अथ
रात्र्यां
व्यतीतायां
विश्वामित्रो
महामुनिः ।
आपृष्ट्वा
तौ
च
राजानौ
जगामोत्तरपर्वतम् ॥ १ ॥
विश्वामित्रे
गते
राजा
वैदेहं
मिथिलाधिपम् ।
आपृष्ट्वाथ
जगामाशु
राजा
दशरथः
पुरीम् ॥ २ ॥
गच्छन्तं
तं
तु
राजानमन्वगच्छन्नराधिपः ।
अथ
राजा
विदेहानां
ददौ
कन्याधनं
बहु ॥ ३ ॥
गवां
शतसहस्राणि
बहूनि
मिथिलेश्वरः ।
कम्बलानां
च
मुख्यानां
क्षौमकोट्यम्बराणि
च ॥ ४ ॥
हस्त्यश्वरथपादातं
दिव्यरूपं
स्वलङ्कृतम् ।
ददौ
कन्यापिता
तासां
दासीदासमनुत्तमम् ॥ ५ ॥
हिरण्यस्य
सुवर्णस्य
मुक्तानां
विद्रुमस्य
च ।
ददौ
परमसंहृष्टः
कन्याधनमनुत्तमम् ॥ ६ ॥
दत्त्वा
बहुधनं
राजा
समनुज्ञाप्य
पार्थिवम् ।
प्रविवेश
स्वनिलयं
मिथिलां
मिथिलेश्वरः ॥ ७ ॥
राजाप्ययोध्याधिपतिस्सह
पुत्रैर्महात्मभिः ।
ऋषीन्
सर्वान्
पुरस्कृत्य
जगाम
सबलानुगः ॥ ८ ॥
घोराः
स्म
पक्षिणो
वाचो
व्याहरन्ति
ततस्ततः ।
भौमाश्चैव
मृगाः
सर्वे
गच्छन्ति
स्म
प्रदक्षिणम् ॥ ९ ॥
तान्
दृष्ट्वा
राजशार्दूलो
वसिष्ठं
पर्यपृच्छत ।
किमिदं
हृदयोत्कम्पि
मनो
मम
विषीदति ॥ १० ॥
राज्ञो
दशरथस्यैतच्छ्रुत्वा
वाक्यं
महानृषिः ।
उवाच
मधुरां
वाणीं
"श्रूयतामस्य
यत्फलम् ॥ ११ ॥
उपस्थितं
भयं
घोरं
दिव्यं
पक्षिमुखाच्च्युतम् ।
मृगाः
प्रशमयन्त्येते
सन्तापस्त्यज्यतामयम् ॥ १२ ॥
तेषां
संवदतां
तत्र
वायुः
प्रादुर्बभूव
ह ।
कम्पयन्
पृथिवीं
सर्वां
पातयंश्च
द्रुमान्
शुभान् ॥ १३ ॥
तमसा
संवृतः
सूर्यः
सर्वा
न
प्रबभुर्दिशः ।
भस्मना
चावृतं
सर्वं
सम्मूढमिव
तद्बलम् ॥ १४ ॥
वसिष्ठश्चर्षयश्चान्ये
राजा
च
ससुतस्तदा ।
ससञ्ज्ञा
इव
तत्रासन्
सर्वमन्यद्विचेतनम् ॥ १५ ॥
तस्मिंस्तमसि
घोरे
तु
भस्मच्छन्नेव
सा
चमूः ।
ददर्श
भीमसङ्काशं
जटामण्डलधारिणम् ॥ १६ ॥
भार्गवं
जामदग्न्यं
तं
राजराजविमर्दिनम् ।
कैलासमिव
दुर्द्धर्षं
कालाग्निमिव
दुस्सहम् ॥ १७ ॥
स्कन्धे
चासाद्य
परशुं
धनुर्विद्युद्गणोपमम् ।
प्रगृह्य
शरमुख्यं
च
त्रिपुरघ्नं
यथा
शिवम् ॥ १८ ॥
तं
दृष्ट्वा
भीमसङ्काशं
ज्वलन्तमिव
पावकम् ।
वसिष्ठप्रमुखा
विप्रा
जपहोमपरायणाः ॥ १९ ॥
सङ्गता
मुनयः
सर्वे
सञ्जजल्पुरथो
मिथः ।
कच्चित्पितृवधामर्षी
क्षत्रं
नोत्सादयिष्यति ॥ २० ॥
पूर्वं
क्षत्रवधं
कृत्वा
गतमन्युर्गतज्वरः ।
क्षत्रस्योत्सादनं
भूयो
न
खल्वस्य
चिकीर्षितम् ॥ २१ ॥
एवमुक्त्वार्घ्यमादाय
भार्गवं
भीमदर्शनम् ।
ऋषयो
राम
रामेति
वचो
मधुरमब्रुवन् ॥ २२ ॥
प्रतिगृह्य
तु
तां
पूजामृषिदत्तां
प्रतापवान् ।
रामं
दाशरथिं
रामो
जामदग्न्योऽभ्यभाषत ॥ २३ ॥