अथ
तं
व्यथया
दीनं
सविशेषममर्षितम् ।
श्वसन्तमिव
नागेन्द्रं
रोषविस्फारितेक्षणम् ॥ १ ॥
आसाद्य
रामः
सौमित्रिं
सुहृदं
भ्रातरं
प्रियम् ।
उवाचेदं
स
धैर्येण
धारयन्
सत्त्वमात्मवान् ॥ २ ॥
निगृह्य
रोषं
शोकं
च
धैर्यमाश्रित्य
केवलम् ।
अवमानं
निरस्येमं
गृहीत्वा
हर्षमुत्तमम् ॥ ३ ॥
उपक्लृप्तं
हि
यत्किञ्चिदभिषेकार्थमद्य
मे ।
सर्वं
विसर्जयक्षिप्रं
पुरु
कार्यं
निरत्ययम् ॥ ४ ॥
सौमित्रे
योऽभिषेकार्थे
मम
सम्भारसम्भ्रमः ।
अभिषेकनिवृत्त्यर्थे
सोऽस्तु
सम्भारसम्भ्रमः ॥ ५ ॥
यस्या
मदभिषेकार्थे
मानसं
परितप्यते ।
माता
मे
सा
यथा
न
स्यात्
सविशङ्का
तथा
कुरु ॥ ६ ॥
तस्याः
शङ्कामयं
दुःखं
मुहूर्त्तमपि
नोत्सहे ।
मनसि
प्रतिसञ्जातं
सौमित्रेऽहमुपेक्षितुम् ॥ ७ ॥
न
बुद्धिपूर्वं
नाबुद्धंस्मरामीह
कदाचन ।
मातॄणां
वा
पितुर्वाहं
कृतमल्पं
च
विप्रियम् ॥ ८ ॥
सत्यः
सत्याभिसन्धश्च
नित्यं
सत्यपराक्रमः ।
परलोकभयाद्भीतो
निर्भयोऽस्तु
पिता
मम ॥ ९ ॥
तस्यापि
हि
भवेदस्मिन्
कर्मण्यप्रतिसंहृते ।
सत्यं
नेति
मनस्तापस्तस्य
तापस्तपेच्च
माम् ॥ १० ॥
अभिषेकविधानं
तु
तस्मात्
संहृत्य
लक्ष्मण ।
अन्वगेवाहमिच्छामि
वनं
गन्तुमितः
पुनः ॥ ११ ॥
मम
प्रव्राजनादद्य
कृतकृत्या
नृपात्मजा ।
सुतं
भरतमव्यग्रमभिषेचयिता
ततः ॥ १२ ॥
मयि
चीराजिनधरे
जटामण्डलधारिणि ।
गतेऽरण्यं
च
कैकेय्या
भविष्यति
मनस्सुखम् ॥ १३ ॥
बुद्धिः
प्रणीता
येनेयं
मनश्च
सुसमाहितम् ।
तं
तु
नार्हामि
सङ्क्लेष्टुं
प्रव्रजिष्यामि
माचिरम् ॥ १४ ॥
कृतान्तस्त्वेव
सौमित्रे
द्रष्टव्यो
मत्प्रवासने ।
राज्यस्य
च
वितीर्णस्य
पुनरेव
निवर्तने ॥ १५ ॥
कैकेय्याः
प्रतिपत्तिर्हि
कथं
स्यान्मम
पीडने ।
यदि
भावो
न
दैवोऽयं
कृतान्तविहितो
भवेत् ॥ १६ ॥
जानासि
हि
यथा
सौम्य
न
मातृषु
ममान्तरम् ।
भूतपूर्वं
विशेषो
वा
तस्या
मयि
सुतेऽपि
वा ॥ १७ ॥
सोभिषेकनिवृत्त्यर्थैः
प्रवासार्थैश्च
दुर्वचैः ।
उग्रैर्वाक्यैरहं
तस्या
नान्यद्दैवात्समर्थये ॥ १८ ॥
कथं
प्रकृतिसंपन्ना
राजपुत्री
तथागुणा ।
ब्रूयात्
सा
प्राकृतेव
स्त्री
मत्पीडां
भर्तृसन्निधौ ॥ १९ ॥
यदचिन्त्यं
तु
तद्दैवं
भूतेष्वपि
न
हन्यते ।
व्यक्तं
मयि
च
तस्यां
च
पतितो
हि
विपर्ययः ॥ २० ॥
कश्च
दैनेव
सौमित्रे
योद्धुमुत्सहते
पुमान् ।
यस्य
न
ग्रहणं
किञ्चित्
कर्मणोऽन्यत्र
दृश्यते ॥ २१ ॥
सुखदुःखे
भयक्रोधौ
लाभालाभौ
भवाभवौ ।
यच्च
किञ्चित्तथाभूतं
ननु
दैवस्य
कर्म
तत् ॥ २२ ॥
ऋषयोप्युग्रतपसो
दैवेनाभिप्रपीडिताः ।
उत्सृज्य
नियमांस्तीव्रान्
भ्रश्यन्ते
काममन्युभिः ॥ २३ ॥
असङ्कल्पितमेवेह
यदकस्मात्
प्रवर्त्तते ।
निवर्त्त्यारम्भमारब्धं
ननु
दैवस्य
कर्म
तत् ॥ २४ ॥
एतया
तत्त्वया
बुद्ध्या
संस्तभ्यात्मानमात्मना ।
व्याहतेऽप्यभिषेके
मे
परितापो
न
विद्यते ॥ २५ ॥
तस्मादपरितापः
संस्त्वमप्यनुविधाय
माम् ।
प्रतिसंहारय
क्षिप्रमाभिषेचनिकीं
क्रियाम् ॥ २६ ॥
एभिरेव
घटैः
सर्वैरभिषेचनसम्भृतैः ।
मम
लक्ष्मण
तापस्ये
व्रतस्नानं
भविष्यति ॥ २७ ॥
अथवा
किं
ममैतेन
राजद्रव्यमतेन
तु ।
उद्धृतं
मे
स्वयं
तोयं
व्रतादेशं
करिष्यति ॥ २८ ॥
मा
च
लक्ष्मण
सन्तापं
कार्षिर्लक्ष्म्या
विपर्यये ।
राज्यं
वा
वनवासो
वा
वनवासो
महोदयः ॥ २९ ॥
न
लक्ष्मणास्मिन्
खलु
कर्मविघ्ने
माता
यवीयस्यतिशङ्कनीया ।
दैवाभिपन्ना
हि
वदत्यनिष्टं
जानासि
दैवं
च
तथा
प्रभावम् ॥ ३० ॥