राम
दाशरथे
राम
वीर्यं
ते
श्रूयतेऽद्भुतम् ।
धनुषो
भेदनं
चैव
निखिलेन
मया
श्रुतम् ॥ १ ॥
तदद्भुतमचिन्त्यं
च
भेदनं
धनुषस्त्वया ।
तच्छ्रुत्वाहमनुप्राप्तो
धनुर्गृह्य
परं
शुभम् ॥ २ ॥
तदिदं
घोरसङ्काशं
जामदग्न्यं
महद्धनुः ।
पूरयस्व
शरेणैव
स्वबलं
दर्शयस्व
च ॥ ३ ॥
तदहं
ते
बलं
दृष्ट्वा
धनुषोऽस्य
प्रपूरणे ।
द्वन्द्वयुद्धं
प्रदास्यामि
वीर्यश्लाघ्यस्य
राघव ॥ ४ ॥
तस्य
तद्वचनं
श्रुत्वा
राजा
दशरथस्तदा ।
विषण्णवदनो
दीनः
प्राञ्जलिर्वाक्यमब्रवीत् ॥ ५ ॥
क्षत्ररोषात्
प्रशान्तस्त्वं
ब्राह्मणश्च
महायशाः ।
बालानां
मम
पुत्राणामभयं
दातुमर्हसि ॥ ६ ॥
भार्गवाणां
कुले
जातः
स्वाध्यायव्रतशालिनाम् ।
सहस्राक्षे
प्रतिज्ञाय
शस्त्रं
निक्षिप्तवानसि ॥ ७ ॥
स
त्वं
धर्मपरो
भूत्वा
काश्यपाय
वसुन्धराम् ।
दत्त्वा
वनमुपागम्य
महेन्द्रकृतकेतनः ॥ ८ ॥
मम
सर्वविनाशाय
सम्प्राप्तस्त्वं
महामुने ।
न
चैकस्मिन्
हते
रामे
सर्वे
जीवामहे
वयम् ॥ ९ ॥
ब्रुवत्येवं
दशरथे
जामदग्न्यः
प्रतापवान् ।
अनादृत्यैव
तद्वाक्यं
राममेवाभ्यभाषत ॥ १० ॥
इमे
द्वे
धनुषी
श्रेष्ठे
दिव्ये
लोकाभिविश्रुते ।
दृढे
बलवती
मुख्ये
सुकृते
विश्वकर्मणा ॥ ११ ॥
अतिसृष्टं
सुरैरेकं
त्र्यम्बकाय
युयुत्सवे ।
त्रिपुरघ्नं
नरश्रेष्ठ
भग्नं
काकुत्स्थ
यत्त्वया ॥ १२ ॥
तदिदं
वैष्णवं
राम
धनुः
परमभास्वरम् ।
समानसारं
काकुत्स्थ
रौद्रेण
धनुषा
त्विदम् ॥ १३ ॥
तदा
तु
देवताः
सर्वाः
पृच्छन्ति
स्म
पितामहम् ।
शितिकण्ठस्य
विष्णोश्च
बलाबलनिरीक्षया ॥ १४ ॥
अभिप्रायं
तु
विज्ञाय
देवतानां
पितामहः ।
विरोधं
जनयामास
तयोः
सत्यवतां
वरः ॥ १५ ॥
विरोधे
च
महद्युद्धमभवद्रोमहर्षणम् ।
शितिकण्ठस्य
विष्णोश्च
परस्परजिगीषिणोः ॥ १६ ॥
तदा
तु
जृम्भितं
शैवं
धनुर्भीमपराक्रमम् ।
हुङ्कारेण
महादेवः
स्तम्भितोऽथ
त्रिलोचनः ॥ १७ ॥
देवैस्तदा
समागम्य
सर्षिसङ्घैः
सचारणैः ।
याचितौ
प्रशमं
तत्र
जग्मतुस्तौ
सुरोत्तमौ ॥ १८ ॥
जृम्भितं
तद्धनुर्दृष्ट्वा
शैवं
विष्णुपराक्रमैः ।
अधिकं
मेनिरे
विष्णुं
देवाः
सर्षिगणास्तदा ॥ १९ ॥
धनू
रुद्रस्तु
सङ्क्रुद्धो
विदेहेषु
महायशाः ।
देवरातस्य
राजर्षेर्ददौ
हस्ते
ससायकम् ॥ २० ॥
इदं
च
वैष्णवं
राम
धनुः
परपुरञ्जयम् ।
ऋचीके
भार्गवे
प्रादाद्विष्णुः
सन्न्यासमुत्तमम् ॥ २१ ॥
ऋचीकस्तु
महातेजाः
पुत्रस्याप्रतिकर्मणः ।
पितुर्मम
ददौ
दिव्यं
जमदग्नेर्महात्मनः ॥ २२ ॥
न्यस्तशस्त्रे
पितरि
मे
तपोबलसमन्विते ।
अर्जुनो
विदधे
मृत्युं
प्राकृतां
बुद्धिमास्थितः ॥ २३ ॥
वधमप्रतिरूपं
तु
पितुः
श्रुत्वा
सुदारुणम् ।
क्षत्रमुत्सादयन्
रोषाज्जातं
जातमनेकशः ॥ २४ ॥
पृथिवीं
चाखिलां
प्राप्य
काश्यपाय
महात्मने ।
यज्ञस्यान्ते
तदा
राम
दक्षिणां
पुण्यकर्मणे ॥ २५ ॥
दत्त्वा
महेन्द्रनिलयस्तपोबलसमन्वितः ।
श्रुतवान्
धनुषो
भेदं
ततोऽहं
द्रुतमागतः ॥ २६ ॥
तदिदं
वैष्णवं
राम
पितृपैतामहं
महत् ।
क्षत्रधर्मं
पुरस्कृत्य
गृह्णीष्व
धनुरुत्तमम् ॥ २७ ॥
योजयस्व
धनुश्श्रेष्ठे
शरं
परपुरञ्जयम् ।
यदि
शक्नोषि
काकुत्स्थ
द्वन्द्वं
दास्यामि
ते
ततः ॥ २८ ॥