सन्दिश्य
रामं
नृपतिः
श्वो
भाविन्यभिषेचने ।
पुरोहितं
समाहूय
वसिष्ठं
चेदमब्रवीत् ॥ १ ॥
गच्छोपवासं
काकुत्स्थं
कारयाद्य
तपोधन ।
श्रीयशोराज्यलाभाय
वध्वा
सह
यतव्रतम् ॥ २ ॥
तथेति
च
स
राजानमुक्त्वा
वेदविदां
वरः ।
स्वयं
वसिष्ठो
भगवान्
ययौ
रामनिवेशनम् ॥ ३ ॥
उपवासयितुं
रामं
मन्त्रवन्मन्त्रकोविदः ।
ब्राह्मं
रथवरं
युक्तमास्थाय
सुदृढव्रतः ॥ ४ ॥
स
रामभवनं
प्राप्य
पाण्डराभ्रघनप्रभम् ।
तिस्रः
कक्ष्या
रथेनैव
विवेश
मुनिसत्तमः ॥ ५ ॥
तमागतमृषिं
रामस्त्वनरन्निव
ससम्भ्रमः ।
मानयिष्यन्
समानार्हं
निश्चक्राम
निवेशनात् ॥ ६ ॥
अभ्येत्य
त्वरमाणश्च
रथाभ्याशं
मनीषिणः ।
ततोऽवतारयामास
परिगृह्य
रथात्स्वयम् ॥ ७ ॥
स
चैनं
प्रश्रितं
दृष्ट्वा
सम्भाष्याभिप्रसाद्य
च ।
प्रियार्हं
हर्षयन्
राममित्युवाच
पुरोहितः ॥ ८ ॥
प्रसन्नस्ते
पिता
राम
यौवराज्यमवाप्स्यसि ।
उपवासं
भवानद्य
करोतु
सह
सीतया ॥ ९ ॥
प्रातस्त्वामभिषेक्ता
हि
यौवराज्ये
नराधिपः ।
पिता
दशरथः
प्रीत्या
ययातिं
नहुषो
यथा ॥ १० ॥
इत्युक्त्वा
स
तदा
राममुपवासं
यतव्रतम् ।
मन्त्रवत्
कारयामास
वैदेह्या
सहितं
मुनिः ॥ ११ ॥
ततो
यथावद्रामेण
स
राज्ञो
गुरुरर्चितः ।
अभ्यनुज्ञाप्य
काकुत्स्थं
ययौ
रामनिवेशनात् ॥ १२ ॥
सुहृद्भिस्तत्र
रामोपि
सहासीनः
प्रियम्वदैः ।
सभाजितो
विवेशाथ
ताननुज्ञाप्य
सर्वशः ॥ १३ ॥
हृष्टनारीनरयुतं
रामवेश्म
तदा
बभौ ।
यथा
मत्त
द्विजगणं
प्रफुल्लनलिनं
सरः ॥ १४ ॥
स
राजभवनप्रख्यात्तस्माद्रामनिवेशनात् ।
निर्गत्य
ददृशे
मार्गं
वसिष्ठो
जनसंवृतम् ॥ १५ ॥
वृन्दवृन्दैरयोध्यायां
राजमार्गाः
समन्ततः ।
बभूवुरभिसम्बाधाः
कुतूहलजनैर्वृताः ॥ १६ ॥
जनवृन्दोर्मिसङ्घर्षहर्षस्वनवतस्तदा ।
बभूव
राजमार्गस्य
सागरस्येव
निस्वनः ॥ १७ ॥
सिक्तसंमृष्टरथ्या
हि
तदहर्वनमालिनी ।
आसीदयोध्यानगरी
समुच्छ्रितगृहध्वजा ॥ १८ ॥
तदा
ह्ययोध्यानिलयः
सस्त्रीबालाबलो
जनः ।
रामाभिषेकमाकाङ्क्षन्नाकाङ्क्षदुदयं
रवेः ॥ १९ ॥
प्रजालङ्कारभूतं
च
जनस्यानन्दवर्द्धनम् ।
उत्सुकोऽभूज्जनो
द्रष्टुं
तमयोध्यामहोत्सवम् ॥ २० ॥
एवं
तं
जनसम्बाधं
राजमार्गं
पुरोहितः ।
व्यूहन्निव
जनौघं
तं
शनै
राजकुलं
ययौ ॥ २१ ॥
शुभ्राभ्रशिखरप्रख्यं
प्रासादमधिरुह्य
सः ।
समीयाय
नरेन्द्रेण
शक्रेणेव
बृहस्पतिः ॥ २२ ॥
तमागतमभिप्रेक्ष्य
हित्वा
राजासनं
नृपः ।
पप्रच्छ
स
च
तस्मै
तत्
कृतमित्यभ्यवेदयत् ॥ २३ ॥
तेन
चैव
तदा
तुल्यं
सहासीनाः
सभासदः ।
आसनेभ्यः
समुत्तस्थुः
पूजयन्तः
पुरोहितम् ॥ २४ ॥
गुरुणा
त्वभ्यनुज्ञातो
मनुजौधं
विसृज्य
तम् ।
विवेशान्तःपुरं
राजा
सिंहो
गिरिगुहामिव ॥ २५ ॥
तदग्र्यरूपं
प्रमदागणाकुलं
महेन्द्रवेश्मप्रतिमं
निवेशनम् ।
विदीपयंश्चारु
विवेश
पार्थिवः
शशीव
तारागणसङ्कुलं
नभः ॥ २६ ॥