साऽपनीय
तमायासमुपस्पृश्य
जलं
शुचिः ।
चकार
माता
रामस्य
मङ्गलानि
मनस्विनी ॥ १ ॥
न
शक्यसे
वारयितुं
गच्छेदानीं
रघूत्तम ।
शीघ्रं
च
विनिवर्त्तस्व
वर्त्तस्व
च
सतां
क्रमे ॥ २ ॥
यं
पालयसि
धर्मं
त्वं
धृत्या
च
नियमेन
च ।
स
वै
राघवशार्दूल
धर्मस्त्वामभिरक्षतु ॥ ३ ॥
येभ्यः
प्रणमसे
पुत्र
चैत्येष्वायतनेषु
च ।
ते
च
त्वामभिरक्षन्तु
वने
सह
महर्षिभिः ॥ ४ ॥
यानि
दत्तानि
तेऽस्त्राणि
विश्वामित्रेण
धीमता ।
तानि
त्वामभिरक्षन्तु
गुणैः
समुदितं
सदा ॥ ५ ॥
पितृशुश्रूषया
पुत्र
मातृशुश्रूषया
तथा ।
सत्येन
च
महाबाहो
चिरञ्जीवाभिरक्षितः ॥ ६ ॥
स्थण्डिलानि
विचित्राणि
शैला
वृक्षाः
क्षुपा
ह्रदाः ।
पतङ्गाः
पन्नगाः
सिंहास्त्वां
रक्षन्तु
नरोत्तम ॥ ७ ॥
स्वस्ति
साध्याश्च
विश्वे
च
मरुतश्च
महर्षयः ।
स्वस्ति
धाता
विधाता
च
स्वस्ति
पूषा
भगोऽर्यमा ॥ ८ ॥
लोकपालाश्च
ते
सर्वे
वासवप्रमुखास्तथा ।
ऋतवश्चैव
पक्षाश्च
मासास्संवत्सराः
क्षपाः ॥ ९ ॥
दिनानि
च
मुहूर्त्ताश्च
स्वस्ति
कुर्वन्तु
ते
सदा ।
स्मृतिर्धृतिश्च
धर्मश्च
पातु
त्वां
पुत्र
सर्वतः ॥ १० ॥
स्कन्दश्च
भगवान्
देवः
सोमश्च
सबृहस्पतिः ।
सप्तर्षयो
नारदश्च
ते
त्वां
रक्षन्तु
सर्वतः ॥ ११ ॥
याश्चापि
सर्वतः
सिद्धा
दिशश्च
सदिगीश्वराः ।
स्तुता
मया
वने
तस्मिन्
पान्तु
त्वां
पुत्र
नित्यशः ॥ १२ ॥
शैलाः
सर्वे
समुद्राश्च
राजा
वरुण
एव
च ।
द्यौरन्तरिक्षं
पृथिवी
नद्यः
सर्वास्तथैव
च ॥ १३ ॥
नक्षत्राणि
च
सर्वाणि
ग्रहाश्च
सहदेवताः ।
अहोरात्रे
तथा
सन्ध्ये
पान्तु
त्वां
वनमाश्रितम् ॥ १४ ॥
ऋतवश्चैव
षट्
पुण्या
मासाः
संवत्सरास्तथा ।
कलाश्च
काष्ठाश्च
तथा
तव
शर्म
दिशन्तु
ते ॥ १५ ॥
महावने
विचरतो
मुनिवेषस्य
धीमतः ।
तवादित्याश्च
दैत्याश्च
भवन्तु
सुखदास्सदा ॥ १६ ॥
राक्षसानां
पिशाचानां
रौद्राणां
क्रूरकर्मणाम् ।
क्रव्यादानाञ्च
सर्वेषां
माभूत्पुत्रक
ते
भयम् ॥ १७ ॥
प्लवगा
वृश्चिका
दंशा
मशकाश्चैवकानने ।
सरीसृपाश्च
कीटाश्च
माभूवन्
गहने
तव ॥ १८ ॥
महाद्विपाश्च
सिंहाश्च
व्याघ्रा
ऋक्षाश्च
दंष्ट्रिणः ।
महिषाः
शृङ्गिणो
रौद्रा
न
ते
द्रुह्यन्तु
पुत्रक ॥ १९ ॥
नृमांसभोजना
रौद्रा
ये
चान्ये
सत्त्वजातयः ।
मा
च
त्वां
हिंसिषुः
पुत्र
मया
संपूजितास्त्विह ॥ २० ॥
आगमास्ते
शिवाः
सन्तु
सिद्ध्यन्तु
च
पराक्रमाः ।
सर्वसम्पत्तये
राम
स्वस्तिमान्
गच्छ
पुत्रक ॥ २१ ॥
स्वस्ति
तेऽस्त्वान्तरिक्षेभ्यः
पार्थिवेभ्यः
पुनःपुनः ।
सर्वेभ्यश्चैव
देवेभ्यो
ये
च
ते
परिपन्थिनः ॥ २२ ॥
गुरुः
सोमश्च
सूर्यश्च
धनदोऽथ
यमस्तथा ।
पान्तु
त्वामर्चिता
राम
दण्डकारण्यवासिनम् ॥ २३ ॥
अग्निर्वायुस्तथा
धूमो
मन्त्राश्चर्षिमुखाच्च्युताः ।
उपस्पर्शनकाले
तु
पान्तु
त्वां
रघुनन्दन ॥ २४ ॥
सर्वलोकप्रभुर्ब्रह्मा
भूतभर्त्ता
तथर्षयः ।
ये
च
शेषाः
सुरास्ते
त्वां
रक्षन्तु
वनवासिनम् ॥ २५ ॥
इति
माल्यैः
सुरगणान्
गन्धैश्चापि
यशस्विनी ।
स्तुतिभिश्चानुकूलाभिरानर्चायतलोचना ॥ २६ ॥
ज्वलनं
समुपादाय
ब्राह्मणेन
महात्मना ।
हावयामास
विधिना
राममङ्गलकारणात् ॥ २७ ॥
घृतं
श्वेतानि
माल्यानि
समिधः
श्वेतसर्षपान् ।
उपसम्पादयामास
कौसल्या
परमाङ्गना ॥ २८ ॥
उपाध्यायः
स
विधिना
हुत्वा
शान्तिमनामयम् ।
हुतहव्यावशेषेण
बाह्यं
बलिमकल्पयत् ॥ २९ ॥
मधुदध्यक्षतघृतैः
स्वस्ति
वाच्य
द्विजांस्ततः ।
वाचयामास
रामस्य
वने
स्वस्त्ययनक्रियाः ॥ ३० ॥
ततस्तस्मै
द्विजेन्द्राय
राममाता
यशस्विनी ।
दक्षिणां
प्रददौ
काम्यां
राघवं
चेदमब्रवीत् ॥ ३१ ॥
यन्मङ्गलं
सहस्राक्षे
सर्वदेवनमस्कृते ।
वृत्रनाशे
समभवत्तत्ते
भवतु
मङ्गलम् ॥ ३२ ॥
यन्मङ्गलं
सुपर्णस्य
विनताऽकल्पयत्
पुरा ।
अमृतं
प्रार्थयानस्य
तत्ते
भवतु
मङ्गलम् ॥ ३३ ॥
अमृतोत्पादने
दैत्यान्
घ्नतो
वज्रधरस्य
यत् ।
अदितिर्मङ्गलं
प्रादात्तत्ते
भवतु
मङ्गलम् ॥ ३४ ॥
त्रीन्
विक्रमान्
प्रक्रमतो
विष्णोरमिततेजसः ।
यदासीन्मङ्गलं
राम
तत्ते
भवतु
मङ्गलम् ॥ ३५ ॥
ऋतवः
सागरा
द्वीपा
वेदा
लोका
दिशश्चते ।
मङ्गलानि
महाबाहो
दिशन्तु
शुभमङ्गलाः ॥ ३६ ॥
इति
पुत्रस्य
शेषांश्च
कृत्वा
शिरसि
भामिनी ।
गन्धैश्चापि
समालभ्य
राममायतलोचना ॥ ३७ ॥
ओषधीं
चापि
सिद्धार्थां
विशल्यकरणीं
शुभाम् ।
चकार
रक्षां
कौसल्या
मन्त्रैरभिजजाप
च ॥ ३८ ॥
उवाचातिप्रहृष्टेव
सा
दुःखवशवर्त्तिनी ।
वाङ्मात्रेण
न
भावेन
वाचा
संसज्जमानया ॥ ३९ ॥
आनम्य
मूर्ध्नि
चाघ्राय
परिष्वज्य
यशस्विनी ।
अवदत्
पुत्र
सिद्धार्थो
गच्छ
राम
यथासुखम् ॥ ४० ॥
अरोगं
सर्वसिद्धार्थमयोध्यां
पुनरागतम् ।
पश्यामि
त्वां
सुखं
वत्स
सुस्थितं
राजवर्त्मनि ॥ ४१ ॥
प्रणष्टदुःखसङ्कल्पा
हर्षविद्योतितानना ।
द्रक्ष्यामि
त्वां
वनात्
प्राप्तं
पूर्णचन्द्रमिवोदितम् ॥ ४२ ॥
भद्रासनगतं
राम
वनवासादिहागतम् ।
द्रक्ष्यामि
च
पुनस्त्वां
तु
तीर्णवन्तं
पितुर्वचः ॥ ४३ ॥
मङ्गलैरुपसम्पन्नो
वनवासादिहागतः ।
वध्वा
मम
च
नित्यं
त्वं
कामान्
संवर्द्ध
याहि
भो ॥ ४४ ॥
मयार्चिता
देवगणाः
शिवादयो
महर्षयो
भूतमहासुरोरगाः ।
अभिप्रयातस्य
वनं
चिराय
ते
हितानि
काङ्क्षन्तु
दिशश्च
राघव ॥ ४५ ॥
इतीव
चाश्रुप्रतिपूर्णलोचना
समाप्य
च
स्वस्त्ययनं
यथाविधि ।
प्रदक्षिणं
चैव
चकार
राघवं
पुनःपुनश्चापि
निपीड्य
सस्वजे ॥ ४६ ॥
तथा
तु
देव्या
स
कृतप्रदक्षिणो
निपीड्य
मातुश्चरणौ
पुनःपुनः ।
जगाम
सीतानिलयं
महायशास्स
राघवः
प्रज्वलितः
स्वयाश्रिया ॥ ४७ ॥