॥
रघोस्तु
पुत्रस्तेजस्वी
प्रवृद्धः
पुरुषादकः ।
कल्माषपादो
ह्यभवत्तस्माज्जातश्च
शङ्खणः ॥ ३६ ॥
शीघ्रगस्त्वग्निवर्णस्य
शीघ्रगस्य
मरुः
सुतः ।
मरोः
प्रशुश्रुकस्त्वासीदम्बरीषः
पशुश्रुकात् ॥ ३७ ॥
अम्बरीषस्य
पुत्रोऽभून्नहुषः
पृथिवीपतिः ।
नहुषस्य
ययातिश्च
नाभागस्तु
ययातिजः ॥ ३८ ॥
नाभागस्य
बभूवाज
अजाद्दशरथोऽभवत् ।
अस्माद्दशरथाज्जातौ
भ्रातरौ
रामलक्ष्मणौ ॥ ३९ ॥
आदिवंशविशुद्धानां
राज्ञां
परमधर्मिणाम् ।
इक्ष्वाकुकुलजातानां
वीराणां
सत्यवादिनाम् ॥ ४० ॥
रामलक्ष्मणयोरर्थे
त्वत्सुते
वरये
नृप ।
सदृशाभ्यां
नरश्रेष्ठ
सदृशे
दातुमर्हसि ॥ ४१ ॥