ज्ञातिदासी
यतोजाता
कैकेय्यास्तु
सहोषिता ।
प्रसादं
चन्द्रसङ्काशमारुरोह
यदृच्छया ॥ १ ॥
सिक्तराजपथां
रम्यां
प्रकीर्णकुसुमोत्कराम् ।
अयोध्यां
मन्थरा
तस्मात्प्रासादादन्ववैक्षत ॥ २ ॥
पताकाभिर्वरार्हाभिर्ध्वजैश्च
समलङ्कृताम् ।
वृतां
छन्दपथैश्चापि
शिरःस्नातजनैर्वृताम् ॥ ३ ॥
माल्यमोदकहस्तैश्च
द्विजेन्द्रैरभिनादिताम् ।
शुक्लदेवगृहद्वारां
सर्ववादित्रनिस्वनाम् ॥ ४ ॥
संप्रहृष्टजनाकीर्णां
ब्रह्मघोषोभिनादिताम् ।
प्रहृष्टवरहस्त्यश्वां
संप्रणर्दितगोवृषाम् ॥ ५ ॥
प्रहृष्टमुदितैः
पौरैरुच्छ्रितध्वजमालिनीम् ।
अयोध्यां
मन्थरा
दृष्ट्वा
परं
विस्मयमागता ॥ ६ ॥
प्रहर्षोत्फुल्लनयनां
पाण्डरक्षौमवासिनीम् ।
अविदूरे
स्थितां
दृष्ट्वा
धात्रीं
पप्रच्छ
मन्थरा ॥ ७ ॥
उत्तमेनाभिसंयुक्ता
हर्षेणार्थपरा
सती ।
राममाता
धनं
किं
नु
जनेभ्यः
सम्प्रयच्छति ॥ ८ ॥
अतिमात्रप्रहर्षोऽयं
किं
जनस्य
च
शंस
मे ।
कारयिष्यति
किं
वापि
संप्रहृष्टो
महीपतिः ॥ ९ ॥
विदीर्यमाणा
हर्षेण
धात्री
तु
परया
मुदा ।
आचचक्षेऽथ
कुब्जायै
भूयसीं
राघवश्रियम् ॥ १० ॥
श्वः
पुष्येण
जितक्रोधं
यौवराज्येन
राघवम् ।
राजा
दशरथो
राममभिषेचयिताऽनघम् ॥ ११ ॥
धात्र्यास्तु
वचनं
श्रुत्वा
कुब्जाक्षिप्रममर्षिता ।
कैलासशिखराकारात्
प्रासादादवरोहत ॥ १२ ॥
सा
दह्यमाना
कोपेन
मन्थरा
पापदर्शिनी ।
शयानामेत्य
कैकेयीमिदं
वचनमब्रवीत् ॥ १३ ॥
उत्तिष्ठ
मूढे
किं
शेषे
भयं
त्वामभिवर्त्तते ।
उपप्लुतमघौघेन
किमात्मानं
न
बुध्यसे ॥ १४ ॥
अनिष्टे
सुभगाकारे
सौभाग्येन
विकत्थसे ।
चलं
हि
तव
सौभाग्यं
नद्याः
स्रोत
इवोष्णगे ॥ १५ ॥
एवमुक्ता
तु
कैकेयी
रुष्टया
परुषं
वचः ।
कुब्जया
पापदर्शिन्या
विषादमगमत्परम् ॥ १६ ॥
कैकेयी
त्वब्रवीत्कुब्जां
कच्चित्
क्षेमं
न
मन्थरे ।
विषण्णवदनां
हि
त्वां
लक्षये
भृशदुःखिताम् ॥ १७ ॥
मन्थरा
तु
वचः
श्रुत्वा
कैकेय्या
मधुराक्षरम् ।
उवाच
क्रोधसंयुक्ता
वाक्यं
वाक्यविशारदा ॥ १८ ॥
सा
विषण्णतरा
भूत्वा
कुब्जा
तस्या
हितैषिणी ।
विषादयन्ती
प्रोवाच
भेदयन्ती
च
राघवम् ॥ १९ ॥
अक्षय्यं
सुमहद्देवि
प्रवृत्तं
त्वद्विनाशनम् ।
रामं
दशरथो
राजा
यौवराज्येऽभिषेक्ष्यति ॥ २० ॥
सास्म्यगाधे
भये
मग्ना
दुःखशोकसमन्विता ।
दह्यमानानलेनेव
त्वद्धितार्थमिहागता ॥ २१ ॥
तव
दुःखेन
कैकेयि
मम
दुःखं
महद्भवेत् ।
त्वद्वृद्धौ
मम
वृद्धिश्च
भवेदत्र
न
संशयः ॥ २२ ॥
नराधिपकुले
जाता
महिषी
त्वं
महीपतेः ।
उग्रत्वं
राजधर्माणां
कथं
देवि
न
बुध्यसे ॥ २३ ॥
धर्मवादी
शठो
भर्ता
श्लक्ष्णवादी
च
दारुणः ।
शुद्धभावेन
जानीषे
तेनैवमतिसन्धिता ॥ २४ ॥
उपस्थितं
प्रयुञ्जानस्त्वयि
सान्त्वमनर्थकम् ।
अर्थेनैवाद्य
ते
भर्त्ता
कौसल्यां
योजयिष्यति ॥ २५ ॥
अपवाह्य
स
दुष्टात्मा
भरतं
तव
बन्धुषु ।
काल्ये
स्थापयिता
रामं
राज्ये
निहतकण्टके ॥ २६ ॥
शत्रुः
पतिप्रवादेन
मात्रेव
हितकाम्यया ।
आशीविष
इवाङ्केन
बाले
परिहृतस्त्वया ॥ २७ ॥
यथा
हि
कुर्यात्
सर्पो
वा
शत्रुर्वा
प्रत्युपेक्षितः ।
राज्ञा
दशरथेनाद्य
सपुत्रा
त्वं
तथा
कृता ॥ २८ ॥
पापेनानृतसान्त्वेन
बाले
नित्यसुखोचिते ।
रामं
स्थापयता
राज्ये
सानुबन्धा
हता
ह्यसि ॥ २९ ॥
सा
प्राप्तकालं
कैकेयि
क्षिप्रं
कुरु
हितं
तव ।
त्रायस्व
पुत्रमात्मानं
मां
च
विस्मयदर्शने ॥ ३० ॥
मन्थराया
वचः
श्रुत्वा
शयाना
सा
शुभानना ।
उत्तस्थौ
हर्षसम्पूर्णा
चन्द्रलेखेव
शारदी ॥ ३१ ॥
अतीव
सा
तु
संहृष्टा
कैकेयी
विस्मयान्विता ।
एकमाभरणं
तस्यै
कुब्जायै
प्रददौ
शुभम् ॥ ३२ ॥
दत्त्वा
त्वाभरणं
तस्यै
कुब्जायै
प्रमदोत्तमा ।
कैकेयी
मन्थरां
दृष्ट्वा
पुनरेवाब्रवीदिदम् ॥ ३३ ॥
इदं
तु
मन्थरे
मह्यमाख्यासि
परमं
प्रियम् ।
एतन्मे
प्रियमाख्यातुः
किं
वा
भूयः
करोमि
ते ॥ ३४ ॥
रामे
वा
भरते
वाहं
विशेषं
नोपलक्षये ।
तस्मात्तुष्टास्मि
यद्राजा
रामं
राज्येऽभिषेक्ष्यति ॥ ३५ ॥
प्रियं
प्रियार्हे
सुवचं
वचो
वरम् ।
तथा
ह्यवोचस्त्वमतः
प्रियोत्तरं ॥ ३६ ॥
वरं
वरं
ते
प्रददामि
तं
वृणु ॥ ३७ ॥