तदप्रियममित्रघ्नो
वचनं
मरणोपमम् ।
श्रुत्वा
न
विव्यथे
रामः
कैकेयीं
चेदमब्रवीत् ॥ १ ॥
एवमस्तु
गमिष्यामि
वनं
वस्तुमहं
त्वितः ।
जटाजिनधरो
राज्ञः
प्रतिज्ञामनुपालयन् ॥ २ ॥
इदं
तु
ज्ञातुमिच्छामि
किमर्थं
मां
महीपतिः ।
नाभिनन्दति
दुर्द्धर्षो
यथापुरमरिन्दमः ॥ ३ ॥
मन्युर्न
च
त्वया
कार्यो
देवि
ब्रूमि
तवाग्रतः ।
यास्यामि
भव
सुप्रीता
वनं
चीरजटाधरः ॥ ४ ॥
हितेन
गुरुणा
पित्रा
कृतज्ञेन
नृपेण
च ।
नियुज्यमानो
विस्रब्धः
किं
न
कुर्यामहं
प्रियम् ॥ ५ ॥
अलीकं
मानसं
त्वेकं
हृदयं
दहतीव
मे ।
स्वयं
यन्नाह
मां
राजा
भरतस्याभिषेचनम् ॥ ६ ॥
अहं
हि
सीतां
राज्यं
च
प्राणानिष्टान्
धनानि
च ।
हृष्टो
भ्रात्रे
स्वयं
दद्यां
भरतायाप्रचोदितः ॥ ७ ॥
किं
पुनर्मनुजेन्द्रेण
स्वयं
पित्रा
प्रचोदितः ।
तव
च
प्रियकामार्थं
प्रतिज्ञामनुपालयन् ॥ ८ ॥
तदाश्वासय
हीमं
त्वं
किं
न्विदं
यन्महीपतिः ।
वसुधासक्तनयनो
मन्दमश्रूणि
मुञ्चति ॥ ९ ॥
गच्छन्तु
चैवानयितुं
दूताः
शीघ्रजवैर्हयैः ।
भरतं
मातुलकुलादद्यैव
नृपशासनात् ॥ १० ॥
दण्डकारण्यमेषोऽहमितो
गच्छामि
सत्वरः ।
अविचार्य
पितुर्वाक्यं
समा
वस्तुं
चतुर्दश ॥ ११ ॥
सा
हृष्टा
तस्य
तद्वाक्यं
श्रुत्वा
रामस्य
कैकयी ।
प्रस्थानं
श्रद्दधाना
हि
त्वरयामास
राघवम् ॥ १२ ॥
एवं
भवतु
यास्यन्ति
दूताः
शीघ्रजवैर्हयैः ।
भरतं
मातुलकुलादुपावर्त्तयितुं
नराः ॥ १३ ॥
तव
त्वहं
क्षमं
मन्ये
नोत्सुकस्य
विलम्बनम् ।
राम
तस्मादितः
शीघ्रं
वनं
त्वं
गन्तुमर्हसि ॥ १४ ॥
व्रीडान्वितः
स्वयं
यच्च
नृपस्त्वां
नाभिभाषते ।
नैतत्किञ्चिन्नरश्रेष्ठ
मन्युरेषोपनीयताम् ॥ १५ ॥
यावत्त्वं
न
वनं
यातः
पुरादस्मादभित्वरन् ।
पिता
तावन्न
ते
राम
स्नास्यते
भोक्ष्यतेऽपि
वा ॥ १६ ॥
धिक्कष्टमिति
निश्वस्य
राजा
शोकपरिप्लुतः ।
मूर्च्छितो
न्यपतत्तस्मिन्
पर्यङ्के
हेमभूषिते ॥ १७ ॥
रामोप्युत्थाप्य
राजानं
कैकेय्याभिप्रचोदितः ।
कशये
वाहतो
वाजी
वनं
गन्तुं
कृतत्वरः ॥ १८ ॥
तदप्रियमनार्याया
वचनं
दारुणोदयम् ।
श्रुत्वा
गतव्यथो
रामः
कैकेयीं
वाक्यमब्रवीत् ॥ १९ ॥
नाहमर्थपरो
देवि
लोकमावस्तुमुत्सुहे ।
विद्धि
मामृषिभिस्तुल्यं
केवलं
धर्ममास्थितम् ॥ २० ॥
यदत्रभवतः
किञ्चिच्छक्यं
कर्तुं
प्रियं
मया ।
प्राणानपि
परित्यज्य
सर्वथा
कृतमेव
तत् ॥ २१ ॥
न
ह्यतो
धर्मचरणं
किञ्चिदस्ति
महत्तरम् ।
यथा
पितरि
शुश्रूषा
तस्य
वा
वचनक्रिया ॥ २२ ॥
अनुक्तोप्यत्रभवता
भवत्या
वचनादहम् ।
वने
वत्स्यामि
विजने
वर्षाणीह
चतुर्दश ॥ २३ ॥
न
नूनं
मयि
कैकेयि
किञ्चिदाशंससे
गुणम् ।
यद्राजानमवोचस्त्वं
ममेश्वरतरा
सती ॥ २४ ॥
यावन्मातरमापृच्छे
सीतां
चानुनयाम्यहम् ।
ततोऽद्यैव
गमिष्यामि
दण्डकानां
महद्वनम् ॥ २५ ॥
भरतः
पालयेद्राज्यं
शुश्रूषेच्च
पितुर्यथा ।
तथा
भवत्या
कर्त्तव्यं
स
हि
धर्मस्सनातनः ॥ २६ ॥
स
रामस्य
वचः
श्रुत्वा
भृशं
दुःखहतः
पिता ।
शोकादशक्नुवन्
बाष्पं
प्ररुरोद
महास्वनम् ॥ २७ ॥
वन्दित्वा
चरणौ
रामो
विसञ्ज्ञस्य
पितुस्तथा ।
कैकेय्याश्चाप्यनार्याया
निष्पपात
महाद्य़ुतिः ॥ २८ ॥
स
रामः
पितरं
कृत्वा
कैकेयीं
च
प्रदक्षिणम् ।
निष्क्रम्यान्तः
पुरात्तस्मात्
स्वं
ददर्श
सुहृज्जनम् ॥ २९ ॥
तं
बाष्पपरिपूर्णाक्षः
पृष्ठतोऽनुजगाम
ह ।
लक्ष्मणः
परमक्रुद्धः
सुमित्रानन्दवर्द्धनः ॥ ३० ॥
आभिषेचनिकं
भाण्डं
कृत्वा
रामः
प्रदक्षिणम् ।
शनैर्जगाम
सापेक्षो
हृष्टिं
तत्राविचालयन् ॥ ३१ ॥
न
चास्य
महतीं
लक्ष्मीं
राज्यनाशोऽपकर्षति ।
लोककान्तस्य
कान्तत्वाच्छीतरश्मेरिव
क्षपा ॥ ३२ ॥
न
वनं
गन्तुकामस्य
त्यजतश्च
वसुन्धराम् ।
सर्वलोकातिगस्येव
लक्ष्यते
चित्तविक्रिया ॥ ३३ ॥
प्रतिषिध्य
शुभं
छत्रं
व्यजने
च
स्वलङ्कृते ।
विसर्जयित्वा
स्वजनं
रथं
पौरांस्तथा
जनान् ॥ ३४ ॥
धारयन्
मनसा
दुःखमिन्द्रियाणि
निगृह्य
च ।
प्रविवेशात्मवान्
वेश्म
मातुरप्रियशंसिवान् ॥ ३५ ॥
सर्वो
ह्यभिजनः
श्रीमान्
श्रीमतः
सत्यवादिनः ।
नालक्षयत
रामस्य
किञ्चिदाकारमानने ॥ ३६ ॥
उचितं
च
महाबाहुर्न
जहौ
हर्षमात्मनः ।
शारदः
समुदीर्णांशुश्चन्द्रस्तेज
इवात्मजम् ॥ ३७ ॥
वाचा
मधुरनया
रामः
सर्वं
सम्मानयन्
जनम् ।
मातुः
समीपं
धीरात्मा
प्रविवेश
महायशाः ॥ ३८ ॥
तं
गुणैः
समतां
प्राप्तो
भ्राता
विपुलविक्रमः ।
सौमित्रिरनुवव्राज
धारयन्
दुःखमात्मजम् ॥ ३९ ॥
प्रविश्य
वेश्मातिभृशं
मुदान्वितं
समीक्ष्य
तां
चार्थविपत्तिमागताम् ।
न
चैव
रामोऽत्र
जगाम
विक्रियां
सुहृज्जनस्यात्मविपत्तिशङ्कया ॥ ४० ॥