एतत्तु
वचनं
श्रुत्वा
सीता
रामस्य
दुःखिता ।
प्रसक्ता
श्रुमुखी
मन्दमिदं
वचनमब्रवीत् ॥ १ ॥
ये
त्वया
कीर्त्तिता
दोषा
वने
वस्तव्यतां
प्रति ।
गुणानित्येव
तान्
विद्धि
तव
स्नेहपुरस्कृतान् ॥ २ ॥
मृगाः
सिंहा
गजाश्चैव
शार्दूलाः
शरभास्तथा ।
पक्षिणः
सृमराश्चैव
ये
चान्ये
वनचारिणः ॥ ३ ॥
अदृष्टपूर्वरूपत्वात्
सर्वे
ते
तव
राघव ।
रूपं
दृष्ट्वापसर्पेयुर्भये
सर्वे
हि
बिभ्यति ॥ ४ ॥
त्वया
च
सह
गन्तव्यं
मया
गुरुजनाज्ञया ।
त्वद्वियोगेन
मे
राम
त्यक्तव्यमिह
जीवितम् ॥ ५ ॥
न
च
मां
त्वत्समीपस्थामपि
शक्नोति
राघव ।
सुराणामीश्वरः
शक्रः
प्रधर्षयितुमोजसा ॥ ६ ॥
पतिहीना
तु
या
नारी
न
सा
शक्ष्यति
जीवितुम् ।
काममेवंविधं
राम
त्वया
मम
विदर्शितम् ॥ ७ ॥
अथ
चापि
महाप्राज्ञ
ब्राह्मणानां
मया
श्रुतम् ।
पुरा
पितृगृहे
सत्यं
वस्तव्यं
किल
मे
वने ॥ ८ ॥
लक्षणिभ्यो
द्विजातिभ्यः
श्रुत्वाहं
वचनं
पुरा ।
वनवासकृतोत्साहा
नित्यमेव
महाबल ॥ ९ ॥
आदेशो
वनवासस्य
प्राप्तव्यस्स
मया
किल ।
सा
त्वया
सह
तत्राहं
यास्यामि
प्रिय
नान्यथा ॥ १० ॥
कृतादेशा
भविष्यामि
गमिष्यामि
सह
त्वया ।
कालश्चायं
समुत्पन्नः
सत्यवाग्
भवतु
द्विजः ॥ ११ ॥
वनवासे
हि
जानामि
दुःखानि
बहुधा
किल ।
प्राप्यन्ते
नियतं
वीर
पुरुषैरकृतात्मभिः ॥ १२ ॥
कन्यया
च
पितुर्गेहे
वनवासः
श्रुतो
मया ।
भिक्षिण्याः
साधुवृत्ताया
मम
मातुरिहाग्रतः ॥ १३ ॥
प्रसादितश्च
वै
पूर्वं
त्वं
वै
बहुविधं
प्रभो ।
गमनं
वनवासस्य
काङ्क्षितं
हि
सह
त्वया ॥ १४ ॥
कृतक्षणाहं
भद्रते
गमनं
प्रति
राघव ।
वनवासस्य
शूरस्य
चर्या
हि
मम
रोचते ॥ १५ ॥
शुद्धात्मन्
प्रेमभावाद्धि
भविष्यामि
विकल्मषा ।
भर्त्तारमनुगच्छन्ती
भर्त्ता
हि
मम
दैवतम् ॥ १६ ॥
प्रेत्यभावेऽपि
कल्याणः
सङ्गमो
मे
सह
त्वया ।
इह
लोके
च
पितृभिर्या
स्त्री
यस्य
महामते ॥ १७ ॥
अदृभिर्दत्त
स्वधर्मेण
प्रेत्यभावेपि
तस्य
सा ।
एवमस्मात्
स्वकां
नारीं
सुवृत्तां
हि
पतिव्रताम् ॥ १८ ॥
नाभिरोच्यसे
नेतुं
त्वं
मां
केनेह
हेतुना ।
भक्तां
पतिव्रतां
दीनां
मां
समां
सुखदुःखयोः ॥ १९ ॥
नेतुमर्हसि
काकुत्स्थ
समानसुखदुःखिनीम् ।
यदि
मां
दुःखिता
मेवं
वनं
नेतुं
न
चेच्छसि ॥ २० ॥
विषमग्निं
जलं
वाहमास्थास्ये
मृत्युकारणात् ।
एवं
बहुविधं
तं
सा
याचते
गमनं
प्रति ॥ २१ ॥
नानुमेने
महाबाहुस्तां
नेतुं
विजनं
वनम् ।
एवमुक्ता
तु
सा
चिन्तां
मैथिली
समुपागता ॥ २२ ॥
स्नापयन्तीव
गामुष्णैरश्रुभिर्नयनच्युतैः ।
चिन्तयन्तीं
तथा
तां
तु
निवर्त्तयितुमात्मवान् ॥ २३ ॥
ताम्रोष्ठीं
स
तदा
सीतां
काकुत्स्थो
बह्वसान्त्वयत् ॥ २४ ॥