अतदर्हं
महाराजं
शयानमतथोचितम् ।
ययातिमिव
पुण्यान्ते
देवलोकात्परिच्युतम् ॥ १ ॥
अनर्थरूपा
सिद्धार्थाह्यभीता
भयदर्शिनी ।
पुनराकारयामास
तमेव
वरमङ्गना ॥ २ ॥
त्वं
कत्थसे
महाराज
सत्यवादी
दृढव्रतः ।
मम
चेमं
वरं
कस्माद्विधारयितुमिच्छसि ॥ ३ ॥
एवमुक्तस्तु
कैकेय्या
राजा
दशरथस्तदा ।
प्रत्युवाच
ततः
क्रुद्धो
मुहूत्त
विह्वलन्निव ॥ ४ ॥
मृते
मयि
गते
रामे
वनं
मनुजपुङ्गवे ।
हन्तानार्ये
ममामित्रे
सकामा
सुखिनी
भव ॥ ५ ॥
स्वर्गेपि
खलु
रामस्य
कुशलं
दैवतैरहम् ।
प्रत्यादेशादभिहितं
धारयिष्ये
कथं
बत ॥ ६ ॥
कैकेय्याः
प्रियकामेन
रामः
प्रव्राजितो
मया ।
यदि
सत्यं
ब्रवीम्येतत्तदसत्यं
भविष्यति ॥ ७ ॥
अपुत्रेण
मया
पुत्रः
श्रमेण
महता
महान् ।
रामो
लब्धो
महाबाहुः
स
कथं
त्यज्यते
मया ॥ ८ ॥
शूरश्च
कृतविद्यश्च
जितक्रोधः
क्षमापरः ।
कथं
कमलपत्राक्षो
मया
रामो
विवास्यते ॥ ९ ॥
कथमिन्दीवरश्यामं
दीर्घबाहुं
महाबलम् ।
अभिराममहं
रामं
प्रेषयिष्यामि
दण्डकान् ॥ १० ॥
सुखानामुचितस्यैव
दुःखैरनुचितस्य
च ।
दुःखं
नामानुपश्येयं
कथं
रामस्य
धीमतः ॥ ११ ॥
यदि
दुःखमकृत्वाद्य
मम
सङ्क्रमणं
भवेत् ।
अदुःखार्हस्य
रामस्य
ततः
सुखमवाप्नुयाम् ॥ १२ ॥
नृशंसे
पापसङ्कल्पे
रामं
सत्यपराक्रमम् ।
किं
विप्रियेण
कैकेयि
प्रियं
योजयसे
मम ॥ १३ ॥
अकीर्तिरतुला
लोके
ध्रुवः
परिभवश्च
मे ।
तथा
विलपतस्तस्य
परभ्रमितचेतसः ॥ १४ ॥
अस्तमभ्यागमत्
सूर्योरजनी
चाभ्यवर्त्तत ।
सा
त्रियामा
तथार्त्तस्य
चन्द्रमण्डलमण्डिता ॥ १५ ॥
राज्ञो
विलपमानस्य
न
व्यभासत
शर्वरी ।
तथैवोष्णं
विनिश्वस्य
वृद्धो
दशरथो
नृपः ॥ १६ ॥
विललापार्त्तद्दुःखं
गगनासक्तलोचनः ।
न
प्रभातं
त्वयेच्छामि
निशे
नक्षत्रभूषणे ॥ १७ ॥
क्रियतां
मे
दया
भद्रे
मयायं
रचितोऽञ्जलिः ।
अथवा
गम्यतां
शीघ्रं
नाहमिच्छामि
निर्घृणाम् ॥ १८ ॥
नृशंसां
कैकयीं
द्रष्टुं
यत्कृते
व्यसनं
महत् ।
एवमुक्त्वा
ततो
राजा
कैकेयीं
संयताञ्जलिः ॥ १९ ॥
प्रसादयामास
पुनः
कैकेयीं
चेदमब्रवीत् ।
साधुवृत्तस्य
दीनस्य
त्वद्गतस्य
गतायुषः ॥ २० ॥
प्रसादः
क्रियतां
देवि
भद्रे
राज्ञो
विशेषतः ।
शून्ये
न
खलु
सुश्रोणि
मयेदं
समुदाहृतम् ॥ २१ ॥
कुरु
साधु
प्रसादं
मे
बाले
सहृदया
ह्यसि ।
प्रसीद
देवि
रामो
मे
त्वद्दत्तं
राज्यमव्ययम् ॥ २२ ॥
लभतामसितापाङ्गे
यशः
परमवाप्नुहि ।
मम
रामस्य
लोकस्य
गुरूणां
भरतस्य
च ॥ २३ ॥
प्रियमेतद्गुरुश्रोणि
कुरु
चारुमुखेक्षणे ।
विशुद्धभावस्य
हि
दुष्टभावा
ताम्रेक्षणस्याश्रुकलस्य
राज्ञः ॥ २४ ॥
श्रुत्वा
विचित्रं
करुणं
विलापं
भर्तुर्नृशंसा
न
चकार
वाक्यम् ।
ततः
स
राजा
पुनरेव
मूर्च्छितः
प्रियामदुष्टां
प्रतिकूलभाषिणीम् ॥ २५ ॥
समीक्ष्य
पुत्रस्य
विवासनं
प्रति
क्षितौ
विसञ्ज्ञो
निपपात
दुःखितः ।
इतीव
राज्ञो
व्यथितस्य
सा
निशा
जगाम
घोरं
श्वसतो
मनस्विनः ॥ २६ ॥
विबोध्यमानः
प्रतिबोधनं
तदा
निवारयामास
स
राजसत्तमः ॥ २७ ॥