तेषामञ्जलिपद्मानि
प्रगृहीतानि
सर्वशः ।
प्रतिगृह्याब्रवीद्राजा
तेभ्यः
प्रियहितं
वचः ॥ १ ॥
अहोस्मि
परमप्रीतः
प्रभावश्चातुलो
मम ।
यन्मे
ज्येष्ठं
प्रियं
पुत्रं
यौवराज्यस्थमिच्छथ ॥ २ ॥
इति
प्रत्यर्च्य
तान्
राजा
ब्राह्मणानिदमब्रवीत् ।
वसिष्ठं
वामदेवं
च
तेषामेवोपश्रृण्वताम् ॥ ३ ॥
चैत्रः
श्रीमानयं
मासः
पुण्यः
पुष्पितकाननः ।
यौवराज्याय
रामस्य
सर्वमेवोपकल्प्यताम् ॥ ४ ॥
शनैस्तस्मिन्
प्रशान्ते
च
जनघोषे
जनाधिपः ।
वसिष्ठं
मुनिशार्दूलं
राजा
वचनमब्रवीत् ॥ ५ ॥
अभिषेकाय
रामस्य
यत्कर्म
सपरिच्छदम् ।
तदद्य
भगवन्
सर्वमाज्ञापयितुमर्हसि ॥ ६ ॥
तच्छ्रुत्वा
भूमिपालस्य
वसिष्ठो
द्विजसत्तमः ।
आदिदेशाग्रतो
राज्ञः
स्थितान्
युक्तान्
कृताञ्जलीन् ॥ ७ ॥
सुवर्णादीनि
रत्नानि
बलीन्
सर्वौषधीरपि ।
शुक्लमाल्यांश्च
लाजांश्च
पृथक्
च
मधुसर्पिषी ॥ ८ ॥
अहतानि
च
वासांसि
रथं
सर्वायुधान्यपि ।
चतुरङ्गबलं
चैव
गजं
च
शुभलक्षणम् ॥ ९ ॥
चामरव्यजने
श्वेते
ध्वजं
छत्रं
च
पाण्डरम् ।
शतं
च
शातकुम्भानां
कुम्भानामग्निवर्चसाम् ॥ १० ॥
हिरण्यशृङ्गमृषभं
समग्रं
व्याघ्रचर्म
च ।
उपस्थापयत
प्रातरग्न्यागारं
महीपतेः ॥ ११ ॥
यच्चान्यत्किञ्चिदेष्टव्यं
तत्सर्वमुपकल्प्यताम् ।
अन्तःपुरस्य
द्वाराणि
सर्वस्य
नगरस्य
च ॥ १२ ॥
चन्दनस्रग्भिरर्च्यन्तां
धूपैश्च
घ्राणहारिभिः ।
प्रशस्तमन्नं
गुणवद्दधिक्षीरोपसेचनम् ॥ १३ ॥
द्विजानां
शतसाहस्रे
यत्प्रकाममलं
भवेत् ।
सत्कृत्य
द्विजमुख्यानां
श्वः
प्रभाते
प्रदीयताम् ॥ १४ ॥
घृतं
दधि
च
लाजाश्च
दक्षिणाश्चापि
पुष्कलाः ।
ब्राह्मणाश्च
निमन्त्र्यन्तां
कल्प्यन्तामासनानि
च ॥ १५ ॥
आबध्यन्तां
पताकाश्च
राजमार्गश्च
सिच्यताम् ।
सर्वे
च
तालावचरा
गणिकाश्च
स्वलङ्कृताः ॥ १६ ॥
कक्ष्यां
द्वितीयामासाद्य
तिष्ठन्तु
नृपवेश्मनः ।
देवायतनचैत्येषु
सान्नभक्षाः
सदक्षिणाः ॥ १७ ॥
उपस्थापयितव्याः
स्युर्माल्ययोग्याः
पृथक्पृथक् ।
दीर्घासिबद्धा
योधाश्च
सन्नद्धा
मृष्टवाससः ॥ १८ ॥
महाराजाङ्गणं
सर्वे
प्रविशन्तु
महोदयम् ।
एवं
व्यादिश्य
विप्रौ
तौ
क्रियास्तत्र
सुनिष्ठितौ ॥ १९ ॥
चक्रतुश्चैव
यच्छेषं
पार्थिवाय
निवेद्य
च ।
कृतमित्येव
चाब्रूतामभिगम्य
जगत्पतिम् ॥ २० ॥
यथोक्तवचनं
प्रीतौ
हर्षयुक्तौ
द्विजर्षभौ ।
ततः
सुमन्त्रं
द्युतिमान्
राजा
वचनमब्रवीत् ॥ २१ ॥
रामः
कृतात्मा
भवता
शीघ्रमानीयतामिति ।
स
तथेति
प्रतिज्ञाय
सुमन्त्रो
राजशासनात् ॥ २२ ॥
रामं
तत्रानयाञ्चक्रे
रथेन
रथिनां
वरम् ।
अथ
तत्र
समासीनास्तदा
दशरथं
नृपम् ॥ २३ ॥
प्राच्योदीच्याः
प्रतीच्याश्च
दाक्षिणात्याश्च
भूमिपाः ।
म्लेच्छाचार्याश्च
ये
चान्ये
वनशैलान्तवासिनः ॥ २४ ॥
उपासाञ्चक्रिरे
सर्वे
तं
देवा
इव
वासवम् ।
तेषां
मध्ये
स
राजर्षिर्मरुतामिव
वासवः ॥ २५ ॥
प्रासादस्थो
रथगतं
ददर्शायान्तमात्मजम् ।
गन्धर्वराजप्रतिमं
लोके
विख्यातपौरुषम् ॥ २६ ॥
दीर्घबाहुं
महासत्त्वं
मत्तमातङ्गगामिनम् ।
चन्द्रकान्ताननं
राममतीव
प्रियदर्शनम् ॥ २७ ॥
रूपौदार्यगुणैः
पुंसां
दृष्टिचित्तापहारिणम् ।
घर्माभितप्ताः
पर्जन्यं
ह्लादयन्तमिव
प्रजाः ॥ २८ ॥
न
ततर्प
समायान्तं
पश्यमानो
नराधिपः ।
अवतार्य
सुमन्त्रस्तं
राघवं
स्यन्दनोत्तमात् ॥ २९ ॥
पितुः
समीपं
गच्छन्तं
प्राञ्जलिः
पृष्ठतोऽन्वगात् ।
स
तं
कैलासशृङ्गाभं
प्रासादं
नरपुङ्गवः ॥ ३० ॥
आरुरोह
नृपं
द्रष्टुं
सह
सूतेन
राघवः ।
स
प्राञ्जलिरभिप्रेत्य
प्रणतः
पितुरन्तिके ॥ ३१ ॥
नाम
स्वं
श्रावयन्
रामो
ववन्दे
चरणौ
पितुः ।
तं
दृष्ट्वा
प्रणतं
पार्श्वे
कृताञ्जलिपुटं
नृपः ॥ ३२ ॥
गृह्याञ्जलौ
समाकृष्य
सस्वजे
प्रियमात्मजम् ।
तस्मै
चाभ्युदितं
सम्यङ्मणिकाञ्चनभूषितम् ॥ ३३ ॥
दिदेश
राजा
रुचिरं
रामाय
परमासनम् ।
तदासनवरं
प्राप्य
व्यदीपयत
राघवः ॥ ३४ ॥
स्वयैव
प्रभया
मेरुमुदये
विमलो
रविः ।
तेन
विभ्राजता
तत्र
सा
सभाभिव्यरोचत ॥ ३५ ॥
विमलग्रहनक्षत्र
शारदी
द्यौरिवेन्दुना ।
तं
पश्यमानो
नृपतिस्तुतोष
प्रियमात्मजम् ॥ ३६ ॥
अलङ्कृतमिवात्मानमादर्शतलसंस्थितम् ।
स
तं
सस्मितमाभाष्य
पुत्रं
पुत्रवतां
वरः ॥ ३७ ॥
उवाचेदं
वचो
राजा
देवेन्द्रमिव
काश्यपः ।
ज्येष्ठायामसि
मे
पत्न्यां
सदृश्यां
सदृशः
सुतः ॥ ३८ ॥
उत्पन्नस्त्वं
गुणश्रेष्ठो
मम
रामात्मजः
प्रियः ।
यतस्त्वया
प्रजाश्चेमाः
स्वगुणैरनुरञ्जिताः ॥ ३९ ॥
तस्मात्त्वं
पुष्ययोगेन
यौवराज्यमवाप्नुहि ।
कामतस्त्वं
प्रकृत्यैव
विनीतो
गुणवानसि ॥ ४० ॥
गुणवत्यपि
तु
स्नेहात्पुत्र
वक्ष्यामि
ते
हितम् ।
भूयो
विनयमास्थाय
भव
नित्यं
जितेन्द्रियः ॥ ४१ ॥
कामक्रोधसमुत्थानि
त्यजेथा
व्यसनानि
च ।
परोक्षया
वर्त्तमानो
वृत्त्या
प्रत्यक्षया
तथा ॥ ४२ ॥
अमात्य
प्रभृतीः
सर्वाः
प्रकृतीश्चानुरञ्जय ।
कोष्ठागारायुधागारैः
कृत्वा
सन्निचयान्
बहून् ॥ ४३ ॥
तुष्टानुरक्तप्रकृतिर्यः
पालयति
मेदिनीम् ।
तस्य
नन्दन्ति
मित्राणि
लब्ध्वामृतमिवामराः ॥ ४४ ॥
तस्मात्त्वमपि
चात्मानं
नियम्यैवं
समाचर ।
तच्छ्रुत्वा
सुहृदस्तस्य
रामस्य
प्रियकारिणः ॥ ४५ ॥
त्वरिताः
शीघ्रमभ्येत्य
कौसल्यायै
न्यवेदयन् ।
सा
हिरण्यं
च
गाश्चैव
रत्नानि
विविधानि
च ॥ ४६ ॥
व्यादिदेश
प्रियाख्येभ्यः
कौसल्या
प्रमदोत्तमा ।
अथाभिवाद्य
राजानं
रथमारुह्य
राघवः ॥ ४७ ॥
ययौ
स्वं
द्युतिमद्वेश्म
जनौधैः
प्रतिपूजितः ।
ते
चापि
पौरा
नृपतेर्वचस्तच्छ्रुत्वा
तदालाभमिवेष्टमाशु ॥ ४८ ॥
नरेन्द्रमामन्त्र्य
गृहाणि
गत्वा
देवान्
समानर्चुरभिप्रहृष्टाः ॥ ४९ ॥