स
ददर्शासने
रामो
निषण्णं
पितरं
शुभे ।
कैकेयीसहितं
दीनं
मुखेन
परिशुष्यता ॥ १ ॥
स
पितुश्चरणौ
पूर्वमभिवाद्य
विनीतवत् ।
ततो
ववन्दे
चरणौ
कैकेय्याः
सुसमाहितः ॥ २ ॥
रामेत्युक्त्वा
च
वचनं
बाष्पपर्याकुलेक्षणः ।
शशाक
नृपतिर्दीनो
नेक्षितुं
नाभिभाषितुम् ॥ ३ ॥
तदपूर्वं
नरपतेर्दृष्ट्वा
रूपं
भयावहम् ।
रामोऽपि
भयमापन्नः
पदा
स्पृष्ट्वेव
पन्नगम् ॥ ४ ॥
इन्द्रियैरप्रहृष्टैस्तं
शोकसन्तापकर्शितम् ।
निश्वसन्तं
महाराजं
व्यथिताकुलचेतसम् ॥ ५ ॥
ऊर्मिमालिनमक्षोभ्यं
क्षुभ्यन्तमिव
सागरम् ।
उपप्लुतमिवादित्यमुक्तानृतमृषिं
यथा ॥ ६ ॥
अचिन्त्यकल्पं
हि
पितुस्तं
शोकमुपधारयन् ।
बभूव
संरब्धतरः
समुद्र
इव
पर्वणि ॥ ७ ॥
चिन्तयामास
च
तदा
रामः
पितृहितेरतः ।
किं
स्विदद्यैव
नृपतिर्न
मां
प्रत्यभिनन्दति ॥ ८ ॥
अन्यदा
मां
पिता
दृष्ट्वा
कुपितोऽपि
प्रसीदति ।
तस्य
मामद्य
संप्रेक्ष्य
किमायासः
प्रवर्तते ॥ ९ ॥
स
दीन
इव
शोकार्त्तो
विषण्णवदनद्युतिः ।
कैकेयीमभिवाद्यैव
रामो
वचनमब्रवीत् ॥ १० ॥
कच्चिन्मया
नापराद्धमज्ञानाद्येन
मे
पिता ।
कुपितस्तन्ममाचक्ष्व
त्वं
चैवैनं
प्रसादय ॥ ११ ॥
अप्रसन्नमनाः
किं
नु
सदा
मां
प्रति
वत्सलः ।
विवर्णवदनो
दीनो
न
हि
मामभिभाषते ॥ १२ ॥
शारीरो
मानसो
वापि
कच्चिदेनं
न
बाधते ।
सन्तापो
वाभितापो
वा
दुर्ल्लभं
हि
सदा
सुखम् ॥ १३ ॥
कच्चिन्न
किञ्चिद्भरते
कुमारे
प्रियदर्शने ।
शत्रुध्ने
वा
महासत्त्वे
मातॄणां
वा
ममाशुभम् ॥ १४ ॥
अतोषयन्महाराजमकुर्वन्
वा
पितुर्वचः ।
मुहूर्त्तमपि
नेच्छेयं
जीवितुं
कुपिते
नृपे ॥ १५ ॥
यतोमूलं
नरः
पश्येत्
प्रादुर्भावमिहात्मनः ।
कथं
तस्मिन्न
वर्त्तेत
प्रत्यक्षे
सति
दैवते ॥ १६ ॥
कच्चित्ते
परुषं
किञ्चिदभिमानात्
पिता
मम ।
उक्तो
भवत्या
कोपेन
यत्रास्य
लुलितं
मनः ॥ १७ ॥
एतदाचक्ष्व
मे
देवि
तत्त्वेन
परिपृच्छतः ।
किन्निमित्तमपूर्वोऽयं
विकारो
मनुजाधिपे ॥ १८ ॥
एवमुक्ता
तु
कैकेयी
राघवेण
महात्मना ।
उवाचेदं
सुनिर्लज्जा
धृष्टमात्महितं
वचः ॥ १९ ॥
न
राजा
कृपितो
राम
व्यसनं
नास्य
किञ्चन ।
किञ्चिन्मनोगतं
त्वस्य
त्वद्भयान्नाभिभाषते ॥ २० ॥
प्रियं
त्वामप्रियं
वक्तुं
वाणी
नास्योपवर्तते ।
तदवश्यं
त्वया
कार्यं
यदनेनाश्रुतं
मम ॥ २१ ॥
एष
मह्यं
वरं
दत्त्वा
पुरा
मामभिपूज्य
च ।
स
पश्चात्तप्यते
राजा
यथान्यः
प्राकृतस्तथा ॥ २२ ॥
अतिसृज्य
ददानीति
वरं
मम
विशांपतिः ।
स
निरर्थं
गतजले
सेतुं
बन्धितुमिच्छति ॥ २३ ॥
धर्ममूलमिदं
राम
विदितं
च
सतामपि ।
तत्सत्यं
न
त्यजेद्राजा
कुपितस्त्वत्कृते
यथा ॥ २४ ॥
यदि
तद्वक्ष्यते
राजा
शुभं
वा
यदि
वाशुभम् ।
करिष्यसि
ततः
सर्वमाख्यास्यामि
पुनस्त्वहम् ॥ २५ ॥
यदि
त्वभिहितं
राज्ञा
त्वयि
तन्न
विपत्स्यते ।
ततोऽहमभिधास्यामि
न
ह्येष
त्वयि
वक्ष्यति ॥ २६ ॥
एतत्तु
वचनं
श्रुत्वा
कैकेय्या
समुदाहृतम् ।
उवाच
व्यथितो
रामस्तां
देवीं
नृपसन्निधौ ॥ २७ ॥
अहं
हि
वचनाद्राज्ञः
पतेयमपि
पावके ।
भक्षयेयं
विषं
तीक्ष्णं
मज्जेयमपि
चार्णवे ॥ २८ ॥
नियुक्तो
गुरुणा
पित्रा
नृपेण
च
हितेन
च ।
तद्ब्रूहि
वचनं
देवि
राज्ञो
यदभिकाङ्क्षितम् ॥ २९ ॥
करिष्ये
प्रतिजाने
च
रामोद्विर्नाभिभाषते ।
तमार्जवसमायुक्तमनार्या
सत्यवादिनम् ॥ ३० ॥
उवाच
रामं
कैकेयी
वचनं
भृशदारुणम् ।
पुरा
दैवासुरे
युद्धे
पित्रा
ते
मम
राघव ॥ ३१ ॥
रक्षितेन
वरौ
दत्तौ
सशल्येन
महारणे ।
तत्र
मे
याचितो
राजा
भरतस्याभिषेचनम् ॥ ३२ ॥
गमनं
दण्डकारण्ये
तव
चाद्यैव
राघव ।
यदि
सत्यप्रतिज्ञां
त्वं
पितरं
कर्तुमिच्छसि ॥ ३३ ॥
आत्मानं
नरश्रेष्ठ
मम
वाक्यमिदं
शृणु ।
सन्निदेशे
पितुस्तिष्ठ
यथाऽनेन
प्रतिश्रुतम् ॥ ३४ ॥
त्वयारण्यं
प्रवेष्टव्यं
नव
वर्षाणि
पञ्च
च ।
भरतस्त्वभिषिच्येत
यदेतदभिषेचनम् ॥ ३५ ॥
त्वदर्थे
विहितं
राज्ञा
तेन
सर्वेण
राघव ।
सप्त
सप्त
च
वर्षाणि
दण्डकारण्यमाश्रितः ॥ ३६ ॥
अभिषेकमिमं
त्यक्त्वा
जटाजिनधरो
वस ।
भरतः
कोसलपुरे
प्रशास्तु
वसुधामिमाम् ॥ ३७ ॥
नानारत्नसमाकीर्णां
सवाजिरथकुञ्जराम् ।
एतेन
त्वां
नरेन्द्रोऽयं
कारुण्येन
समाप्लुतः ॥ ३८ ॥
शोकसङ्क्लिष्टवदनो
न
शक्नोति
निरीक्षितुम् ।
एतत्
कुरु
नरेन्द्रस्य
वचनं
रघुनन्दन ॥ ३९ ॥
सत्येन
महता
राम
तारयस्व
नरेश्वरम् ।
इतीव
तस्यां
परुषं
वदन्त्यां
न
चैव
रामः
प्रविवेश
शोकम् ॥ ४० ॥
प्रविव्यथे
चापि
महानुभावो
राजा
तु
पुत्रव्यसनाभितप्तः ॥ ४१ ॥