पताकाध्वजसम्पन्नं
महार्हागरुधूपितम् ।
अपश्यन्नगरं
श्रीमान्नानाजनसमाकुलम् ॥ १ ॥
स
गृहैरभ्रसङ्काशैः
पाण्डरैरुपशोभितम् ।
राजमार्गं
ययौ
रामो
मध्येनागरुधूपितम् ॥ २ ॥
चन्दनानां
च
मुख्यानामगरूणां
च
सञ्चयैः ।
उत्तमानां
च
गन्धानां
क्षौमकौशाम्बरस्य
च ॥ ३ ॥
अविद्धाभिश्च
मुक्ताभिरुत्तमैः
स्फाटिकैरपि ।
शोभमानमसम्बाधैस्तं
राजपथमुत्तमम् ॥ ४ ॥
संवृतं
विविधैः
पण्यैर्भक्ष्यैरुच्चावचैरपि ।
ददर्श
तं
राजपथं
दिवि
देवपथं
यथा ॥ ५ ॥
दध्यक्षतहविर्लाजैर्धूपैरगरुचन्दनैः ।
नानामाल्योपगन्धैश्च
सदाभ्यर्चितचत्वरम् ॥ ६ ॥
आशीर्वादान्
बहून्
शृण्वन्
सुहृद्भिः
समुदीरितान् ।
यथार्हं
चापि
सम्पूज्य
सर्वानेव
नरान्
ययौ ॥ ७ ॥
पितामहैराचरितं
तथैव
प्रपितामहैः ।
अद्योपादाय
तं
मार्गमभिषिक्तोऽनुपालय ॥ ८ ॥
यथा
स्म
लालिताः
पित्रा
यथा
पूर्वैः
पितामहैः ।
ततः
सुखतरं
रामे
वत्स्यामस्सति
राजनि ॥ ९ ॥
अलमद्य
हि
भुक्तेन
परमार्थैरलं
च
नः ।
यथा
पश्याम
निर्यान्तं
रामं
राज्ये
प्रतिष्ठितम् ॥ १० ॥
ततो
हि
नः
प्रियतरं
नान्यत्
किञ्चिद्भविष्यति ।
यथाभिषेको
रामस्य
राज्येनामिततेजसः ॥ ११ ॥
एताश्चान्याश्च
सुहृदामुदासीनः
कथाः
शुभाः ।
आत्मसम्पूजनीः
शृण्वन्
ययौ
रामो
महापथम् ॥ १२ ॥
न
हि
तस्मान्मनः
कश्चिच्चक्षुषी
वा
नरोत्तमात् ।
नरः
शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि
राघवे ॥ १३ ॥
यश्च
रामं
न
पश्येत्तु
यं
च
रामो
न
पश्यति ।
निन्दितः
स
वसेल्लोके
स्वात्माप्येनं
विगर्हते ॥ १४ ॥
सर्वेषां
हि
स
धर्मात्मा
वर्णानां
कुरुते
दयाम् ।
चतुर्णां
हि
वयस्स्थानां
तेन
ते
तमनुव्रताः ॥ १५ ॥
चतुष्पथान्
देवपथांश्चैत्यान्यायतनानि
च ।
प्रदक्षिणं
परिहरन्
जगाम
नृपतेः
सुतः ॥ १६ ॥
स
राजकुलमासाद्य
मेघसङ्घोपमैः
शुभैः ।
प्रासादश्रृङ्गैर्विविधैः
कैलासशिखरोपमैः ॥ १७ ॥
आवारयद्भिर्गगनं
विमानैरिव
पाण्डरैः ।
वर्द्धमानगृहैश्चापि
रत्नजालपरिष्कृतैः ॥ १८ ॥
तत्पृथिव्यां
गृहवरं
महेन्द्रभवनोपमम् ।
राजपुत्रः
पितुर्वेश्म
प्रविवेश
श्रिया
ज्वलन् ॥ १९ ॥
स
कक्ष्या
धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य
वाजिभिः ।
पदातिरपरे
कक्ष्ये
द्वे
जगाम
नरोत्तमः ॥ २० ॥
स
सर्वाः
समतिक्रम्य
कक्ष्यादशरथात्मजः ।
सन्निवर्त्त्य
जनं
सर्वं
शुद्धान्तं
पुनरभ्यगात् ॥ २१ ॥
ततः
प्रविष्टे
पितुरन्तिकं
तदा
जनः
स
सर्वोमुदितो
नृपात्मजे ।
प्रतीक्षते
तस्य
पुनर्विनिर्गमं
यथोदयं
चन्द्रमसः
सरित्पतिः ॥ २२ ॥