गच्छता
मातुलकुलं
भरतेन
तदानघः ।
शत्रुघ्नो
नित्यशत्रुघ्नो
नीतः
प्रीतिपुरस्कृतः ॥ १ ॥
स
तत्र
न्यवसद्भ्रात्रा
सह
सत्कारसत्कृतः ।
मातुलेनाश्वपतिना
पुत्रस्नेहेन
लालितः ॥ २ ॥
तत्रापि
निवसन्तौ
तौ
तर्प्यमाणौ
च
कामतः ।
भ्रातरौ
स्मरतां
वीरौ
वृद्धं
दशरथं
नृपम् ॥ ३ ॥
राजापि
तौ
महातेजाः
सस्मार
प्रोषितौ
सुतौ ।
उभौ
भरतशत्रुघ्नौ
महेन्द्रवरुणोपमौ ॥ ४ ॥
सर्व
एव
तु
तस्येष्टाश्चत्वारः
पुरुषर्षभाः ।
स्वशरीराद्विनिर्वृत्ताश्चत्वार
इव
बाहवः ॥ ५ ॥
तेषामपि
महातेजा
रामो
रतिकरः
पितुः ।
स्वयम्भूरिव
भूतानां
बभूव
गुणवत्तरः ॥ ६ ॥
स
हि
देवैरुदीर्णस्य
रावणस्य
वधार्थिभिः ।
अर्थितो
मानुषे
लोके
जज्ञे
विष्णुः
सनातनः ॥ ७ ॥
कौसल्या
शुशुभे
तेन
पुत्रेणामिततेजसा ।
यथा
वरेण
देवानामदितिर्वज्रपाणिना ॥ ८ ॥
स
हि
रूपोपपन्नश्च
वीर्य्यवाननसूयकः ।
भूमावनुपमः
सूनुर्गुणैर्दशरथोपमः ॥ ९ ॥
स
तु
नित्यं
प्रशान्तात्मा
मृदुपूर्वं
प्रभाषते ।
उच्यमानोऽपि
परुषं
नोत्तरं
प्रतिपद्यते ॥ १० ॥
कथञ्चिदुपकारेण
कृतेनैकेन
तुष्यति ।
न
स्मरत्यपकाराणां
शतमप्यात्मवत्तया ॥ ११ ॥
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च
सज्जनैः ।
कथयन्नास्त
वै
नित्यमस्त्रयोग्यान्तरेष्वपि ॥ १२ ॥
बुद्धिमान्
मधुराभाषी
पूर्वभाषी
प्रियम्वदः ।
वीर्यवान्न
च
वीर्येण
महता
स्वेन
विस्मितः ॥ १३ ॥
न
चानृतकथो
विद्वान्
वृद्धानां
प्रतिपूजकः ।
अनुरक्तः
प्रजाभिश्च
प्रजाश्चाप्यनुरञ्जते ॥ १४ ॥
सानुक्रोशो
जितक्रोधो
ब्राह्मणप्रतिपूजकः ।
दीनानुकम्पी
धर्मज्ञो
नित्यं
प्रग्रहवान्
शुचिः ॥ १५ ॥
कुलोचितमतिः
क्षात्रं
धर्मं
स्वं
बहु
मन्यते ।
मन्यते
परया
कीर्त्या
महत्
स्वर्गफलं
ततः ॥ १६ ॥
नाश्रेयसि
रतो
विद्वान्न
विरुद्धकथारुचिः ।
उत्तरोत्तरयुक्तौ
च
वक्ता
वाचस्पतिर्यथा ॥ १७ ॥
अरोगस्तरुणो
वाग्ग्मी
वपुष्मान्
देशकालवित् ।
लोके
पुरुषसारज्ञस्साधुरेको
विनिर्मितः ॥ १८ ॥
स
तु
श्रेष्ठैर्गुणैर्युक्तः
प्रजानां
पार्थिवात्मजः ।
बहिश्चरः
इव
प्राणो
बभूव
गुणतः
प्रियः ॥ १९ ॥
सम्यग्विद्याव्रतस्नातो
यथावत्साङ्गवेदवित् ।
इष्वस्त्रे
च
पितुः
श्रेष्ठो
बभूव
भरताग्रजः ॥ २० ॥
कल्याणाभिजनः
साधुरदीनः
सत्यवागृजुः ।
वृद्धैरभिविनीतश्च
द्विजैर्धर्मार्थदर्शिभिः ॥ २१ ॥
धर्मकामार्थतत्त्वज्ञः
स्मृतिमान्
प्रतिभानवान् ।
लौकिके
समयाचारे
कृतकल्पो
विशारदः ॥ २२ ॥
निभृतः
संवृताकारो
गुप्तमन्त्रः
सहायवान् ।
अमोघक्रोधहर्षश्च
त्यागसंयमकालवित् ॥ २३ ॥
दृढभक्तिः
स्थिरप्रज्ञो
नासद्ग्राही
न
दुर्वचाः ।
निस्तन्द्रिरप्रमत्तश्च
स्वदोषपरदोषवित् ॥ २४ ॥
शास्त्रज्ञश्च
कृतज्ञश्च
पुरुषान्तरकोविदः ।
यः
प्रग्रहानुग्रहयोर्यथान्यायं
विचक्षणः ॥ २५ ॥
सत्सङ्ग्रहप्रग्रहणे
स्थानविन्निग्रहस्य
च ।
आयकर्मण्युपायज्ञः
सन्दृष्टव्ययकर्मवित् ॥ २६ ॥
श्रैष्ठ्यं
शास्त्रसमूहेषु
प्राप्तो
व्यामिश्रकेषु
च ।
अर्थधर्मौ
च
सङ्गृह्य
सुखतन्त्रो
न
चालसः ॥ २७ ॥
वैहारिकाणां
शिल्पानां
विज्ञातार्थविभागवित् ।
आरोहे
विनये
चैव
युक्तो
वारणवाजिनाम् ॥ २८ ॥
अभियाता
प्रहर्त्ता
च
सेनानयविशारदः ।
अप्रधृष्यश्च
सङ्ग्रामे
क्रुद्धैरपि
सुरासुरैः ॥ २९ ॥
अनसूयो
जितक्रोधो
न
दृप्तो
न
च
मत्सरी ।
न
चावमन्ता
भूतानां
न
च
कालवशानुगः ॥ ३० ॥
सम्मतस्त्रिषु
लोकेषु
वसुधायाः
क्षमागुणैः ।
बुद्ध्या
बृहस्पतेस्तुल्यो
वीर्येणापि
शचीपतेः ॥ ३१ ॥
तथा
सर्वप्रजाकान्तैः
प्रीतिसञ्जननैः
पितुः ।
गुणैर्विरुरुचे
रामो
दीप्तः
सूय
इवांशुभिः ॥ ३२ ॥
तमेवं
व्रतसम्पन्नमप्रधृष्यपराक्रमम् ।
लोकपालोपमं
नाथमकामयत
मेदिनी ॥ ३३ ॥
एतैस्तु
बहुभिर्युक्तं
गुणैरनुपमैः
सुतम् ।
दृष्ट्वा
दशरथो
राजा
चक्रे
चिन्तां
परन्तपः ॥ ३४ ॥
अथ
राज्ञो
बभूवैवं
वृद्धस्य
चिरजीविनः ।
प्रीतिरेषा
कथं
रामो
राजा
स्यान्मयि
जीवति ॥ ३५ ॥
एषा
ह्यस्य
परा
प्रीतिर्हृदि
संपरिवर्तते ।
कदा
नाम
सुतं
द्रक्ष्याम्यभिषिक्तमहं
प्रियम् ॥ ३६ ॥
वृद्धिकामो
हि
लोकस्य
सर्वभूतानुकम्पनः ।
मत्तः
प्रियतरो
लोके
पर्जन्य
इव
वृष्टिमान् ॥ ३७ ॥
यमशक्रसमो
वीर्ये
बृहस्पतिसमो
मतौ ।
महीधरसमो
धृत्यां
मत्तश्च
गुणवत्तरः ॥ ३८ ॥
महीमहमिमां
कृत्स्नामधितिष्ठन्तमात्मजम् ।
अनेन
वयसा
दृष्ट्वा
यथास्वर्गमवाप्नुयाम् ॥ ३९ ॥
इत्येतैर्विविदैस्तैस्तैरन्यपार्थिवदुर्लभैः ।
शिष्टैरपरिमेयैश्च
लोके
लोकोत्तरैर्गुणैः ॥ ४० ॥
तं
समीक्ष्य
महाराजो
युक्तं
समुदितैः
शुभैः ।
निश्चित्य
सचिवैः
सार्द्धं
युवराजममन्यत ॥ ४१ ॥
दिव्यन्तरिक्षे
भूमौ
च
घोरमुत्पातजं
भयम् ।
सञ्चचक्षे
च
मेधावी
शरीरे
चात्मनो
जराम् ॥ ४२ ॥
पूर्णचन्द्राननस्याथ
शोकापनुदमात्मनः ।
लोके
रामस्य
बुबुधे
संप्रियत्वं
महात्मनः ॥ ४३ ॥
आत्मनश्च
प्रजानां
च
श्रेयसे
च
प्रियेण
च ।
प्राप्तकालेन
धर्मात्मा
भक्त्या
त्वरितवान्नृपः ॥ ४४ ॥
नानानगरवास्तव्यान्
पृथग्जानपदानपि ।
समानिनाय
मेदन्याः
प्रधानान्
पृथिवीपतीन् ॥ ४५ ॥
न
तु
केकयराजानं
जनकं
वा
नराधिपः ।
त्वरया
चानयामास
पश्चात्तौ
श्रोष्यतः
प्रियम् ॥ ४६ ॥
तान्
वेश्म
नानाभरणैर्यथार्हं
प्रतिपूजितान् ।
ददर्शालङ्कृतो
राजा
प्रजापतिरिव
प्रजाः ॥ ४७ ॥
अथोपविष्टे
नृपतौ
तस्मिन्
परबलार्दने ।
ततः
प्रविविशुः
शेषा
राजानो
लोकसम्मताः ॥ ४८ ॥
अथ
राजवितीर्णेषु
विविधेष्वासनेषु
च ।
राजानमेवाभिमुखा
निषेदुर्नियता
नृपाः ॥ ४९ ॥
स
लब्धमानैर्विनयान्वितैर्नृपैः
पुरालयैर्जानपदैश्च
मानवैः ।
उपोपविष्टैर्नृपतिर्वृतो
बभौ
सहस्रचक्षुर्भगवानिवामरैः ॥ ५० ॥