अभिवाद्य
च
कौसल्यां
रामः
संप्रस्थितो
वनम् ।
कृतस्वस्त्ययनो
मात्रा
धर्मिष्ठे
वर्त्मनि
स्थितः ॥ १ ॥
विराजयन्
राजसुतो
राजमार्गं
नरैर्वृतम् ।
हृदयान्याममन्थेव
जनस्य
गुणवत्तया ॥ २ ॥
वैदेही
चापि
तत्सर्वं
न
शुश्राव
तपस्विनी ।
तदेव
हृदि
तस्याश्च
यौवराज्याभिषेचनम् ॥ ३ ॥
देवकार्यं
स्वयं
कृत्वा
कृत्ज्ञा
हृष्टचेतना ।
अभिज्ञा
राजधर्माणां
राजपुत्रं
प्रतीक्षते ॥ ४ ॥
प्रविवेशाथ
रामस्तु
स्वं
वेश्म
सुविभूषितम् ।
प्रहृष्टजनसम्पूर्णं
ह्रिया
किञ्चिदवाङ्मुखः ॥ ५ ॥
अथ
सीता
समुत्पत्य
वेपमाना
च
तं
पतिम् ।
अपश्यत्
शोकसन्तप्तं
चिन्ताव्याकुलितेन्द्रियम् ॥ ६ ॥
तां
दृष्ट्वा
सह
धर्मात्मा
न
शशाक
मनोगतम् ।
तं
शोकं
राघवः
सोढुं
ततो
विवृततां
गतः ॥ ७ ॥
विवर्णवदनं
दृष्ट्वा
तं
प्रस्विन्नममर्षणम् ।
आह
दुःखाभिसन्तप्ता
किमिदानीमिदं
प्रभो ॥ ८ ॥
अद्य
बार्हस्पतः
श्रीमानुक्तः
पुष्यो
नु
राघव ।
प्रोच्यते
ब्राह्मणैः
प्राज्ञैः
केन
त्वमसि
दुर्मनाः ॥ ९ ॥
न
ते
शतशलाकेन
जलफेननिभेन
च ।
आवृतं
वदनं
वल्गु
छत्रेणापि
विराजते ॥ १० ॥
व्यजनाभ्यां
च
मुख्याभ्यां
शतपत्रनिभेक्षणम् ।
चन्द्रहंसप्रकाशाभ्यां
वीज्यते
न
तवाननम् ॥ ११ ॥
वाग्ग्मिनो
वन्दिनश्चापि
प्रहृष्टास्त्वां
नरर्षभ ।
स्तुवन्तो
नात्र
दृश्यन्ते
मङ्गलैः
सूत
मागधाः ॥ १२ ॥
न
ते
क्षौद्रं
च
दधि
च
ब्राह्मणा
वेदपारगाः ।
मूर्ध्नि
मूर्द्धाभिषिक्तस्य
दधति
स्म
विधानतः ॥ १३ ॥
न
त्वां
प्रकृतयः
सर्वाः
श्रेणीमुख्याश्च
भूषिताः ।
अनुव्रजितुमिच्छन्ति
पौरजानपदास्तथा ॥ १४ ॥
चतुर्भिर्वेगसम्पन्नैर्हयैः
काञ्चनभूषितैः ।
मुख्यः
पुष्यरथो
युक्ताः
किं
न
गच्छति
तेऽग्रतः ॥ १५ ॥
न
हस्ती
चाग्रतः
श्रीमांस्तव
लक्षणपूजितः ।
प्रयाणे
लक्ष्यते
वीर
कृष्णमेघगिरिप्रभः ॥ १६ ॥
न
च
काञ्चनचित्रं
ते
पश्यामि
प्रियदर्शन ।
भद्रासनं
पुरस्कृत्य
यातं
वीरपुरस्कृतम् ॥ १७ ॥
अभिषेको
यथा
सज्जः
किमिदानीमिदं
तव ।
अपूर्वो
मुखवर्णश्च
न
प्रहर्षश्च
लक्ष्यते ॥ १८ ॥
इतीव
विलपन्तीं
तां
प्रोवाच
रघुनन्दनः ।
सीते
तत्रभवांस्तातः
प्रव्राजयति
मां
वनम् ॥ १९ ॥
कुले
महति
सम्भूते
धर्मज्ञे
धर्मचारिणि ।
श्रृणु
जानकि
येनेदं
क्रमेणाभ्यागतं
मम ॥ २० ॥
राज्ञा
सत्यप्रतिज्ञेन
पित्रा
दशरथेन
च ।
कैकेय्यै
मम
मात्रे
तु
पुरा
दत्तौ
महावरौ ॥ २१ ॥
तयाऽद्य
मम
सज्जेऽस्मिन्नभिषेके
नृपोद्यते ।
प्रचोदितः
स
समयो
धर्मेण
प्रतिनिर्जितः ॥ २२ ॥
पित्रा
मे
भरतश्चापि
यौवराज्ये
नियोजितः ।
सोऽहं
त्वामागतो
द्रष्टुं
प्रस्थितो
विजनं
वनम् ॥ २३ ॥
भरतस्य
समीपे
तु
नाहं
कथ्यः
कदाचन ।
ऋद्धियुक्ता
हि
पुरुषा
न
सहन्ते
परस्तवम् ॥ २४ ॥
तस्मान्न
ते
गुणाः
कथ्या
भरतस्याग्रतो
मम ।
नापि
त्वं
तेन
भर्तव्या
विशेषेण
कदाचन ॥ २५ ॥
अनुकूलतया
शक्यं
समीपे
त्वस्य
वर्तितुम् ।
तस्मै
दत्तं
नृपतिना
यौवराज्यं
सनातनम् ॥ २६ ॥
स
प्रसाद्यस्त्वया
सीते
नृपतिश्च
विशेषतः ।
अहं
चापि
प्रतिज्ञां
तां
गुरोः
समनुपालयन् ॥ २७ ॥
वनमद्यैव
यास्यामि
स्थिरा
भव
मनस्विनी ।
याते
च
मयि
कल्याणि
वनं
मुनिनिषेवितम् ॥ २८ ॥
व्रतोपवासपरया
भवितव्यं
त्वयाऽनघे ।
काल्यमुत्थाय
देवानां
कृत्वा
पूजां
यथाविधि ॥ २९ ॥
वन्दितव्यो
दशरथः
पिता
मम
नरेश्वरः ।
माता
च
मम
कौसल्या
वृद्धा
सन्तापकर्शिता ॥ ३० ॥
धर्ममेवाग्रतः
कृत्वा
त्वत्तः
सम्मानमर्हति ।
वन्दितव्याश्च
ते
नित्यं
याः
शेषा
मम
मातरः ॥ ३१ ॥
स्नेहप्रणयसम्भोगैः
समा
हि
मम
मातरः ।
भ्रातृपुत्रसमौ
चापि
द्रष्टव्यौ
च
विशेषतः ॥ ३२ ॥
त्वया
भरतशत्रुघ्नौ
प्राणैः
प्रियतरौ
मम ।
विप्रिपवयं
न
च
कर्त्तव्यं
भरतस्य
कदाचन ॥ ३३ ॥
स
हि
राजा
प्रभुश्चैव
देशस्य
च
कुलस्य
च ।
आराधिता
हि
शीलेन
प्रयत्नैश्चोपसेविताः ॥ ३४ ॥
राजानः
सम्प्रसीदन्ति
प्रकुप्यन्ति
विपर्यये ।
औरसानपि
पुत्रान्
हि
त्यजन्त्यहितकारिणः ॥ ३५ ॥
समर्थान्
सम्प्रगृह्णन्ति
जनानपि
नराधिपाः ।
सा
त्वं
वसेह
कल्याणि
राज्ञः
समनुवर्तिनी ॥ ३६ ॥
भरतस्य
रता
धर्मे
सत्यव्रतपरायणा ।
अहं
गमिष्यामि
महावनं
प्रिये
त्वया
हि
वस्तव्यमिहैव
भामिनि ॥ ३७ ॥
यथा
व्यलीकं
कुरुषे
न
कस्यचित्तथा
त्वया
कार्यमिदं
वचो
मम ॥ ३८ ॥