गते
रामे
प्रशान्तात्मा
रामो
दाशरथिर्धनुः ।
वरुणायाप्रमेयाय
ददौ
हस्ते
ससायकम् ॥ १ ॥
अभिवाद्य
ततो
रामो
वसिष्ठप्रमुखानृषीन् ।
पितरं
विह्वलं
दृष्ट्वा
प्रोवाच
रघुनन्दनः ॥ २ ॥
अयोध्याभिमुखी
सेना
त्वया
नाथेन
पालिता ।
रामस्य
वचनं
श्रुत्वा
राजा
दशरथः
सुतम् ॥ ३ ॥
बाहुभ्यां
सम्परिष्वज्य
मूर्ध्नि
चाघ्राय
राघवम् ।
गतो
राम
इति
श्रुत्वा
हृष्टः
प्रमुदितो
नृपः ॥ ४ ॥
पुनर्जातं
तदा
मेने
पुत्रमात्मानमेव
च ।
चोदयामास
तां
सेनां
जगामाशु
ततः
पुरीम् ॥ ५ ॥
पताकाध्वजिनीं
रम्यां
तूर्योद्घुष्टनिनादिताम् ।
सिक्तराजपथां
रम्यां
प्रकीर्णकुसुमोत्कराम् ॥ ६ ॥
राजप्रवेशसुमुखैः
पौरैर्मङ्गलवादिभिः ।
सम्पूर्णां
प्राविशद्राजा
जनौघैः
समलङ्कृताम् ॥ ७ ॥
पौरैः
प्रत्युद्गतो
दूरं
द्विजैश्च
पुरवासिभिः ।
पुत्रैरनुगतः
श्रीमान्
श्रीमद्भिश्च
महायशाः ॥ ८ ॥
प्रविवेश
गृहं
राजा
हिमवत्सदृशं
पुनः ।
ननन्द
सजनो
राजा
गृहे
कामैः
सुपूजितः ॥ ९ ॥
कौसल्या
च
सुमित्रा
च
कैकयी
च
सुमध्यमा ।
वधूप्रतिग्रहे
युक्ता
याश्चान्या
राजयोषितः ॥ १० ॥
ततः
सीतां
महाभागामूर्मिलां
च
यशस्विनीम् ।
कुशध्वजसुते
चोभे
जगृहुर्नृपपत्नयः ॥ ११ ॥
मङ्गलालापनैश्चैव
शोभिताः
क्षौमवाससः ।
देवतायतनान्याशु
सर्वास्ताः
प्रत्यपूजयन् ॥ १२ ॥
अभिवाद्याभिवाद्यांश्च
सर्वा
राजसुतास्तदा ।
रेमिरे
मुदिताः
सर्वा
भर्तृभिः
सहिता
रहः ॥ १३ ॥
कृतदाराः
कृतास्त्राश्च
सधनाः
ससुहृज्जनाः ।
शुश्रूषमाणाः
पितरं
वर्तयन्ति
नरर्षभाः ॥ १४ ॥
कस्यचित्त्वथ
कालस्य
राजा
दशरथः
सुतम् ।
भरतं
कैकयीपुत्रमब्रवीद्रघुनन्दनः ॥ १५ ॥
अयं
केकयराजस्य
पुत्रो
वसति
पुत्रक ।
त्वां
नेतुमागतो
वीर
युधाजिन्मातुलस्तव ॥ १६ ॥
श्रुत्वा
दशरथस्यैतद्भरतः
कैकयीसुतः ।
गमनायाभिचक्राम
शत्रुघ्नसहितस्तदा ॥ १७ ॥
आपृच्छ्य
पितरं
शूरो
रामं
चाक्लिष्टकारिणम् ।
मातॄश्चापि
नरश्रेष्ठः
शत्रुघ्नसहितो
ययौ ॥ १८ ॥
गते
च
भरते
रामो
लक्ष्मणश्च
महाबलः ।
पितरं
देवसङ्काशं
पूजयामासतुस्तदा ॥ १९ ॥
पितुराज्ञां
पुरस्कृत्य
पौरकार्याणि
सर्वशः ।
चकार
रामो
धर्मात्मा
प्रियाणि
च
हितानि
च ॥ २० ॥
मातृभ्यो
मातृकार्याणि
कृत्वा
परमयन्त्रितः ।
गुरूणां
गुरुकार्याणि
काले
कालेऽन्ववैक्षत ॥ २१ ॥
एवं
दशरथः
प्रीतो
ब्राह्मणा
नैगमास्तदा ।
रामस्य
शीलवृत्तेन
सर्वे
विषयवासिनः ॥ २२ ॥
तेषामतियशा
लोके
रामः
सत्यपराक्रमः ।
स्वयम्भूरिव
भूतानां
बभूव
गुणवत्तरः ॥ २३ ॥
रामस्तु
सीतया
सार्द्धं
विजहार
बहूनृतून् ।
मनस्वी
तद्गतस्तस्या
नित्यं
हृदि
समर्पितः ॥ २४ ॥
प्रिया
तु
सीता
रामस्य
दाराः
पितृकृता
इति ।
गुणाद्रूपगुणाच्चापि
प्रीतिर्भूयोऽभ्यवर्द्धत ॥ २५ ॥
तस्याश्च
भर्ता
द्विगुणं
हृदये
परिवर्तते ।
अन्तर्जातमपि
व्यक्तमाख्याति
हृदयं
हृदा ॥ २६ ॥
तस्य
भूयो
विशेषेण
मैथिली
जनकात्मजा ।
देवताभिः
समा
रूपे
सीता
श्रीरिव
रूपिणी ॥ २७ ॥
तया
स
राजर्षिसुतोऽभिरामया
समेयिवानुत्तमराजकन्यया ।
अतीव
रामः
शुशुभेऽतिकामया
विभुः
श्रिया
विष्णुरिवामरेश्वरः ॥ २८ ॥