तथा
तु
विलपन्तीं
तां
कौसल्यां
राममातरम् ।
उवाच
लक्ष्मणो
दीनस्तत्कालसदृशं
वचः ॥ १ ॥
न
रोचते
ममाप्येतदार्ये
यद्राघवो
वनम् ।
त्यक्त्वा
राज्यश्रियं
गच्छेत्
स्त्रिया
वाक्यवशं
गतः ॥ २ ॥
विपरीतश्च
वृद्धश्च
विषयैश्च
प्रधर्षितः ।
नृपः
किमिव
न
ब्रूयाच्चोद्यमानः
समन्मथः ॥ ३ ॥
नास्यापराधं
पश्यामि
नापि
दोषं
तथाविधम् ।
येन
निर्वास्यते
राष्ट्राद्वनवासाय
राघवः ॥ ४ ॥
न
तं
पश्याम्यहं
लोके
परोक्षमपि
यो
नरः ।
स्वमित्रोपि
निरस्तोपि
योऽस्य
दोषमुदाहरेत् ॥ ५ ॥
देवकल्पमृजुं
दान्तं
रिपूणामपि
वत्सलम् ।
अवेक्षमाणः
को
धर्मं
त्यजेत्
पुत्रमकारणात् ॥ ६ ॥
तदिदं
वचनं
राज्ञः
पुनर्बाल्यमुपेयुषः ।
पुत्रः
को
हृदये
कुर्याद्राजवृत्तमनुस्मरन् ॥ ७ ॥
यावदेव
न
जानाति
कश्चिदर्थमिमं
नरः ।
तावदेव
मया
सार्द्धमात्मस्थं
कुरु
शासनम् ॥ ८ ॥
मया
पार्श्वे
सधनुषा
तव
गुप्तस्य
राघव ।
कः
समर्थोऽधिकं
कर्तुं
कृतान्तस्येव
तिष्ठतः ॥ ९ ॥
निर्मनुष्यामिमां
सर्वामयोध्यां
मनुजर्षभ ।
करिष्यामि
शरैस्तीक्ष्णैर्यदि
स्थास्यति
विप्रिये ॥ १० ॥
भरतस्याथ
पक्ष्यो
वा
यो
वाऽस्य
हितमिच्छति ।
सर्वानेतान्
वधिष्यामि
मृदुर्हि
परिभूयते ॥ ११ ॥
प्रोत्साहितोऽयं
कैकेय्या
स
दुष्टो
यदि
नः
पिता ।
अमित्रभूतो
निस्सङ्गं
वध्यतां
बध्यतामपि ॥ १२ ॥
गुरोरप्यवलिप्तस्य
कार्याकार्यमजानतः ।
उत्पथं
प्रतिपन्नस्य
कार्यं
भवति
शासनम् ॥ १३ ॥
बलमेष
किमाश्रित्य
हेतुं
वा
पुरुषर्षभ ।
दातुमिच्छति
कैकेय्यै
राज्यं
स्थितमिदं
तव ॥ १४ ॥
त्वया
चैव
मया
चैव
कृत्वा
वैरमनुत्तमम् ।
कास्य
शक्तिः
श्रियं
दातुं
भरतायारिशासन ॥ १५ ॥
अनुरक्तोऽस्मि
भावेन
भ्रातरं
देवि
तत्त्वतः ।
सत्येन
धनुषा
चैव
दत्तेनेष्टेन
ते
शपे ॥ १६ ॥
दीप्तमग्निमरण्यं
वा
यदि
रामः
प्रवेक्ष्यति ।
प्रविष्टं
तत्र
मां
देवि
त्वं
पूर्वमवधारय ॥ १७ ॥
हरामि
वीर्याद्दुःखं
ते
तमः
सूर्य
इवोदितः ।
देवी
पश्यतु
मे
वीर्यं
राघवश्चैव
पश्यतु ॥ १८ ॥
एतत्तु
वचनं
श्रुत्वा
लक्ष्मणस्य
महात्मनः ।
उवाच
रामं
कौसल्या
रुदन्ती
शोकलालसा ॥ १९ ॥
भ्रातुस्ते
वदतः
पुत्र
लक्ष्मणस्य
श्रुतं
त्वया ।
यदत्रानन्तरं
कार्यं
कुरुष्व
यदि
रोचते ॥ २० ॥
न
चाधर्म्यं
वचः
श्रुत्वा
सपत्न्या
मम
भाषितम् ।
विहाय
शोकसन्तप्तां
गन्तुमर्हसि
मामितः ॥ २१ ॥
धर्मज्ञ
यदि
धर्मिष्ठो
धर्मं
चरितुमिच्छसि ।
शुश्रूष
मामिहस्थस्त्वं
चर
धर्ममनुत्तमम् ॥ २२ ॥
शुश्रूषुर्जननीं
पुत्रः
स्वगृहे
नियतो
वसन् ।
परेण
तपसायुक्तः
काश्यपस्त्रिदिवं
गतः ॥ २३ ॥
यथैव
राजा
पूज्यस्ते
गौरवेण
तथा
ह्यहम् ।
त्वां
नाहमनुजानामि
न
गन्तव्यमितो
वनम् ॥ २४ ॥
त्वद्वियोगान्न
मे
कार्यं
जीवितेन
सुखेन
वा ।
त्वया
सह
ममश्रेयस्तृणानामपि
भक्षणम् ॥ २५ ॥
यदि
त्वं
यास्यसि
वनं
त्यक्त्वा
मां
शोकलालसाम् ।
अहं
प्रायमिहासिष्ये
न
हि
शक्ष्यामि
जीवितुम् ॥ २६ ॥
ततस्त्वं
प्राप्स्यसे
पुत्र
निरयं
लोकविश्रुतम् ।
ब्रह्महत्यामिवाधर्मात्
समुद्रः
सरितां
पतिः ॥ २७ ॥
विलपन्तीं
तदा
दीनां
कौसल्यां
जननीं
ततः ।
उवाच
रामो
धर्मात्मा
वचनं
धर्मसंहितम् ॥ २८ ॥
नास्ति
शक्तिः
पितुर्वाक्यं
समतिक्रमितुं
मम ।
प्रसादये
त्वां
शिरसा
गन्तुमिच्छाम्यहं
वनम् ॥ २९ ॥
ऋषिणा
च
पितुर्वाक्यं
कुर्वता
व्रतचारिणा ।
गौर्हता
जानता
धर्मं
कण्डुनापि
विपश्चिता ॥ ३० ॥
अस्माकं
च
कुले
पूर्वं
सगरस्याज्ञया
पितुः ।
खनद्भिः
सागरैर्भूमिमवाप्तः
सुमहान्
वधः ॥ ३१ ॥
जामदग्न्येन
रामेण
रेणुका
जननी
स्वयम् ।
कृत्ता
परशुनाऽरण्ये
पितुर्वचनकारिणा ॥ ३२ ॥
एतैरन्यैश्च
बहुभिर्देवि
देवसमैः
कृतम् ।
पितुर्वचनमक्लीबं
करिष्यामि
पितुर्हितम् ॥ ३३ ॥
न
खल्वेतन्मयैकेन
क्रियते
पितृशासनम् ।
एतैरपि
कृतं
देवि
ये
मया
तव
कीर्त्तिताः ॥ ३४ ॥
नाहं
धर्ममपूर्वं
ते
प्रतिकूलं
प्रवर्त्तये ।
पूर्वैरयमभिप्रेतो
गतो
मार्गोऽनुगम्यते ॥ ३५ ॥
तदेतत्तु
मया
कार्यं
क्रियते
भुवि
नान्यथा ।
पितुर्हि
वचनं
कुर्वन्न
कश्चिन्नाम
हीयते ॥ ३६ ॥
तामेवमुक्त्वा
जननीं
लक्ष्मणं
पुनरब्रवीत् ।
वाक्यं
वाक्यविदां
श्रेष्ठः
श्रेष्ठः
सर्वधनुष्मताम् ॥ ३७ ॥
तव
लक्ष्मण
जानामि
मयि
स्नेहमनुत्तमम् ।
विक्रमं
चैव
सत्त्वं
च
तेजश्च
सुदुरासदम् ॥ ३८ ॥
मम
मातुर्महद्दुःखमतुलं
शुभलक्षण ।
अभिप्रायमविज्ञाय
सत्यस्य
च
शमस्य
च ॥ ३९ ॥
धर्मो
हि
परमो
लोके
धर्मे
सत्यं
प्रतिष्ठितम् ।
धर्मसंश्रितमेतच्च
पितुर्वचनमुत्तमम् ॥ ४० ॥
संश्रुत्य
च
पितुर्वाक्यं
मातुर्वा
ब्राह्मणस्य
वा ।
न
कर्त्तव्यं
वृथा
वीर
ध्ार्ममाश्रित्य
तिष्ठता ॥ ४१ ॥
सोहं
न
शक्ष्यामि
पितुर्नियोगमतिवर्तितुम् ।
पितुर्हि
वचनाद्वीर
कैकेय्याऽहं
प्रचोदितः ॥ ४२ ॥
तदेनां
विसृजानार्यां
क्षत्रधर्माश्रितां
मतिम् ।
धर्ममाश्रय
मा
तैक्ष्ण्यं
मद्बुद्धिरनुगम्यताम् ॥ ४३ ॥
तमेवमुक्त्वा
सौहार्दादभ्रातरं
लक्ष्मणाग्रजः ।
उवाच
भूयः
कौसल्यां
प्राञ्जलिः
शिरसा
नतः ॥ ४४ ॥
अनुमन्यस्व
मां
देवि
गमिष्यन्तमितो
वनम् ।
शापितासि
मम
प्राणैः
कुरु
स्वस्त्ययनानि
मे ॥ ४५ ॥
तीर्णप्रतिज्ञश्च
वनात्
पुनरेष्याम्यहं
पुरीम् ।
ययातिरिव
राजर्षिः
पुरा
हित्वा
पुनर्दिवम् ॥ ४६ ॥
शोकः
सन्धार्यतां
मातर्हृदये
साधुमा
शुचः ।
वनवासादिहैष्यामि
पुनः
कृत्वा
पितुर्वचः ॥ ४७ ॥
त्वया
मया
च
वैदेह्या
लक्ष्मणेन
सुमित्रया ।
पितुर्नियोगे
स्थातव्यमेष
धर्मः
सनातनः ॥ ४८ ॥
अम्ब
संहृत्य
सम्भारान्
दुःखं
हृदि
निगृह्य
च ।
वनवासकृता
बुद्धिर्मम
धर्म्यानुवर्त्त्यताम् ॥ ४९ ॥
एतद्वचस्तस्य
निशम्य
माता
सुधर्म्यमव्यग्रमविक्लवं
च ।
मृतेव
सञ्ज्ञां
प्रतिलभ्य
देवी
समीक्ष्य
रामं
पुनरित्युवाच ॥ ५० ॥
यथ्ौव
ते
पुत्र
पिता
तथाहं
गुरुः
स्वधर्मेण
सुहृत्तया
च ।
न
त्वानुजानामिन
मां
विहाय
सुदुःखितामर्हसि
गन्तुमेवम् ॥ ५१ ॥
किं
जीवितेनेह
विना
त्वया
मे
लोकेन
वा
किं
स्वधयाऽमृतेन ।
श्रेयो
मुहूर्त्तं
तव
सन्निधानं
ममेह
कृत्स्नादपि
जीवलोकात् ॥ ५२ ॥
नरैरिवोल्काभिरपोह्यमानो
महागजोऽध्वानमनुप्रविष्टः ।
भूयः
प्रजज्वाल
विलापमेनं
निशम्य
रामः
करुणं
जनन्याः ॥ ५३ ॥
स
मातरं
चैव
विसञ्ज्ञकल्पामर्त्तं
च
सौमित्रिमभिप्रतप्तम् ।
धर्मे
स्थितो
धर्म्यमुवाच
वाक्यं
यथा
स
एवार्हति
तत्र
वक्तुम् ॥ ५४ ॥
अहं
हि
ते
लक्ष्मण
नित्यमेव
जानामि
भक्तिं
च
पराक्रमं
च ।
मम
त्वभिप्रायमसन्निरीक्ष्य
मात्रा
सहाभ्यर्दसि
मां
सुदुःखम् ॥ ५५ ॥
धर्मार्थकामाः
किल
तात
लोके
समीक्षिता
धर्मफलोदयेषु ।
ते
तत्र
सर्वे
स्युरसंशयं
मे
भार्येव
वश्याभिमता
सुपुत्रा ॥ ५६ ॥
यस्मिंस्तु
सर्वे
स्युरसन्निविष्टा
धर्मो
यतः
स्यात्तदुपक्रमेत ।
द्वेष्यो
भवत्यर्थपरो
हि
लोके
कामात्मता
खल्वपि
न
प्रशस्ता ॥ ५७ ॥
गुरुश्च
राजा
च
पिता
च
वृद्धः
क्रोधात्
प्रहर्षाद्
यदि
वापि
कामात् ।
यद्व्यादिशेत्
कार्यमवेक्ष्य
धर्मं
कस्तं
न
कुर्यादनृशंसवृत्तिः ॥ ५८ ॥
स
वै
न
शक्नोमि
पितुः
प्रतिज्ञामिमामकर्तुं
सकलां
यथावत् ।
स
ह्यावयोस्तात
गुरुर्नियोगे
देव्याश्च
भर्त्ता
स
गतिः
स
धर्मः ॥ ५९ ॥
तस्मिन्
पुनर्जीवति
धर्मराजे
विशेषतः
स्वे
पथि
वर्त्तमाने ।
देवी
मया
सार्द्धमितोऽपगच्छेत्
कथंस्विदन्या
विधवेव
नारी ॥ ६० ॥
सा
माऽनुमन्यस्व
वनं
व्रजन्तं
कुरुष्व
नः
स्वस्त्ययनानि
देवि ।
यथा
समाप्ते
पुनराव्रजेयं
यथा
हि
सत्येव
पुनर्ययातिः ॥ ६१ ॥
यशो
ह्यहं
केवलराज्यकारणन्न
पृष्ठतः
कर्तुमलं
महोदयम् ।
अदीर्घकाले
न
तु
देवि
जीविते
वृणेऽवरामद्य
महीमधर्मतः ॥ ६२ ॥
प्रसादयन्नरवृषभः
स्वमातरं
पराक्रमाज्जिगमिषुरेव
दण्डकान् ।
अथानुजं
भृशमनुशास्य
दर्शनं
चकार
तां
हृदि
जननीं
प्रदक्षिणम् ॥ ६३ ॥