एवं
ब्रुवाणं
जनकः
प्रत्युवाच
कृताञ्जलिः ।
श्रोतुमर्हसि
भद्रं
ते
कुलं
नः
परिकीर्तितम् ॥ १ ॥
प्रदाने
हि
मुनिश्रेष्ठ
कुलं
निरवशेषतः ।
वक्तव्यं
कुलजातेन
तन्निबोध
महामुने ॥ २ ॥
राजाभूत्
त्रिषु
लोकेषु
विश्रुतः
स्वेन
कर्मणा ।
निमिः
परमधर्मात्मा
सर्वसत्त्ववतां
वरः ॥ ३ ॥
तस्य
पुत्रो
मिथिर्नाम
मिथिला
येन
निर्मिता ।
प्रथमो
जनको
नाम
जनकादप्युदावसुः ॥ ४ ॥
उदावसोस्तु
धर्मात्मा
जातो
वै
नन्दिवर्द्धनः ।
नन्दिवर्द्धनपुत्रस्तु
सुकेतुर्नाम
नामतः ॥ ५ ॥
सुकेतोरपि
धर्मात्मा
देवरातो
महाबलः ।
देवरातस्य
राजर्षेर्बृहद्रथ
इति
स्मृतः ॥ ६ ॥
बृहद्रथस्य
शूरोऽभून्महावीरः
प्रतापवान् ।
महावीरस्य
धृतिमान्
सुधृतिः
सत्यविक्रमः ॥ ७ ॥
सुधृतेरपि
धर्मात्मा
दृष्टकेतुः
सुधार्मिकः ।
दृष्टकेतोस्तु
राजर्षेर्हर्यश्व
इति
विश्रुतः ॥ ८ ॥
हर्यश्वस्य
मरुः
पुत्रो
मरोः
पुत्रः
प्रतिन्धकः ।
प्रतिन्धकस्य
धर्मात्मा
राजा
कीर्तिरथः
सुतः ॥ ९ ॥
पुत्रः
कीर्तिरथस्यापि
देवमीढ
इति
स्मृतः ।
देवमीढस्य
विबुधो
विबुधस्य
महीध्रकः ॥ १० ॥
महीध्रकसुतो
राजा
कीर्तिरातो
महाबलः ।
कीर्तिरातस्य
राजर्षेर्महारोमा
व्यजायत ॥ ११ ॥
महारोम्णस्तु
धर्मात्मा
स्वर्णरोमा
व्यजायत ।
स्वर्णरोम्णस्तु
राजर्षेर्ह्रस्वरोमा
व्यजायत ॥ १२ ॥
तस्य
पुत्रद्वयं
जज्ञे
धर्मज्ञस्य
महात्मनः ।
ज्येष्ठोऽहमनुजो
भ्राता
मम
वीरः
कुशध्वजः ॥ १३ ॥
मां
तु
ज्येष्ठं
पिता
राज्ये
सोऽभिषिच्य
नराधिपः ।
कुशध्वजं
समावेश्य
भारं
मयि
वनं
गतः ॥ १४ ॥
वृद्धे
पितरि
स्वर्याते
धर्मेण
धुरमावहम् ।
भ्रातरं
देवसङ्काशं
स्नेहात्पश्यन्
कुशध्वजम् ॥ १५ ॥
कस्य
चित्त्वथ
कालस्य
साङ्काश्यादगमत्
पुरात् ।
सुधन्वा
वीर्यवान्
राजा
मिथिलामवरोधकः ॥ १६ ॥
स
च
मे
प्रेषयामास
शैवं
धनुरनुत्तमम् ।
सीता
कन्या
च
पद्माक्षी
मह्यं
वै
दीयतामिति ॥ १७ ॥
तस्याऽप्रदानाद्ब्रह्मर्षे
युद्धमासीन्मया
सह ।
स
हतोऽभिमुखो
राजा
सुधन्वा
तु
मया
रणे ॥ १८ ॥
निहत्य
तं
मुनिश्रेष्ठ
सुधन्वानं
नराधिपम् ।
साङ्काश्ये
भ्रातरं
वीरमभ्यषिञ्चं
कुशध्वजम् ॥ १९ ॥
कनीयानेष
मे
भ्राता
अहं
ज्येष्ठो
महामुने ।
ददामि
परमप्रीतो
वध्वौ
ते
मुनिपुङ्गव ॥ २० ॥
सीतां
रामाय
भद्रं
ते
ऊर्मिलां
लक्ष्मणाय
च ।
वीर्यशुल्कां
मम
सुतां
सीतां
सुरसुतोपमाम् ॥ २१ ॥
द्वितीयामूर्मिलां
चैव
त्रिर्ददामि
न
संशयः ।
रामलक्ष्मणयो
राजन्
गोदानं
कारयस्व
ह ॥ २२ ॥
पितृकार्यं
च
भद्रं
ते
ततो
वैवाहिकं
कुरु ।
फल्गुन्यामुत्तरे
राजंस्तस्मिन्
वैवाहिकं
कुरु ॥ २३ ॥
रामलक्ष्मणयो
राजन्
दानं
कार्यं
सुखोदयम् ॥ २४ ॥