तं
समीक्ष्य
त्ववहितं
पितुर्निर्देशपालने ।
कौसल्या
बाष्पसंरुद्धा
वचो
धर्मिष्ठमब्रवीत् ॥ १ ॥
अदृष्टदुःखो
धर्मात्मा
सर्वभूतप्रियंवदः ।
मयि
जातो
दशरथात्
कथमुञ्छेन
वर्त्तयेत् ॥ २ ॥
यस्य
भृत्याश्च
दासाश्च
मृष्टान्यन्नानि
भुञ्जते ।
कथं
स
भोक्ष्यते
नाथो
वने
मूलफलान्ययम् ॥ ३ ॥
क
एतच्छ्रद्दधेत्
श्रुत्वा
कस्य
वा
न
भेवद्भयम् ।
गुणवान्
दयितो
राजा
राघवो
यद्विवास्यते ॥ ४ ॥
नूनं
तु
बलवान्
लोके
कृतान्तः
सर्वमादिशन् ।
लोके
रामाभिरामस्त्वं
वनं
यत्र
गमिष्यसि ॥ ५ ॥
अयं
तु
मामात्मभवस्तवादर्शनमारुतः ।
विलापदुःखसमिधो
रुदिताश्रुहुताहुतिः ॥ ६ ॥
चिन्ताबाष्पमहाधूमस्तवादर्शनचित्तजः ।
कर्शयित्वा
भृशं
पुत्र
निश्वासायाससम्भवः ॥ ७ ॥
त्वया
विहीनामिह
मां
शोकाग्निरतुलो
महान् ।
प्रधक्ष्यति
यथा
कक्षं
चित्रभानुर्हिमात्यये ॥ ८ ॥
कथं
हि
धेनुः
स्वं
वत्सं
गच्छन्तं
नानुगच्छति ।
अहं
त्वाऽनुगमिष्यामि
पुत्र
यत्र
गमिष्यसि ॥ ९ ॥
तथा
निगदितं
मात्रा
तद्वाक्यं
पुरुषर्षभः ।
श्रुत्वा
रामोऽब्रवीद्वाक्यं
मातरं
भृशदुःखिताम् ॥ १० ॥
कैकेय्या
वञ्चितो
राजा
मयि
चारण्यमाश्रिते ।
भवत्या
च
परित्यक्तो
न
नूनं
वर्त्तयिष्यति ॥ ११ ॥
भर्तुः
किल
परित्यागो
नृशंसः
केवलं
स्त्रियाः ।
स
भवत्या
न
कर्तव्यो
मनसापि
विगर्हितः ॥ १२ ॥
यावज्जीवति
काकुत्स्थः
पिता
मे
जगतीपतिः ।
शुश्रूषा
क्रियतां
तावत्
स
हि
धर्मस्सनातनः ॥ १३ ॥
एवमुक्ता
तु
रामेण
कौसल्या
शुभदर्शना ।
तथैत्युवाच
सुप्रीता
राममक्लिष्टकारिणम् ॥ १४ ॥
एवमुक्तस्तु
वचनं
रामो
धर्मभृतां
वरः ।
भूयस्तामब्रवीद्वाक्यं
मातरं
भृशदुःखिताम् ॥ १५ ॥
मया
चैव
भवत्या
च
कर्त्तव्यं
वचनं
पितुः ।
राजा
भर्त्ता
गुरुः
श्रेष्ठः
सर्वेषामीश्वरः
प्रभुः ॥ १६ ॥
इमानि
तु
महारण्ये
विहृत्य
नव
पञ्च
च ।
वर्षाणि
परमप्रीतः
स्थास्यामि
वचने
तव ॥ १७ ॥
एवमुक्ता
प्रियं
पुत्रबाष्पपूर्णानना
तदा ।
उवाच
परमार्ता
तु
कौसल्या
पुत्रवत्सला ॥ १८ ॥
नय
मामपि
काकुत्स्थ
वनं
वन्यां
मृगीमिव ।
यदि
ते
गमने
बुद्धिः
कृता
पितुरपेक्षया ॥ १९ ॥
तां
तथा
रुदतीं
रामो
रुदन्
वचनमब्रवीत् ।
जीवन्त्या
हि
स्त्रिया
भर्त्ता
दैवतं
प्रभुरेव
च ॥ २० ॥
भवत्या
मम
चैवाद्य
राजा
प्रभवति
प्रभुः ।
भरतश्चापि
धर्मात्मा
सर्वभूतप्रियंवदः ॥ २१ ॥
भवती
मनुवर्त्तेत
स
हि
धर्मरतः
सदा ।
यथा
मयि
तु
निष्क्रान्ते
पुत्रशोकेन
पार्थिवः ॥ २२ ॥
श्रमं
नावाप्नुयात्किञ्चिदप्रमत्ता
तथा
कुरु ।
दारुणश्चाप्ययं
शोको
यथैनं
न
विनाशयेत् ॥ २३ ॥
राज्ञो
वृद्धस्य
सततं
हितं
चर
समाहिता ।
व्रतोपवासनिरता
या
नारी
परमोत्तमा ॥ २४ ॥
भर्त्तारं
नानुवर्त्तेत
सा
तु
पापगतिर्भवेत् ।
भर्तृशुश्रूषया
नारी
लभते
स्वर्गमुत्तमम् ॥ २५ ॥
अपि
या
निर्नमस्कारा
निवृत्ता
देवपूजनात् ।
शुश्रूषामेव
कुर्वीत
भर्तुः
प्रियहिते
रता ॥ २६ ॥
एष
धर्मः
पुरा
दृष्टो
लोके
वेदे
श्रुतः
स्मृतः ।
अग्निकार्येषु
च
सदा
सुमनोभिश्च
देवताः ॥ २७ ॥
पूज्यास्ते
मत्कृते
देवि
ब्राह्मणाश्चैव
सुव्रताः ।
एवं
कालं
प्रतीक्षस्व
ममागमनकाङ्क्षिणी ॥ २८ ॥
नियतानियताहारा
भर्तृशुश्रूषणे
रता ।
प्राप्स्यसे
परमं
कामं
मयि
प्रत्यागते
सति ॥ २९ ॥
यदि
धर्मभृतां
श्रेष्ठो
धारयिष्यति
जीवितम् ।
एवमुक्ता
तु
रामेण
बाष्पपर्याकुलेक्षणा ॥ ३० ॥
कौसल्या
पुत्रशोकार्त्ता
रामं
वचनमब्रवीत् ।
गमने
सुकृतां
बुद्धिं
न
ते
शक्नोमि
पुत्रक ॥ ३१ ॥
विनिवर्त्तयितुं
वीर
नूनं
कालो
दुरत्ययः ।
गच्छ
पुत्रत्वमेकाग्रो
भद्रं
तेऽस्तु
सदा
विभो ॥ ३२ ॥
पुनस्त्वयि
निवृत्ते
तु
भविष्यामि
गतक्लमा ।
प्रत्यागते
महाभागे
कृतार्थेचरितव्रते ॥ ३३ ॥
पितुरानृण्यतां
प्राप्ते
त्वयि
लप्स्ये
परं
सुखम् ।
कृतान्तस्य
गतिः
पुत्र
दुर्विभाव्या
सदा
भुवि ॥ ३४ ॥
यस्त्वां
सञ्चोदयति
मे
वच
आच्छिद्य
राघव ।
गच्छेदानीं
महाबाहो
क्षेमेण
पुनरागतः ॥ ३५ ॥
नन्दयिष्यसि
मां
पुत्र
साम्ना
वाक्येन
चारुणा ।
अपीदानीं
स
कालः
स्यात्
वनात्
प्रत्यागतं
पुनः ॥ ३६ ॥
यत्त्वां
पुत्रक
पश्येयं
जटावल्कलधारिणम् ।
तथा
हि
रामं
वनवासनिश्चितं
समीक्ष्य
देवी
परमेण
चेतसा ॥ ३७ ॥
उवाच
रामं
शुभलक्षणं
वचो
बभूव
च
स्वस्त्ययनाभिकाङ्क्षिणी ॥ ३८ ॥