पुत्रशोकार्दितं
पापा
विसञ्ज्ञं
पतितं
भुवि ।
विवेष्टमानमुद्वीक्ष्य
सैक्ष्वाकमिदमब्रवीत् ॥ १ ॥
पापं
कृत्वैव
किमिदं
मम
संश्रुत्य
संश्रवम् ।
शेषे
क्षितितले
सन्नः
स्थित्यां
स्थातुं
त्वमर्हसि ॥ २ ॥
आहुः
सत्यं
हि
परमं
धर्मं
धर्मविदो
जनाः ।
सत्यमाश्रित्य
हि
मया
त्वं
च
धर्मप्रचोदितः ॥ ३ ॥
संश्रुत्य
शैब्यः
श्येनाय
स्वां
तनुं
जगतीपतिः ।
प्रदाय
पक्षिणे
राजन्
जगाम
गतिमुत्तमाम् ॥ ४ ॥
तथा
ह्यलर्कस्तेजस्वी
ब्राह्मणे
वेदपारगे ।
याचमाने
स्वके
नेत्रे
उद्धृत्या
विमना
ददौ ॥ ५ ॥
सरितां
तु
पतिः
स्वल्पां
मर्यादां
सत्यमन्वितः ।
सत्यानुरोधात्समये
वेलां
स्वां
नातिवर्त्तते ॥ ६ ॥
सत्यमेकपदं
ब्रह्म
सत्ये
धर्मः
प्रतिष्ठितः ।
सत्यमेवाक्षया
वेदाः
सत्येनैवाप्यते
परम् ॥ ७ ॥
सत्यं
समनुवर्त्तस्व
यदि
धर्मे
धृता
मतिः ।
स
वरः
सफलो
मेऽस्तु
वरदो
ह्यसि
सत्तम ॥ ८ ॥
धर्मस्येहाभिकामार्थं
मम
चैवाभ्यचोदनात् ।
प्रव्राजय
सुतं
रामं
त्रिः
खलु
त्वां
ब्रवीम्यहम् ॥ ९ ॥
समयं
च
ममाद्येमं
यदि
त्वं
न
करिष्यसि ।
अग्रतस्ते
परित्यक्ता
परित्यक्ष्यामि
जीवितम् ॥ १० ॥
एवं
प्रचोदितो
राजा
कैकेय्या
निर्विशङ्कया ।
नाशकत्
पाशमुन्मोक्तुं
बलिरिन्द्रकृतं
यथा ॥ ११ ॥
उद्भ्रान्तहृदयश्चापि
विवर्णवदनोऽभवत् ।
स
धुर्यो
वै
परिस्पन्दन्
युगचक्रान्तरं
यथा ॥ १२ ॥
विह्वलाभ्यां
च
नेत्राभ्यामपश्यन्निव
भूमिपः ।
कृच्छ्राद्धैर्येण
संस्तभ्य
कैकेयीमिदमब्रवीत् ॥ १३ ॥
यस्ते
मन्त्रकृतः
पाणिरग्नौ
पापे
मया
धृतः ।
तं
त्यजामि
स्वजं
चैव
तव
पुत्रं
सह
त्वया ॥ १४ ॥
प्रयाता
रजनीदेवि
सूर्यस्योदयनं
प्रति ।
अभिषेकं
गुरुजनस्त्वरयिष्यति
मां
ध्रुवम् ॥ १५ ॥
रामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः ।
रामः
कारयितव्यो
मे
मृतस्य
सलिलक्रियाम् ॥ १६ ॥
त्वया
सपुत्रया
नैव
कर्त्तव्या
सलिलक्रिया ।
व्याहन्तास्यशुभाचारे
यदि
रामाभिषेचनम् ॥ १७ ॥
न
च
शक्नोम्यहं
द्रष्टुं
दृष्ट्वा
पूर्वं
तथासुखम् ।
हतहर्षं
निरानन्दं
पुनर्जनमवाङ्मुखम् ॥ १८ ॥
तां
तथा
ब्रुवतस्तस्य
भूमिपस्य
महात्मनः ।
प्रभाता
शर्वरी
पुण्या
चन्द्रनक्षत्रशालिनी ॥ १९ ॥
ततः
पापसमाचारा
कैकेयी
पार्थिवं
पुनः ।
उवाच
परुषं
वाक्यं
वाक्यज्ञा
रोषमूर्च्छिता ॥ २० ॥
किमिदं
भाषसे
राजन्
वाक्यं
गररुजोपमम् ।
आनाययितुमक्लिष्टं
पुत्रं
राममिहार्हसि ॥ २१ ॥
स्थाप्य
राज्ये
मम
सुतं
कृत्वा
रामं
वनेचरम् ।
निस्सपत्नां
च
मां
कृत्वा
कृतकृत्यो
भविष्यसि ॥ २२ ॥
स
नुन्न
इव
तीक्ष्णेन
प्रतोदेन
हयोत्तमः ।
राजा
प्रयोदितोऽभीक्ष्णं
कैकेयीमिदमब्रवीत् ॥ २३ ॥
धर्मबन्धेन
बद्धोऽस्मि
नष्टा
च
मम
चेतना ।
ज्येष्ठं
पुत्रं
प्रियं
रामं
द्रष्टुमिच्छामि
धार्मिकम् ॥ २४ ॥
ततः
प्रभातां
रजनीमुदिते
च
दिवाकरे ।
पुण्ये
नक्षत्रयोगे
च
मुहूर्त्ते
च
समाहिते ॥ २५ ॥
वसिष्ठो
गुणसम्पन्नः
शिष्यैः
परिवृतस्तदा ।
उपगृह्याशु
सम्भारान्
प्रविवेश
पुरोत्तमम् ॥ २६ ॥
सिक्तसम्मार्जितपथां
पताकोत्तमभूषिताम् ।
विचित्रकुसुमाकीर्णां
नानास्रग्भिर्विराजिताम् ॥ २७ ॥
संहृष्टमनुजोपेतां
समृद्धविपणापणाम् ।
महोत्सवसमाकीर्णां
राघवार्थे
समुत्सुकाम् ॥ २८ ॥
चन्दनागरुधूपैश्च
सर्वतः
परिधूपिताम् ।
तां
पुरीं
समतिक्रम्य
पुरन्दरपुरोपमाम् ॥ २९ ॥
पौरजानपदाकीर्णं
ब्राह्मणैरुपशोभितम् ।
यज्ञविद्भिः
सुसम्पूर्णं
सदस्यैः
परमद्विजैः ॥ ३० ॥
तदन्तःपुरमासाद्य
व्यतिचक्राम
तु
जनम् ।
वसिष्ठः
परमप्रीतः
परमर्षिर्विवेश
च ॥ ३१ ॥
स
त्वपश्यद्विनिष्क्रान्तं
सुमन्त्रं
नाम
सारथिम् ।
द्वारे
तु
राजसिंहस्य
सचिवं
प्रियदर्शनम् ॥ ३२ ॥
तमुवाच
महातेजाः
सूतपुत्रं
विशारदम् ।
वसिष्ठः
क्षिप्रमाचक्ष्व
नृपतेर्मामिहागतम् ॥ ३३ ॥
इमे
गङ्गोदकघटाः
सागरेभ्यश्च
काञ्चनाः ।
औदुम्बरं
भद्रपीठमभिषेकार्थमाहृतम् ॥ ३४ ॥
सर्वबीजानि
गन्धाश्च
रत्नानि
विविधानि
च ।
क्षौद्रं
दधि
धृतं
लाजा
दर्भाः
सुमनसः
पयः ॥ ३५ ॥
अष्टौ
च
कन्यारुचिरा
मत्तश्च
वरवारणः ।
चतुरश्वो
रथः
श्रीमान्
निस्त्रिंशो
धनुरुत्तमम् ॥ ३६ ॥
वाहनं
नरसंयुक्तं
छत्रं
च
शशिसन्निभम् ।
श्वेते
च
वालव्यजने
भृङ्गारश्च
हिरण्मयः ॥ ३७ ॥
हेमदामपिनद्धश्च
ककुद्मान्
पाण्डरो
वृषः ।
केसरी
च
चतुर्दंष्ट्रो
हरिश्रेष्ठो
महाबलः ॥ ३८ ॥
सिंहासनं
व्याघ्रतनुः
समिद्धश्च
हुताशनः ।
सर्ववादित्रसङ्घाश्च
वेश्याश्चालङ्कृताः
स्त्रियः ॥ ३९ ॥
आचार्या
ब्राह्मणां
गावः
पुण्याश्च
मृगपक्षिणः ।
पौरजानपदश्रेष्ठा
नैगमाश्च
गणैः
सह ॥ ४० ॥
एते
चान्ये
च
बहवः
प्रीयमाणाः
प्रियम्वदाः ।
अभिषेकाय
रामस्य
सह
तिष्ठन्ति
पार्थिवैः ॥ ४१ ॥
त्वरयस्व
महाराजं
यथा
समुदितेऽहनि ।
पुण्ये
नक्षत्रयोगे
च
रामो
राज्यमवाप्नुयात् ॥ ४२ ॥
इति
तस्य
वचः
श्रुत्वा
सूतपूत्रो
महात्मनः ।
स्तुवन्नृपतिशार्दूलं
प्रविवेश
निवेशनम् ॥ ४३ ॥
तं
तु
पूर्वोदितं
वृद्धं
द्वारस्था
राजसम्मतम् ।
न
शेकुरभिसंरोद्धुं
राज्ञः
प्रियचिकीर्षवः ॥ ४४ ॥
स
समीपस्थितो
राज्ञस्तामवस्थामजज्ञिवान् ।
वाग्भिः
परमतुष्टाभिरभिष्टोतुं
प्रचक्रमे ॥ ४५ ॥
ततः
सूतो
यथाकालं
पार्थिवस्य
निवेशने ।
सुमन्त्रः
प्राञ्जलिर्भूत्वा
तुष्टाव
जगतीपतिम् ॥ ४६ ॥
यथा
नन्दति
तेजस्वी
सागरो
भास्करोदये ।
प्रीतः
प्रीतेन
मनसा
तथानन्दघनः
स्वतः ॥ ४७ ॥
इन्द्रमस्यां
तु
वेलायामभितुष्टाव
मातलिः ।
सोऽजयद्दानवान्
सर्वांस्तथा
त्वां
बोधयाम्यहम् ॥ ४८ ॥
वेदाः
सहाङ्गविद्याश्च
यथा
ह्यात्मभुवं
विभुम् ।
ब्रह्माणं
बोधयन्त्यद्य
तथा
त्वां
बोधयाम्यहम् ॥ ४९ ॥
आदित्यः
सह
चन्द्रेण
यथा
भूतधरां
शुभाम् ।
बोधयत्यद्य
पृथिवीं
तथा
त्वां
बोधयाम्यहम् ॥ ५० ॥
उत्तिष्ठाशु
महाराज
कृत
कौतुकमङ्गलः ।
विराजमानो
वपुषा
मेरोरिव
दिवाकरः ॥ ५१ ॥
सोमसूर्यौ
च
काकुत्स्थ
शिववैश्रवणावपि ।
वरुणश्चाग्निरिन्द्रश्च
विजयं
प्रदिशन्तु
ते ॥ ५२ ॥
गता
भगवती
रात्रिः
कृतं
कृत्यमिदं
तव ।
बुध्यस्व
नृपशार्दूल
कुरु
कार्यमनन्तरम् ॥ ५३ ॥
उदतिष्ठत
रामस्य
समग्रमभिषेचनम् ।
पौरजानपदैश्चापि
नैगमैश्च
कृताञ्जलिः ॥ ५४ ॥
स्वयं
वसिष्ठो
भगवान्
ब्राह्मणैः
सह
तिष्ठति ।
क्षिप्रमाज्ञाप्यतां
राजन्
राघवस्याभिषेचनम् ॥ ५५ ॥
यथा
ह्यपालाः
पशवो
यथा
सेना
ह्यनायका ।
यथा
चन्द्रं
विना
रात्रिर्यथा
गावो
विना
वृषम् ॥ ५६ ॥
एवं
हि
भवता
राष्ट्रं
यत्र
राजा
न
दृश्यते ।
इति
तस्य
वचः
श्रुत्वा
सान्त्वपूर्वमिवार्थवत् ॥ ५७ ॥
अभ्यकीर्यत
शोकेन
भूय
एव
महीपतिः ।
शोकरक्तेक्षणः
श्रीमान्
उद्वीक्ष्योवाच
धार्मिकः ॥ ५८ ॥
वाक्यैस्तु
खलु
मर्माणि
मम
भूयो
निकृन्तसि ।
सुमन्त्रः
करुणं
श्रुत्वा
दृष्ट्वा
दीनं
च
पार्थिवम् ॥ ५९ ॥
प्रगृहीताञ्जलिः
किञ्चित्तस्माद्देशादपाक्रमत् ।
यदा
वक्तुं
स्वयं
दैन्यान्न
शशाक
महीपतिः ॥ ६० ॥
तदा
सुमन्त्रं
मन्त्रज्ञा
कैकेयी
प्रत्युवाच
ह ।
सुमन्त्र
राजा
रजनीं
रामहर्षसमुत्सुकः ॥ ६१ ॥
प्रजागरपरिश्रान्तो
निद्रावया
वशमेयिवान् ।
तद्गच्छ
त्वरितं
सूत
राजपुत्रं
यशस्विनम् ॥ ६२ ॥
राममानय
भद्र
ते
नात्र
कार्या
विचारणा ।
स
मन्यमानः
कल्याणं
हृदयेन
ननन्द
च ॥ ६३ ॥
निर्जगाम
च
सम्प्रीत्या
त्वरितो
राजशासनात् ।
सुमन्त्रश्चिन्तयामास
त्वरितं
चोदितस्तया ॥ ६४ ॥
व्यक्तं
रामाभिषेकार्थमिहायास्यति
धर्मवित् ।
इति
सूतो
मतिं
कृत्वा
हर्षेण
महता
वृतः ॥ ६५ ॥
निर्जगाम
महाबाहू
राघवस्य
दिदृक्षया ।
सागरह्रदसङ्काशात्
सुमन्त्रोऽन्तःपुराच्छुभात् ॥ ६६ ॥
निष्क्रम्य
जनसम्बाधं
ददर्श
द्वारमग्रतः ।
ततः
पुरस्तात्
सहसा
विनिर्गतो
महीपतीन्
द्वारगतो
विलोकयन् ॥ ६७ ॥
ददर्श
पौरान्
विविधान्
महाधनानुपस्थितान्
द्वारमुपेत्य
विष्ठितान् ॥ ६८ ॥