इति
ब्रुवति
रामे
तु
लक्ष्मणोऽधश्शिरा
मुहुः ।
श्रुत्वा
मध्यं
जगामेव
मनसा
दुःखहर्षयोः ॥ १ ॥
तदा
तु
बद्ध्वा
भ्रुकुटीं
भ्रुवोर्मध्ये
नरर्षभः ।
निशश्वास
महासर्पो
बिलस्थ
इव
रोषितः ॥ २ ॥
तस्य
दुष्प्रतिवीक्षं
तद्भ्रुकुटीसहितं
तदा ।
बभौ
क्रुद्धस्य
सिंहस्य
मुखस्य
सदृशं
मुखम् ॥ ३ ॥
तिर्यगूर्ध्वं
शरीरे
च
पातयित्वा
शिरोधराम् ।
अग्राक्ष्णा
वीक्षमाणस्तु
तिर्यग्
भ्रातरमब्रवीत् ॥ ४ ॥
अस्थाने
सम्भ्रमो
यस्य
जातो
वै
सुमहानयम् ।
धर्मदोषप्रसङ्गेन
लोकस्यानतिशङ्कया ॥ ५ ॥
कथं
ह्येतदसम्भ्रान्तस्त्वद्विधो
वक्तुमर्हति ।
यथा
दैवमशौण्डीरं
शौण्डीर
क्षत्रियर्षभ ॥ ६ ॥
किन्नाम
कृपणं
दैवमशक्तमभिशंससि ।
पापयोस्ते
कथं
नाम
तयोः
शङ्का
न
विद्यते ॥ ७ ॥
सन्ति
धर्मोपधाः
श्लक्ष्णा
धर्मात्मन्
किं
न
बुध्यसे ।
तयोः
सुचरितं
स्वार्थं
शाठ्यात्
परिजिहीर्षतोः ॥ ८ ॥
यदि
नैवं
व्यवसितं
स्याद्धि
प्रागेव
राघव ।
तयोः
प्रागेव
दत्तश्च
स्याद्वरः
प्रकृतश्च
सः ॥ ९ ॥
लोकविद्विष्टमारब्धं
त्वदन्यस्याभिषेचनम् ।
नोत्सहे
सहितुं
वीर
तत्र
मे
क्षन्तुमर्हसि ॥ १० ॥
येनेयमागता
द्वैधं
तव
बुद्धिर्महामते ।
स
हि
धर्मो
मम
द्वेष्यः
प्रसङ्गाद्यस्य
मुह्यसि ॥ ११ ॥
कथं
त्वं
कर्मणा
शक्तः
कैकेयीवशवर्त्तिनः ।
करिष्यसि
पितुर्वाक्यमधर्मिष्ठं
विगर्हितम् ॥ १२ ॥
यद्ययं
किल्बिषाद्भेदः
कृतोऽप्येवं
न
गृह्यते ।
जायते
तत्र
मे
दुःखं
धर्मसङ्गश्च
गर्हितः ॥ १३ ॥
मनसापि
कथं
कामं
कुर्यास्त्वं
कामवृत्तयोः ।
तयोस्त्वहितयोर्नित्यं
शत्र्वोः
पित्रभिधानयोः ॥ १४ ॥
यद्यपि
प्रतिपत्तिस्ते
दैवी
चापि
तयोर्मतम् ।
तथाप्युपेक्षणीयं
ते
न
मे
तदपि
रोचते ॥ १५ ॥
विक्लवो
वीर्यहीनो
यः
स
दैवमनुवर्त्तते ।
वीराः
सम्भावितात्मानो
न
दैवं
पर्युपासते ॥ १६ ॥
दैवं
पुरुषकारेण
यः
समर्थः
प्रबाधितुम् ।
न
दैवेन
विपन्नार्थः
पुरुषः
सोऽवसीदति ॥ १७ ॥
द्रक्ष्यन्ति
त्वद्य
दैवस्य
पौरुषं
पुरुषस्य
च ।
दैवमानुषयोरद्य
व्यक्ता
व्यक्तिर्भविष्यति ॥ १८ ॥
अद्य
मत्पौरुषहतं
दैवं
द्रक्ष्यन्ति
वै
जनाः ।
यद्दैवादाहतं
तेऽद्य
दृष्टं
राज्याभिषेचनम् ॥ १९ ॥
अत्यङ्कुशमिवोद्दामं
गजं
मदबलोद्धतम् ।
प्रधावितमहं
दैवं
पौरुषेण
निवर्त्तये ॥ २० ॥
लोकपालास्समस्तास्ते
नाद्य
रामाभिषेचनम् ।
न
च
कृत्स्नास्त्रयो
लोका
विहन्युः
किं
पुनः
पिता ॥ २१ ॥
यैर्विवासस्तवारण्ये
मिथो
राजन्
समर्थितः ।
अरण्ये
ते
विवत्स्यन्ति
चतुर्दश
समास्तथा ॥ २२ ॥
अहं
तदाशां
छेत्स्यामि
पितुस्तस्याश्च
या
तव ।
अभिषेकविघातेन
पुत्रराज्याय
वर्तते ॥ २३ ॥
मद्बलेन
विरुद्धाय
न
स्याद्दैवबलं
तथा ।
प्रभविष्यति
दुःखाय
यथोग्रं
पौरुषं
मम ॥ २४ ॥
ऊर्ध्वं
वर्षसहस्रान्ते
प्रजापाल्यमनन्तरम् ।
आर्यपुत्राः
करिष्यन्ति
वनवासं
गते
त्वयि ॥ २५ ॥
पूर्वं
राजर्षिवृत्त्या
हि
वनवासो
विधीयते ।
प्रजा
निक्षिप्य
पुत्रेषु
पुत्रवत्परिपालने ॥ २६ ॥
स
चेद्राजन्यनेकाग्रे
राज्यविभ्रमशङ्कया ।
नैवमिच्छसि
धर्मात्मन्
राज्यं
राम
त्वमात्मनि ॥ २७ ॥
प्रतिजाने
च
ते
वीर
माभूवं
वीरलोकभाक् ।
राज्यं
च
तव
रक्षेयमहं
वेलेव
सागरम् ॥ २८ ॥
मङ्गलैरभिषिञ्चस्व
तत्र
त्वं
व्यापृतो
भव ।
अहमेको
महीपालानलं
वारयितुं
बलात् ॥ २९ ॥
नासिराबन्धनार्थाय
न
शरास्तम्भहेतवः ।
अमित्रदमनार्थं
मे
सर्वमेतच्चतुष्टयम् ॥ ३० ॥
असिना
तीक्ष्णधारेण
विद्युच्चलितवर्चसा ।
प्रगृहीतेन
वै
शत्रुं
वज्रिणं
वा
न
कल्पये ॥ ३१ ॥
खड्गनिष्पेषनिष्पिष्टैर्गहना
दुश्चरा
च
मे ।
हस्त्यश्वनरहस्तोरुशिरोभिर्भविता
मही ॥ ३२ ॥
खड्गधाराहता
मेऽद्य
दीप्यमाना
इवाद्रयः ।
पतिष्यन्ति
द्विपा
भूमौ
मेधा
इव
सविद्युतः ॥ ३३ ॥
बद्धगोधाङ्गुलित्राणे
प्रगृहीतशरासने ।
कथं
पुरुषमानी
स्यात्
पुरुषाणां
मयि
स्थिते ॥ ३४ ॥
बहुभिश्चैकमत्यस्यन्नेकेन
च
बहून्
जनान् ।
विनियोक्ष्याम्यहं
बाणान्
नृवाजिगजमर्मसु ॥ ३५ ॥
अद्य
मेऽस्त्रप्रभावस्य
प्रभावः
प्रभविष्यति ।
राज्ञश्चाप्रभुतां
कर्त्तुं
प्रभुत्वं
च
तव
प्रभो ॥ ३६ ॥
अद्य
चन्दनसारस्य
केयुरामोक्षणस्य
च ।
वसूनां
च
विमोक्षस्य
सुहृदां
पालनस्य
च ॥ ३७ ॥
अनुरूपाविमौ
बाहू
राम
कर्म
करिष्यतः ।
अभिषेचनविघ्नस्य
कर्तॄणां
ते
निवारणे ॥ ३८ ॥
ब्रवीहि
कोऽद्यैव
मया
वियुज्यतां
तवासुहृत्प्राणयशः
सुहृज्जनैः ।
यथा
तवेयं
वसुधा
वशे
भवेत्तथैव
मां
शाधि
तवास्मि
किङ्करः ॥ ३९ ॥
विमृज्य
बाष्पं
परिसान्त्व्य
चासकृत्
स
लक्ष्मणं
राघववंशवर्द्धनः ।
उवाच
पित्र्ये
वचने
व्यवस्थितं
निबोध
मामेव
हि
सौम्य
सत्पथे ॥ ४० ॥