एवमुक्ता
तु
कैकेयी
कोपेन
ज्वलितानना ।
दीर्घमुष्णं
विनिश्वस्य
मन्थरामिदमब्रवीत् ॥ १ ॥
अद्य
राममितः
क्षिप्रं
वनं
प्रस्थापयाम्यहम् ।
यौवराज्ये
च
भरतं
क्षिप्रमेवाभिषेचये ॥ २ ॥
इदं
त्विदानीं
सम्पश्ये
केनोपायेन
मन्थरे ।
भरतः
प्राप्नुयाद्राज्यं
न
तु
रामः
कथञ्चन ॥ ३ ॥
एवमुक्ता
तया
देव्या
मन्थरा
पापदर्शिनी ।
रामार्थमुपहिंसन्ती
कैकेयीमिदमब्रवीत् ॥ ४ ॥
हन्तेदानीं
प्रवक्ष्यामि
कैकेयि
श्रूयतां
च
मे ।
यथा
ते
भरतो
राज्यं
पुत्रः
प्राप्स्यति
केवलम् ॥ ५ ॥
किं
न
स्मरसि
कैकेयि
स्मरन्ती
वा
निगूहसे ।
यदुच्यमानमात्मार्थं
मत्तस्त्वं
श्रोतुमिच्छसि ॥ ६ ॥
मयोच्यमानं
यदि
ते
श्रोतुं
छन्दो
विलासिनि ।
श्रूयतामभिधास्यामि
श्रुत्वा
चापि
विमृश्यताम् ॥ ७ ॥
श्रुत्वैवं
वचनं
तस्या
मन्थरायास्तु
कैकयी ।
किञ्चिदुत्थाय
शयनात्
स्वास्तीर्णादिदमब्रवीत् ॥ ८ ॥
कथय
त्वं
ममोपायं
केनोपायेन
मन्थरे ।
भरतः
प्राप्नुयाद्राज्यं
न
तु
रामः
कथञ्चन ॥ ९ ॥
एवमुक्ता
तया
देव्या
मन्थरा
पापदर्शिनी ।
रामार्थमुपहिंसन्ती
कुब्जा
वचनमब्रवीत् ॥ १० ॥
तव
दैवासुरे
युद्धे
सह
राजर्षिभिः
पतिः ।
अगच्छत्त्वामुपादाय
देवराजस्य
साह्यकृत् ॥ ११ ॥
दिशमास्थाय
वै
देवि
दक्षिणां
दण्डकान्
प्रति ।
वैजयन्तमिति
ख्यातं
पुरं
यत्र
तिमिध्वजः ॥ १२ ॥
स
शम्बर
इति
ख्यातः
शतमायो
महासुरः ।
ददौ
शक्रस्य
सङ्ग्रामं
देवसङ्घैरनिर्जितः ॥ १३ ॥
तस्मिन्
महति
सङ्ग्रामे
पुरुषान्
क्षतविक्षतान् ।
रात्रौ
प्रसुप्तान्
घ्नन्ति
स्म
तरसासाद्य
राक्षसाः ॥ १४ ॥
तत्राकरोन्महद्युद्धं
राजा
दशरथस्तदा ।
असुरैश्च
महाबाहुः
शस्त्रैश्च
शकलीकृतः ॥ १५ ॥
अपवाह्य
त्वयादवि
सङ्ग्रामान्नष्टचेतनः ।
तत्रापि
विक्षतः
शस्त्रैः
पतिस्ते
रक्षितस्त्वया ॥ १६ ॥
तृष्टेन
तेन
दत्तौ
ते
द्वौ
वरौ
शुभदर्शने ।
सत्वयोक्तः
पतिर्देवि
यदेच्छेयं
तदा
वरौ ॥ १७ ॥
गृह्णीयामिति
तत्तेन
तथेत्युक्तं
महात्मना ।
अनभिज्ञा
ह्यहं
देवि
त्ययैव
कथिता
पुरा ॥ १८ ॥
कथैषा
तव
तु
स्नेहान्मनसा
धार्यते
मया ।
तौ
वरौ
याच
भर्तारं
भरतस्याभिषेचनम् ॥ १९ ॥
प्रव्राजनं
तु
रामस्य
त्वं
वर्षाणि
चतुर्दश ।
चतुर्दश
हि
वर्षाणि
रामे
प्रव्राजिते
वनम् ॥ २० ॥
प्रजाभावगतस्नेहः
स्थिरः
पुत्रो
भविष्यति ।
क्रोधागारं
प्रविश्याद्य
क्रुद्धेवाश्वपतेः
सुते ॥ २१ ॥
शेष्वानन्तर्हितायां
त्वं
भूमौ
मलिनवासिनी ।
मा
स्मैनं
प्रत्युदीक्षथा
मा
चैनमभिभाषथाः ॥ २२ ॥
रुदन्ती
चापि
तु
दृष्ट्वा
जगत्यां
शोकलालसा ।
दयितां
त्वं
सदा
भर्त्तुरत्र
मे
नास्ति
संशयः ॥ २३ ॥
त्वत्कृते
स
महाराजो
विशेदपि
हुताशनम् ।
न
त्वां
क्रोधयितुं
शक्तो
न
क्रुद्धां
प्रत्युदीक्षितुम् ॥ २४ ॥
तव
प्रियार्थं
राजा
हि
प्राणानपि
परित्यजेत् ।
न
ह्यतिक्रमितुं
शक्तस्तववाक्यं
महीपतिः ॥ २५ ॥
मन्दस्वभावे
बुद्ध्यस्व
सौभाग्यबलमात्मनः ।
मणिमुक्तं
सुवर्णानि
रत्नानि
विविधानि
च ॥ २६ ॥
दद्याद्दशरथो
राजा
मा
स्म
तेषु
मनः
कृथाः ।
यौ
तौ
दैवासुरे
युद्धे
वरौ
दशरथोऽददात् ॥ २७ ॥
तौ
स्मारय
महाभागे
सौऽर्थो
मा
त्वामतिक्रमेत् ।
यदा
तु
ते
वरं
द्यात्
स्वयमुत्थाप्य
राघवः ॥ २८ ॥
व्यवस्थाप्य
महाराजं
त्वमिमं
वृणुया
वरम् ।
रामं
प्रव्राजयारण्ये
नव
वर्षाणि
पञ्च
च ॥ २९ ॥
भरतः
क्रियतां
राजा
पृथिव्याः
पार्थिवर्षभः ।
चतुर्दश
हि
वर्षाणि
रामे
प्रव्राजिते
वनम् ॥ ३० ॥
रूढश्च
कृतमूलश्च
शेषं
स्थास्यति
ते
सुतः ।
रामप्रवाजनं
चैव
देवि
याचस्व
तं
वरम् ॥ ३१ ॥
एवं
सिद्ध्यन्ति
पुत्रस्य
सर्वार्थास्तव
भामिनि ।
एवं
प्रव्राजितश्चैव
रामोऽरामो
भविष्यति ॥ ३२ ॥
भरतश्च
हतामित्रस्तव
राजा
भविष्यति ।
तेन
कालेन
पुत्रस्ते
कृतमूलो
भविष्यति ॥ ३३ ॥
सङ्गृहीतमनुष्यश्च
सुहृद्भिः
सार्द्धमात्मवान् ।
प्राप्तकालं
तु
ते
मन्ये
राजानं
वीतसाध्वसा ॥ ३४ ॥
रामाभिषेकसम्भारान्निगृह्य
विनिवर्त्तय ।
अनर्थमर्थरूपेण
ग्राहिता
सा
ततस्तया ॥ ३५ ॥
हृष्टा
प्रतीता
कैकेयी
मन्थरामिदमब्रवीत् ।
सा
हि
वाक्येन
कुब्जायाः
किशोरीवोत्पथङ्गता ॥ ३६ ॥
कैकेयी
विस्मयं
प्राप्ता
परं
परमदर्शना ।
कुब्जे
त्वां
नाभिजानामि
श्रेष्ठां
श्रेष्ठाभिधायिनीम् ॥ ३७ ॥
पृथिव्यामसि
कुब्जानामुत्तमा
बुद्धिनिश्चये ।
त्वमेव
तु
ममार्थेषु
नित्ययुक्ता
हितैषिणी ॥ ३८ ॥
नाहं
समवबुद्ध्येयं
कुब्जे
राज्ञः
चिकीर्षितम् ।
सन्ति
दुस्संस्थिताः
कुब्जा
वक्राः
परमपापिकाः ॥ ३९ ॥
त्वं
पद्ममिव
वातेन
सन्नता
प्रियदर्शना ।
उरस्तेऽभिनिविष्टं
वै
यावत्स्कन्धात्
समुन्नतम् ॥ ४० ॥
अधस्ताच्चोदरं
शान्तं
सुनाभमिव
लज्जितम् ।
परिपूर्णं
तु
जघनं
सुपीनौ
च
पयोधरौ ॥ ४१ ॥
विमलेन्दु
समं
वक्त्रमहो
राजसि
मन्थरे ।
जघनं
तव
निर्घुष्टं
रशनादामशोभितम् ॥ ४२ ॥
जङ्घे
भृशमुपन्यस्ते
पादौ
चाप्यायतावुभौ ।
त्वमायताभ्यां
सक्थिभ्यां
मन्थरे
क्षौमवासिनी ॥ ४३ ॥
अग्रतो
मम
गच्छन्ती
राजहंसीव
राजसे ।
आसन्
याः
शम्बरे
मायाः
सहस्रमसुराधिपे ॥ ४४ ॥
सर्वास्त्वयि
निविष्टास्ता
भूयश्चान्याः
सहस्रशः ।
तवेदं
स्थगु
यद्दीर्घं
रथघोणमिवायतम् ॥ ४५ ॥
मतयः
क्षत्रविद्याश्च
मायाश्चात्र
वसन्ति
ते ।
अत्र
ते
प्रतिमोक्ष्यामि
मालां
कुब्जे
हिरण्मयीम् ॥ ४६ ॥
अभिषिक्ते
च
भरते
राघवे
च
वनं
गते ।
जात्येन
च
सुवर्णे
सुनिष्टप्तेन
मन्थरे ॥ ४७ ॥
लब्धार्था
च
प्रतीता
च
लेपयिष्यामि
ते
स्थगु ।
मुखे
च
तिलकं
चित्रं
जातरूपमयं
शुभम् ॥ ४८ ॥
कारयिष्यामि
ते
कुब्जे
शुभान्याभरणानि
च ।
परिधाय
शुभे
वस्त्रे
देवतेव
चरिष्यसि ॥ ४९ ॥
चन्द्रमाह्वयमानेन
मुखेनाप्रतिमानना ।
गमिष्यसि
गतिं
मुख्या
गर्वयन्ती
द्विषज्जनम् ॥ ५० ॥
तवापि
कुब्जाः
कुब्जायाः
सर्वाभरणभूषिताः ।
पादौ
परिचरिष्यन्ति
यथैव
त्वं
सदा
मम ॥ ५१ ॥
इति
प्रशस्यमाना
सा
कैकेयीमिदमब्रवीत् ।
शयानां
शयने
शुभ्रे
वेद्यामग्निशिखामिव ॥ ५२ ॥
गतोदके
सेतुबन्धो
न
कल्याणि
विधीयते ।
उत्तिष्ठ
कुरु
कल्याणि
राजानमनुदर्शय ॥ ५३ ॥
तथा
प्रोत्साहिता
देवी
गत्वा
मन्थरया
सह ।
क्रोधागारं
विशालाक्षी
सौभाग्यमदगर्विता ॥ ५४ ॥
अनेकशतसाहस्रं
मुक्ताहारं
वराङ्गना ।
अवमुच्य
वरार्हाणि
शुभान्याभरणानि
च ॥ ५५ ॥
ततो
हेमोपमा
तत्र
कुब्जावाक्यवशङ्गता ।
संविश्य
भूमौ
कैकेयी
मन्थरामिदमब्रवीत् ॥ ५६ ॥
इह
वा
मां
मृतां
कुब्जे
नृपायावेदयिष्यसि ।
वनं
तु
राघवे
प्राप्ते
भरतः
प्राप्स्यति
क्षितिम् ॥ ५७ ॥
न
सुवर्णेन
मे
ह्यर्थो
न
रत्नैर्न
च
भूषणैः ।
एष
मे
जीवितस्यान्तो
रामो
यद्यभिषिच्यते ॥ ५८ ॥
अथो
पुनस्तां
महिषीं
महीक्षितो
वचोभिरत्यर्थमहापराक्रमैः ।
उवाच
कुब्जा
भरतस्य
मातरं
हितं
वचो
राममुपेत्य
चाहितम् ॥ ५९ ॥
प्रपत्स्यते
राज्यमिदं
हि
राघवो
यदि
ध्रुवं
त्वं
ससुता
च
तप्स्यसे ।
अतो
हि
कल्याणि
यतस्व
तत्तथा
यथा
सुतस्ते
भरतोऽभिषेक्ष्यते ॥ ६० ॥
तथातिविद्धा
महिषी
तु
कुब्जया
समाहता
वागिषुभिर्मुहुर्मुहुः ।
निधाय
हस्तौ
हृदयेऽतिविस्मिता
शशंस
कुब्जां
कुपिता
पुनः
पुनः ॥ ६१ ॥
यमस्य
वा
मां
विषयं
गतामितो
निशाम्य
कुब्जे
प्रतिवेदयिष्यसि ।
वनं
गते
वा
सुचिराय
राघवे
समृद्धकामो
भरतो
भविष्यति ॥ ६२ ॥
अहं
हि
नैवास्तरणानि
न
स्रजो
न
चन्दनं
नाञ्जनपानभोजनम् ।
न
किञ्चिदिच्छामि
न
चेह
जीवितं
न
चेदितो
गच्छति
राघवो
वनम् ॥ ६३ ॥
अथैतदुक्त्वा
वचनं
सुदारुणं
निधाय
सर्वाभरणानि
भामिनी ।
असंवृतामास्तरणेन
मेदिनीं
तदाधिशिश्ये
पतितेव
किन्नरी ॥ ६४ ॥
उदीर्णसंरम्भतमोवृतानना
तथावमुक्तोत्तममाल्यभूषणा ।
नरेन्द्रपत्नी
विमना
बभूव
सा
तमोवृता
द्यौरिव
मग्नतारका ॥ ६५ ॥