श्रुत्वा
तज्जामदग्न्यस्य
वाक्यं
दाशरथिस्तदा ।
गौरवाद्यन्त्रितकथः
पितू
राममथाब्रवीत् ॥ १ ॥
श्रुतवानस्मि
यत्कर्म
कृतवानसि
भार्गव ।
अनुरुन्ध्यामहे
ब्रह्मन्
पितुरानृण्यमास्थितः ॥ २ ॥
वीर्यहीनमिवाशक्तं
क्षत्रधर्मेण
भार्गव ।
अवजानासि
मे
तेजः
पश्य
मेऽद्य
पराक्रमम् ॥ ३ ॥
इत्युक्त्वा
राघवः
क्रुद्धो
भार्गवस्य
शरासनम् ।
शरं
च
प्रति
जग्राह
हस्ताल्लघुपराक्रमः ॥ ४ ॥
आरोप्य
स
धनू
रामश्शरं
सज्यं
चकार
ह ।
जामदग्न्यं
ततो
रामं
रामः
क्रुद्धोऽब्रवीद्वचः ॥ ५ ॥
ब्राह्मणोऽसीति
पूज्यो
मे
विश्वामित्रकृतेन
च ।
तस्माच्छक्तो
न
ते
राम
मोक्तुं
प्राणहरं
शरम् ॥ ६ ॥
इमां
पादगतिं
राम
तपोबलसमार्जितान् ।
लोकानप्रतिमान्
वा
ते
हनिष्यामि
यदिच्छसि ॥ ७ ॥
न
ह्ययं
वैष्णवो
दिव्यः
शरः
परपुरञ्जयः ।
मोघः
पतति
वीर्येण
बलदर्पविनाशनः ॥ ८ ॥
वरायुधधरं
रामं
द्रष्टुं
सर्षिगणाः
सुराः ।
पितामहं
पुरस्कृत्य
समेतास्तत्र
सङ्घशः ॥ ९ ॥
गन्धर्वाप्सरसश्चैव
सिद्धचारणकिन्नराः ।
यक्षराक्षसनागाश्च
तद्द्रष्टुं
महदद्भुतम् ॥ १० ॥
जडीकृते
तदा
लोके
रामे
वरधनुर्द्धरे ।
निर्वीर्यो
जामदग्न्योऽसौ
रामो
राममुदैक्षत ॥ ११ ॥
तेजोऽभिहतवीर्यत्वाज्जामदग्न्यो
जडीकृतः ।
रामं
कमलपत्राक्षं
मन्दं
मन्दमुवाच
ह ॥ १२ ॥
काश्यपाय
मया
दत्ता
यदा
पूर्वं
वसुन्धरा ।
विषये
मे
न
वस्तव्यमिति
मां
काश्यपोऽब्रवीत् ॥ १३ ॥
सोऽहं
गुरुवचः
कुर्वन्
पृथिव्यां
न
वसे
निशाम् ।
कृता
प्रतिज्ञा
काकुत्स्थ
कृता
भूः
काश्यपस्य
हि ॥ १४ ॥
तदिमां
त्वं
गतिं
वीर
हन्तुं
नार्हसि
राघव ।
मनोजवं
गमिष्यामि
महेन्द्रं
पर्वतोत्तमम् ॥ १५ ॥
लोकास्त्वप्रतिमा
राम
निर्जितास्तपसा
मया ।
जहि
तान्
शरमुख्येन
माभूत्कालस्य
पर्ययः ॥ १६ ॥
अक्षयं
मधुहन्तारं
जानामि
त्वां
सुरोत्तमम् ।
धनुषोऽस्य
परामर्शात्
स्वस्ति
तेऽस्तु
परन्तप ॥ १७ ॥
एते
सुरगणाः
सर्वे
निरीक्षन्ते
समागताः ।
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे ॥ १८ ॥
न
चेयं
मम
काकुत्स्थ
व्रीडा
भवितुमर्हति ।
त्वया
त्रैलोक्यनाथेन
यदहं
विमुखीकृतः ॥ १९ ॥
शरमप्रतिमं
राम
मोक्तुमर्हसि
सुव्रत ।
शरमोक्षे
गमिष्यामि
महेन्द्रं
पर्वतोत्तमम् ॥ २० ॥
तथा
ब्रुवति
रामे
तु
जामदग्न्ये
प्रतापवान् ।
रामो
दाशरथिः
श्रीमांश्चिक्षेप
शरमुत्तमम् ॥ २१ ॥
स
हतान्
दृश्य
रामेण
स्वान्
लोकान्
तपसार्जितान् ।
जामदग्न्यो
जगामाशु
महेन्द्रं
पर्वतोत्तमम् ॥ २२ ॥
ततो
वितिमिराः
सर्वा
दिशश्चोपदिशस्तथा ।
सुराः
सर्षिगणा
रामं
प्रशशंसुरुदायुधम् ॥ २३ ॥
रामं
दाशरथिं
रामो
जामदग्न्यः
प्रशस्य
च ।
ततः
प्रदक्षिणं
कृत्वा
जगामात्मगतिं
प्रभुः ॥ २४ ॥