मन्थरा
त्वभ्यसूयैनामुत्सृज्याभरणं
च
तत् ।
उवाचेदं
ततो
वाक्यं
कोपदुःखसमन्विता ॥ १ ॥
हर्षं
किमिदमस्थाने
कृतवत्यसि
बालिशे ।
शोकसागरमध्यस्थमात्मानं
नावबुध्यसे ॥ २ ॥
मनसा
प्रहसामि
त्वां
देवि
दुःखार्दिता
सती ।
यच्छोचितव्ये
हृष्टासि
प्राप्येदं
व्यसनं
महत् ॥ ३ ॥
शोचामि
दुर्मतित्वं
ते
का
हि
प्राज्ञा
प्रहर्षयेत् ।
अरेः
सपत्नीपुत्रस्य
वृद्धिं
मृत्यारिवागताम् ॥ ४ ॥
भरतादेव
रामस्य
राज्यसाधारणाद्भयम् ।
तद्विचिन्त्य
विषण्णास्मि
भयं
भीताद्धि
जायते ॥ ५ ॥
लक्ष्मणो
हि
महेष्वासो
रामं
सर्वात्मना
गतः ।
शत्रुघ्नश्चापि
भरतं
काकुत्स्थं
लक्ष्मणो
यथा ॥ ६ ॥
प्रत्यासन्नक्रमेणापि
भरतस्यैव
भामिनि ।
राज्यक्रमो
विप्रकृष्टस्तयोस्तावत्कनीयसोः ॥ ७ ॥
विदुषः
क्षत्त्रचारित्रे
प्राज्ञस्य
प्राप्तकारिणः ।
भयात्
प्रवेपे
रामस्य
चिन्तयन्ती
तवात्मजम् ॥ ८ ॥
सुभगा
खलु
कौसल्या
यस्याः
पुत्रोऽभिषेक्ष्यते ।
यौवराज्येन
महता
श्वः
पुष्येण
द्विजोत्तमैः ॥ ९ ॥
प्राप्तां
सुमहतीं
प्रीतिं
प्रतीतां
तां
हतद्विषम् ।
उपस्थास्यसि
कौसल्यां
दासीवत्त्वं
कृताञ्जलिः ॥ १० ॥
एवं
चेत्त्वं
सहास्माभिस्तस्याः
प्रेष्या
भविष्यसि ।
पुत्रश्च
तव
रामस्य
प्रेष्यभावं
गमिष्यति ॥ ११ ॥
हृष्टाः
खलु
भविष्यन्ति
रामस्य
परमाः
स्त्रियः ।
अप्रहृष्टा
भविष्यन्ति
स्नुषास्ते
भरतक्षये ॥ १२ ॥
तां
दृष्ट्वा
परमप्रीतां
ब्रुवन्तीं
मन्थरां
ततः ।
रामस्यैव
गुणान्
देवी
कैकेयी
प्रशशंस
ह ॥ १३ ॥
धर्मज्ञो
जुरुभिर्दान्तः
कृतज्ञः
सत्यवाक्छुचिः ।
रामो
राज्ञः
सुतो
ज्येष्ठो
यौवराज्यमतोऽर्हति ॥ १४ ॥
भ्रातॄन्
भृत्यांश्च
दीर्घायुः
पितृवत्पालयिष्यति ।
सन्तप्यसे
कथं
कुब्जे
श्रुत्वा
रामाभिषेचनम् ॥ १५ ॥
भरतश्चापि
रामस्य
ध्रुवं
वर्षशतात्परम् ।
पितृपैतामहं
राज्यमवाप्ता
पुरुषर्षभः ॥ १६ ॥
सा
त्वमभ्युदये
प्राप्ते
वर्तमाने
च
मन्थरे ।
भविष्यति
च
कल्याणे
किमर्थं
परितप्यसे ॥ १७ ॥
यथा
मे
भरतो
मान्यस्तथा
भूयोऽपि
राघवः ।
कौसल्यातोऽतिरिक्तं
च
सोऽनुशुश्रूषते
हि
माम् ॥ १८ ॥
राज्यं
यदि
हि
रामस्य
भरतस्यापि
तत्तथा ।
मन्यते
हि
यथात्मानं
तथा
भ्रातॄंस्तु
राघवः ॥ १९ ॥
कैकेय्या
वचनं
श्रुत्वा
मन्थरा
भृशदुःखिता ।
दीर्घमुष्णं
विनिश्वस्य
कैकेयीमिदमब्रवीत् ॥ २० ॥
अनर्थदर्शिनी
मौर्ख्यान्नात्मानमवबुध्यसे ।
शोकव्यसनविस्तीर्णे
मज्जन्ती
दुःखसागरे ॥ २१ ॥
भविता
राघवो
राजा
राघवस्यानु
यः
सुतः ।
राजवंशात्तु
कैकेयी
भरतः
परिहास्यते ॥ २२ ॥
न
हि
राज्ञः
सुताः
सर्वे
राज्ये
तिष्ठन्ति
भामिनि ।
स्थाप्यमानेषु
सर्वेषु
सुमहाननयो
भवेत् ॥ २३ ॥
तस्माज्ज्येष्ठे
हि
कैकेयि
राज्यतन्त्राणि
पार्थिवाः ।
स्थापयन्त्यनवद्याङ्गि
गुणवत्स्वितरेष्वपि ॥ २४ ॥
असावत्यन्तनिर्भग्नस्तव
पुत्रो
भविष्यति ।
अनाथवत्
सुखेभ्यश्च
राजवंशाच्च
वत्सले ॥ २५ ॥
साहं
त्वदर्थे
सम्प्राप्ता
त्वं
तु
मां
नावबुध्यसे ।
सपत्निवृद्धौ
या
मे
त्वं
प्रदेयं
दातुमिच्छसि ॥ २६ ॥
ध्रुवं
तु
भरतं
रामः
प्राप्य
राज्यमकण्टकम् ।
देशान्तरं
वा
नयिता
लोकान्तरमथापि
वा ॥ २७ ॥
बाल
एव
हि
मातुल्यं
भरतो
नायितस्त्वया ।
सन्निकर्षाच्च
सौहार्दं
जायते
स्थावरेष्वपि ॥ २८ ॥
भरतस्याप्यनुवशः
शत्रुघ्नोपि
समागतः ।
लक्ष्मणो
हि
यथा
रामं
तथासौ
भरतं
गतः ॥ २९ ॥
श्रूयते
हि
द्रुमः
कश्चिच्छेत्तव्यो
वनजीविभिः ।
सन्निकर्षादिषीकाभिर्मोचितः
परमाद्भयात् ॥ ३० ॥
गोप्ता
हि
रामं
सौमित्रिर्लक्ष्मणं
चापि
राघवः ।
अश्विनोरिव
सौभ्रात्रं
तयोर्लोकेषु
विश्रुतम् ॥ ३१ ॥
तस्मान्न
लक्ष्मणे
रामः
पापं
किञ्चित्करिष्यति ।
रामस्तु
भरते
पापं
कुर्यादिति
न
संशयः ॥ ३२ ॥
तस्माद्राजगृहादेव
वनं
गच्छतु
ते
सुतः ।
एतद्धि
रोचते
मह्यं
भृशं
चापि
हितं
तव ॥ ३३ ॥
एवं
ते
ज्ञातिपक्षस्य
श्रेयश्चैव
भविष्यति ।
यदि
चेद्भरतो
धर्मात्
पित्र्यं
राज्यमवाप्स्यति ॥ ३४ ॥
स
ते
सुखोचितो
बालो
रामस्य
सहजो
रिपुः ।
समृद्धार्थस्य
नष्टार्थो
जीविष्यति
कथं
वशे ॥ ३५ ॥
अभिद्रुतमिवारण्ये
सिंहेन
गजयूथपम् ।
प्रच्छाद्यमानं
रामेण
भरतं
त्रातुमर्हसि ॥ ३६ ॥
दर्पान्निराकृता
पूर्वं
त्वया
सौभाग्यवत्तया ।
राममाता
सपत्नी
ते
कथं
वैरं
न
यातयेत् ॥ ३७ ॥
यदा
हि
रामः
पृथिवीमवाप्स्यति
प्रभूतरत्नाकरशैलपत्तनाम् ।
तदा
गमिष्यस्यशुभं
पराभवं
सहैव
दीना
भरतेन
भामिनि ॥ ३८ ॥
यदा
हि
रामः
पृथिवीमवाप्स्यति
ध्रुवं
प्रणष्टो
भरतो
भविष्यति ।
अतो
हि
सञ्चिन्तय
राज्यमात्मजे
परस्य
चैवाद्य
विवासकारणम् ॥ ३९ ॥